"ऋग्वेदः सूक्तं १.१६२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५८:
 
</span></poem>
{{सायणभाष्यम्|
मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिंद्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ ख्यन् ।
 
यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः॑ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥१
 
मा । नः॒ । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । आ॒युः । इन्द्रः॑ । ऋ॒भु॒क्षाः । म॒रुतः॑ । परि॑ । ख्य॒न् ।
 
यत् । वा॒जिनः॑ । दे॒वऽजा॑तस्य । सप्तेः॑ । प्र॒ऽव॒क्ष्यामः॑ । वि॒दथे॑ । वी॒र्या॑णि ॥
 
मा । नः । मित्रः । वरुणः । अर्यमा । आयुः । इन्द्रः । ऋभुक्षाः । मरुतः । परि । ख्यन् ।
 
यत् । वाजिनः । देवऽजातस्य । सप्तेः । प्रऽवक्ष्यामः । विदथे । वीर्याणि ॥
 
 
 
यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नयं॑ति ।
 
सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इंद्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथः॑ ॥२
 
यत् । निः॒ऽनिजा॑ । रेक्ण॑सा । प्रावृ॑तस्य । रा॒तिम् । गृ॒भी॒ताम् । मु॒ख॒तः । नय॑न्ति ।
 
सुऽप्रा॑ङ् । अ॒जः । मेम्य॑त् । वि॒श्वऽरू॑पः । इ॒न्द्रा॒पू॒ष्णोः । प्रि॒यम् । अपि॑ । ए॒ति॒ । पाथः॑ ॥
 
यत् । निःऽनिजा । रेक्णसा । प्रावृतस्य । रातिम् । गृभीताम् । मुखतः । नयन्ति ।
 
सुऽप्राङ् । अजः । मेम्यत् । विश्वऽरूपः । इन्द्रापूष्णोः । प्रियम् । अपि । एति । पाथः ॥
 
 
 
ए॒ष छागः॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः ।
 
अ॒भि॒प्रियं॒ यत्पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे॑नं सौश्रव॒साय॑ जिन्वति ॥३
 
ए॒षः । छागः॑ । पु॒रः । अश्वे॑न । वा॒जिना॑ । पू॒ष्णः । भ॒गः । नी॒य॒ते॒ । वि॒श्वऽदे॑व्यः ।
 
अ॒भि॒ऽप्रिय॑म् । यत् । पु॒रो॒ळाश॑म् । अर्व॑ता । त्वष्टा॑ । इत् । ए॒न॒म् । सौ॒श्र॒व॒साय॑ । जि॒न्व॒ति॒ ॥
 
एषः । छागः । पुरः । अश्वेन । वाजिना । पूष्णः । भगः । नीयते । विश्वऽदेव्यः ।
 
अभिऽप्रियम् । यत् । पुरोळाशम् । अर्वता । त्वष्टा । इत् । एनम् । सौश्रवसाय । जिन्वति ॥
 
 
 
यद्ध॑वि॒ष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नयं॑ति ।
 
अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय॑न्न॒जः ॥४
 
यत् । ह॒वि॒ष्य॑म् । ऋ॒तु॒ऽशः । दे॒व॒ऽयान॑म् । त्रिः । मानु॑षाः । परि॑ । अश्व॑म् । नय॑न्ति ।
 
अत्र॑ । पू॒ष्णः । प्र॒थ॒मः । भा॒गः । ए॒ति॒ । य॒ज्ञम् । दे॒वेभ्यः॑ । प्र॒ति॒ऽवे॒दय॑न् । अ॒जः ॥
 
यत् । हविष्यम् । ऋतुऽशः । देवऽयानम् । त्रिः । मानुषाः । परि । अश्वम् । नयन्ति ।
 
अत्र । पूष्णः । प्रथमः । भागः । एति । यज्ञम् । देवेभ्यः । प्रतिऽवेदयन् । अजः ॥
 
 
 
होता॑ध्व॒र्युराव॑या अग्निमिं॒धो ग्रा॑वग्रा॒भ उ॒त शंस्ता॒ सुवि॑प्रः ।
 
तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वं ॥५
 
होता॑ । अ॒ध्व॒र्युः । आऽव॑याः । अ॒ग्नि॒म्ऽइ॒न्धः । ग्रा॒व॒ऽग्रा॒भः । उ॒त । शंस्ता॑ । सुऽवि॑प्रः ।
 
तेन॑ । य॒ज्ञेन॑ । सुऽअ॑रङ्कृतेन । सुऽइ॑ष्टेन । व॒क्षणाः॑ । आ । पृ॒ण॒ध्व॒म् ॥
 
होता । अध्वर्युः । आऽवयाः । अग्निम्ऽइन्धः । ग्रावऽग्राभः । उत । शंस्ता । सुऽविप्रः ।
 
तेन । यज्ञेन । सुऽअरङ्कृतेन । सुऽइष्टेन । वक्षणाः । आ । पृणध्वम् ॥
 
 
 
यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति ।
 
ये चार्व॑ते॒ पच॑नं सं॒भरं॑त्यु॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥६
 
यू॒प॒ऽव्र॒स्काः । उ॒त । ये । यू॒प॒ऽवा॒हाः । च॒षाल॑म् । ये । अ॒श्व॒ऽयू॒पाय॑ । तक्ष॑ति ।
 
ये । च॒ । अर्व॑ते । पच॑नम् । स॒म्ऽभर॑न्ति । उ॒तो इति॑ । तेषा॑म् । अ॒भिऽगू॑र्तिः । नः॒ । इ॒न्व॒तु॒ ॥
 
यूपऽव्रस्काः । उत । ये । यूपऽवाहाः । चषालम् । ये । अश्वऽयूपाय । तक्षति ।
 
ये । च । अर्वते । पचनम् । सम्ऽभरन्ति । उतो इति । तेषाम् । अभिऽगूर्तिः । नः । इन्वतु ॥
 
 
 
उप॒ प्रागा॑त्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः ।
 
अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदंति दे॒वानां॑ पु॒ष्टे च॑कृमा सु॒बंधुं॑ ॥७
 
उप॑ । प्र । अ॒गा॒त् । सु॒ऽमत् । मे॒ । अ॒धा॒यि॒ । मन्म॑ । दे॒वाना॑म् । आशाः॑ । उप॑ । वी॒तऽपृ॑ष्ठः ।
 
अनु॑ । ए॒न॒म् । विप्राः॑ । ऋष॑यः । म॒द॒न्ति॒ । दे॒वाना॑म् । पु॒ष्टे । च॒कृ॒म॒ । सु॒ऽबन्धु॑म् ॥
 
उप । प्र । अगात् । सुऽमत् । मे । अधायि । मन्म । देवानाम् । आशाः । उप । वीतऽपृष्ठः ।
 
अनु । एनम् । विप्राः । ऋषयः । मदन्ति । देवानाम् । पुष्टे । चकृम । सुऽबन्धुम् ॥
 
 
 
यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य ।
 
यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॒३॒॑ तृणं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥८
 
यत् । वा॒जिनः॑ । दाम॑ । स॒म्ऽदान॑म् । अर्व॑तः । या । शी॒र्ष॒ण्या॑ । र॒श॒ना । रज्जुः॑ । अ॒स्य॒ ।
 
यत् । वा॒ । घ॒ । अ॒स्य॒ । प्रऽभृ॑तम् । आ॒स्ये॑ । तृण॑म् । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥
 
यत् । वाजिनः । दाम । सम्ऽदानम् । अर्वतः । या । शीर्षण्या । रशना । रज्जुः । अस्य ।
 
यत् । वा । घ । अस्य । प्रऽभृतम् । आस्ये । तृणम् । सर्वा । ता । ते । अपि । देवेषु । अस्तु ॥
 
 
 
यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ ।
 
यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥९
 
यत् । अश्व॑स्य । क्र॒विषः॑ । मक्षि॑का । आश॑ । यत् । वा॒ । स्वरौ॑ । स्वऽधि॑तौ । रि॒प्तम् । अस्ति॑ ।
 
यत् । हस्त॑योः । श॒मि॒तुः । यत् । न॒खेषु॑ । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥
 
यत् । अश्वस्य । क्रविषः । मक्षिका । आश । यत् । वा । स्वरौ । स्वऽधितौ । रिप्तम् । अस्ति ।
 
यत् । हस्तयोः । शमितुः । यत् । नखेषु । सर्वा । ता । ते । अपि । देवेषु । अस्तु ॥
 
 
 
यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ गं॒धो अस्ति॑ ।
 
सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वंतू॒त मेधं॑ शृत॒पाकं॑ पचंतु ॥१०
 
यत् । ऊव॑ध्यम् । उ॒दर॑स्य । अ॒प॒ऽवाति॑ । यः । आ॒मस्य॑ । क्र॒विषः॑ । ग॒न्धः । अस्ति॑ ।
 
सु॒ऽकृ॒ता । तत् । श॒मि॒तारः॑ । कृ॒ण्व॒न्तु॒ । उ॒त । मेध॑म् । शृ॒त॒ऽपाक॑म् । प॒च॒न्तु॒ ॥
 
यत् । ऊवध्यम् । उदरस्य । अपऽवाति । यः । आमस्य । क्रविषः । गन्धः । अस्ति ।
 
सुऽकृता । तत् । शमितारः । कृण्वन्तु । उत । मेधम् । शृतऽपाकम् । पचन्तु ॥
 
 
 
यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति ।
 
मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥११
 
यत् । ते॒ । गात्रा॑त् । अ॒ग्निना॑ । प॒च्यमा॑नात् । अ॒भि । शूल॑म् । निऽह॑तस्य । अ॒व॒ऽधाव॑ति ।
 
मा । तत् । भूम्या॑म् । आ । श्रि॒ष॒त् । मा । तृणे॑षु । दे॒वेभ्यः॑ । तत् । उ॒शत्ऽभ्यः॑ । रा॒तम् । अ॒स्तु॒ ॥
 
यत् । ते । गात्रात् । अग्निना । पच्यमानात् । अभि । शूलम् । निऽहतस्य । अवऽधावति ।
 
मा । तत् । भूम्याम् । आ । श्रिषत् । मा । तृणेषु । देवेभ्यः । तत् । उशत्ऽभ्यः । रातम् । अस्तु ॥
 
 
 
ये वा॒जिनं॑ परि॒पश्यं॑ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ ।
 
ये चार्व॑तो मांसभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥१२
 
ये । वा॒जिन॑म् । प॒रि॒ऽपश्य॑न्ति । प॒क्वम् । ये । ई॒म् । आ॒हुः । सु॒र॒भिः । निः । ह॒र॒ । इति॑ ।
 
ये । च॒ । अर्व॑तः । मां॒स॒ऽभि॒क्षाम् । उ॒प॒ऽआस॑ते । उ॒तो इति॑ । तेषा॑म् । अ॒भिऽगू॑र्तिः । नः॒ । इ॒न्व॒तु॒ ॥
 
ये । वाजिनम् । परिऽपश्यन्ति । पक्वम् । ये । ईम् । आहुः । सुरभिः । निः । हर । इति ।
 
ये । च । अर्वतः । मांसऽभिक्षाम् । उपऽआसते । उतो इति । तेषाम् । अभिऽगूर्तिः । नः । इन्वतु ॥
 
 
 
यन्नीक्ष॑णं माँ॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि ।
 
ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णामं॒काः सू॒नाः परि॑ भूषं॒त्यश्वं॑ ॥१३
 
यत् । नि॒ऽईक्ष॑णम् । मां॒स्पच॑न्याः । उ॒खायाः॑ । या । पात्रा॑णि । यू॒ष्णः । आ॒ऽसेच॑नानि ।
 
ऊ॒ष्म॒ण्या॑ । अ॒पि॒ऽधाना॑ । च॒रू॒णाम् । अ॒ङ्काः । सू॒नाः । परि॑ । भू॒ष॒न्ति॒ । अश्व॑म् ॥
 
यत् । निऽईक्षणम् । मांस्पचन्याः । उखायाः । या । पात्राणि । यूष्णः । आऽसेचनानि ।
 
ऊष्मण्या । अपिऽधाना । चरूणाम् । अङ्काः । सूनाः । परि । भूषन्ति । अश्वम् ॥
 
 
 
नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी॑श॒मर्व॑तः ।
 
यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥१४
 
नि॒ऽक्रम॑णम् । नि॒ऽसद॑नम् । वि॒ऽवर्त॑नम् । यत् । च॒ । पड्बी॑शम् । अर्व॑तः ।
 
यत् । च॒ । प॒पौ । यत् । च॒ । घा॒सिम् । ज॒घास॑ । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥
 
निऽक्रमणम् । निऽसदनम् । विऽवर्तनम् । यत् । च । पड्बीशम् । अर्वतः ।
 
यत् । च । पपौ । यत् । च । घासिम् । जघास । सर्वा । ता । ते । अपि । देवेषु । अस्तु ॥
 
 
 
मा त्वा॒ग्निर्ध्व॑नयीद्धू॒मगं॑धि॒र्मोखा भ्राजं॑त्य॒भि वि॑क्त॒ जघ्रिः॑ ।
 
इ॒ष्टं वी॒तम॒भिगू॑र्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्णं॒त्यश्वं॑ ॥१५
 
मा । त्वा॒ । अ॒ग्निः । ध्व॒न॒यी॒त् । धू॒मऽग॑न्धिः । मा । उ॒खा । भ्राज॑न्ती । अ॒भि । वि॒क्त॒ । जघ्रिः॑ ।
 
इ॒ष्टम् । वी॒तम् । अ॒भिऽगू॑र्तम् । वष॑ट्ऽकृतम् । तम् । दे॒वासः॑ । प्रति॑ । गृ॒भ्ण॒न्ति॒ । अश्व॑म् ॥
 
मा । त्वा । अग्निः । ध्वनयीत् । धूमऽगन्धिः । मा । उखा । भ्राजन्ती । अभि । विक्त । जघ्रिः ।
 
इष्टम् । वीतम् । अभिऽगूर्तम् । वषट्ऽकृतम् । तम् । देवासः । प्रति । गृभ्णन्ति । अश्वम् ॥
 
 
 
यदश्वा॑य॒ वास॑ उपस्तृ॒णंत्य॑धीवा॒सं या हिर॑ण्यान्यस्मै ।
 
सं॒दान॒मर्वं॑तं॒ पड्बी॑शं प्रि॒या दे॒वेष्वा या॑मयंति ॥१६
 
यत् । अश्वा॑य । वासः॑ । उ॒प॒ऽस्तृ॒णन्ति॑ । अ॒धी॒वा॒सम् । या । हिर॑ण्यानि । अ॒स्मै॒ ।
 
स॒म्ऽदान॑म् । अर्व॑न्तम् । पड्बी॑शम् । प्रि॒या । दे॒वेषु॑ । आ । य॒म॒य॒न्ति॒ ॥
 
यत् । अश्वाय । वासः । उपऽस्तृणन्ति । अधीवासम् । या । हिरण्यानि । अस्मै ।
 
सम्ऽदानम् । अर्वन्तम् । पड्बीशम् । प्रिया । देवेषु । आ । यमयन्ति ॥
 
 
 
यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या॑ वा॒ कश॑या वा तु॒तोद॑ ।
 
स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ॥१७
 
यत् । ते॒ । सा॒दे । मह॑सा । शूकृ॑तस्य । पार्ष्ण्या॑ । वा॒ । कश॑या । वा॒ । तु॒तोद॑ ।
 
स्रु॒चाऽइ॑व । ता । ह॒विषः॑ । अ॒ध्व॒रेषु॑ । सर्वा॑ । ता । ते॒ । ब्रह्म॑णा । सू॒द॒या॒मि॒ ॥
 
यत् । ते । सादे । महसा । शूकृतस्य । पार्ष्ण्या । वा । कशया । वा । तुतोद ।
 
स्रुचाऽइव । ता । हविषः । अध्वरेषु । सर्वा । ता । ते । ब्रह्मणा । सूदयामि ॥
 
 
 
चतु॑स्त्रिंशद्वा॒जिनो॑ दे॒वबं॑धो॒र्वंक्री॒रश्व॑स्य॒ स्वधि॑तिः॒ समे॑ति ।
 
अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ॥१८
 
चतुः॑ऽत्रिंशत् । वा॒जिनः॑ । दे॒वऽब॑न्धोः । वङ्क्रीः॑ । अश्व॑स्य । स्वऽधि॑तिः । सम् । ए॒ति॒ ।
 
अच्छि॑द्रा । गात्रा॑ । व॒युना॑ । कृ॒णो॒त॒ । परुः॑ऽपरुः । अ॒नु॒ऽघुष्य॑ । वि । श॒स्त॒ ॥
 
चतुःऽत्रिंशत् । वाजिनः । देवऽबन्धोः । वङ्क्रीः । अश्वस्य । स्वऽधितिः । सम् । एति ।
 
अच्छिद्रा । गात्रा । वयुना । कृणोत । परुःऽपरुः । अनुऽघुष्य । वि । शस्त ॥
 
 
 
एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा यं॒तारा॑ भवत॒स्तथ॑ ऋ॒तुः ।
 
या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिंडा॑नां॒ प्र जु॑होम्य॒ग्नौ ॥१९
 
एकः॑ । त्वष्टुः॑ । अश्व॑स्य । वि॒ऽश॒स्ता । द्वा । य॒न्तारा॑ । भ॒व॒तः॒ । तथा॑ । ऋ॒तुः ।
 
या । ते॒ । गात्रा॑णाम् । ऋ॒तु॒ऽथा । कृ॒णोमि॑ । ताऽता॑ । पिण्डा॑नाम् । प्र । जु॒हो॒मि॒ । अ॒ग्नौ ॥
 
एकः । त्वष्टुः । अश्वस्य । विऽशस्ता । द्वा । यन्तारा । भवतः । तथा । ऋतुः ।
 
या । ते । गात्राणाम् । ऋतुऽथा । कृणोमि । ताऽता । पिण्डानाम् । प्र । जुहोमि । अग्नौ ॥
 
 
 
मा त्वा॑ तपत्प्रि॒य आ॒त्मापि॒यंतं॒ मा स्वधि॑तिस्त॒न्व१॒॑ आ ति॑ष्ठिपत्ते ।
 
मा ते॑ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ च्छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः ॥२०
 
मा । त्वा॒ । त॒प॒त् । प्रि॒यः । आ॒त्मा । अ॒पि॒ऽयन्त॑म् । मा । स्वऽधि॑तिः । त॒न्वः॑ । आ । ति॒स्थि॒प॒त् । ते॒ ।
 
मा । ते॒ । गृ॒ध्नुः । अ॒वि॒ऽश॒स्ता । अ॒ति॒ऽहाय॑ । छि॒द्रा । गात्रा॑णि । अ॒सिना॑ । मिथु॑ । क॒रिति॑ कः ॥
 
मा । त्वा । तपत् । प्रियः । आत्मा । अपिऽयन्तम् । मा । स्वऽधितिः । तन्वः । आ । तिस्थिपत् । ते ।
 
मा । ते । गृध्नुः । अविऽशस्ता । अतिऽहाय । छिद्रा । गात्राणि । असिना । मिथु । करिति कः ॥
 
 
 
न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इदे॑षि प॒थिभिः॑ सु॒गेभिः॑ ।
 
हरी॑ ते॒ युंजा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य ॥२१
 
न । वै । ऊं॒ इति॑ । ए॒तत् । म्रि॒य॒से॒ । न । रि॒ष्य॒सि॒ । दे॒वान् । इत् । ए॒षि॒ । प॒थिऽभिः॑ । सु॒ऽगेभिः॑ ।
 
हरी॒ इति॑ । ते॒ । युञ्जा॑ । पृष॑ती॒ इति॑ । अ॒भू॒ता॒म् । उप॑ । अ॒स्था॒त् । वा॒जी । धु॒रि । रास॑भस्य ॥
 
न । वै । ऊं इति । एतत् । म्रियसे । न । रिष्यसि । देवान् । इत् । एषि । पथिऽभिः । सुऽगेभिः ।
 
हरी इति । ते । युञ्जा । पृषती इति । अभूताम् । उप । अस्थात् । वाजी । धुरि । रासभस्य ॥
 
 
 
सु॒गव्यं॑ नो वा॒जी स्वश्व्यं॑ पुं॒सः पु॒त्राँ उ॒त वि॑श्वा॒पुषं॑ र॒यिं ।
 
अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनतां ह॒विष्मा॑न् ॥२२
 
सु॒ऽगव्य॑म् । नः॒ । वा॒जी । सु॒ऽअश्व्य॑म् । पुं॒सः । पु॒त्रान् । उ॒त । वि॒श्व॒ऽपुष॑म् । र॒यिम् ।
 
अ॒ना॒गाः॒ऽत्वम् । नः॒ । अदि॑तिः । कृ॒णो॒तु॒ । क्ष॒त्रम् । नः॒ । अश्वः॑ । व॒न॒ता॒म् । ह॒विष्मा॑न् ॥
 
सुऽगव्यम् । नः । वाजी । सुऽअश्व्यम् । पुंसः । पुत्रान् । उत । विश्वऽपुषम् । रयिम् ।
 
अनागाःऽत्वम् । नः । अदितिः । कृणोतु । क्षत्रम् । नः । अश्वः । वनताम् । हविष्मान् ॥
 
 
 
 
}}
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६२" इत्यस्माद् प्रतिप्राप्तम्