"ऋग्वेदः सूक्तं १०.९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३४:
 
{{सायणभाष्यम्|
‘आपो हि' इति नवर्चं नवमं सूक्तम् । अम्बरीषस्य राज्ञः पुत्रः सिन्धुद्वीप ऋषिस्त्वष्टृपुत्रस्त्रिशिरा वा । ' इदमापः' इत्यादिके द्वे अनुष्टुभौ ।' ईशाना ' इति वर्धमाना। ‘आपः पृणीत' इति प्रतिष्ठा । शिष्टा गायत्र्यः । आपो देवता । तथा चानुक्रान्तम्- आपो हि सिन्धुद्वीपो वाम्बरीष आपं गायत्रं द्व्यनुटुबन्तं पञ्चमी वर्धमाना सप्तमी प्रतिष्ठा' इति । गतः सूक्तविनियोगः । आग्निमारुते 'आपो हि ष्ठा' इत्याद्यास्तिस्रः । सूत्रितं च--’आपो हि ष्ठेति तिस्रो वियतमप उपस्पृशन्' (आश्व. श्रौ. ५. २०) इति ॥
 
 
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
 
Line ४६ ⟶ ४९:
महे । रणाय । चक्षसे ॥
 
“हि यस्मात् कारणात् "आपः या यूयं "मयोभुवः सुखस्य भावयित्र्यः “स्थ भवथ “ताः तादृश्यो यूयं "नः अस्मान् “ऊर्जे अन्नाय “दधातन धत्त । अन्नप्राप्तियोग्यानस्मान् कुरुत । अन्नमस्मभ्यं दत्तेत्यर्थः । "महे महते "रणाय रमणीयाय "चक्षसे दर्शनाय सम्यग्ज्ञानाय च धत्त । अस्मान् सम्यग्ज्ञानं प्रति यौग्यान् कुरुतेत्यर्थः ॥
 
 
Line ६० ⟶ ६४:
उशतीःऽइव । मातरः ॥
 
हे आपः "वः युष्माकं स्वभूतः "यः "रसः "शिवतमः सुखतमः "इह अस्मिँल्लोके "तस्य तं रसं “नः अस्मान् “भाजयत सेवयत । उपयोजयतेत्यर्थः। तत्र दृष्टान्तः । "उशतीरिव उशत्य इव पुत्रसमृद्धिं कामयमानाः "मातरः स्तन्यरसं यथा भाजयन्ति प्रापयन्ति तद्वत् ।।
 
 
Line ७४ ⟶ ७९:
आपः । जनयथ । च । नः ॥
 
हे आपः यूयं "यस्य पापस्य “क्षयाय विनाशाय अस्मान् "जिन्वथ प्रीणयथ “तस्मै तादृशाय पापक्षयाय “अरं क्षिप्र "वः युष्मान् "गमाम गमयाम । वयं शिरसि प्रक्षिपामेत्यर्थः । यद्वा । यस्यान्नस्य क्षयाय निवासार्थं यूयमोषधीर्जिन्वथ तर्पयथ तस्मै तदन्नमुद्दिश्य वयमरमलं पर्याप्तं यथा भवति तथा वो युष्मान् गमाम गच्छाम । किंच हे "आपः "नः अस्मान् जनयथ “च । पुत्रपौत्रादिजनने प्रयोजयतेत्यर्थः ।।
 
 
Line ८८ ⟶ ९४:
शम् । योः । अभि । स्रवन्तु । नः ॥
 
“नः अस्माकं पापापनोदद्वारेण "शं सुखं "भवन्तु “देवीः देव्यः “आपः। "अभिष्टये अस्मद्यज्ञाय भवन्तु । यज्ञाङ्गभावाय च भवन्त्वित्यर्थः । "पीतये पानाय च भवन्तु । तथा “शम् उत्पन्नानां रोगाणां शमनं "योः यावनमनुत्पन्नानां पृथक्करणं च कुर्वन्तु । अपि च "नः अस्माकम् “अभि उपरि "स्रवन्तु शुद्ध्यर्थं सिञ्चन्तु ॥
 
 
Line १०२ ⟶ १०९:
अपः । याचामि । भेषजम् ॥
 
“वार्याणां वारिप्रभवानां व्रीहियवादीनां यद्वा वरणीयानां धनानाम् “ईशानाः ईश्वराः “चर्षणीनां मनुष्याणां “क्षयन्तीः निवासयित्रीः "अपः उदकानि “भेषजम् । सुखनामैतत् । पापापनोदनं सुखं “याचामि अहं प्रार्थये ॥
 
 
Line १५८ ⟶ १६६:
पयस्वान् । अग्ने । आ । गहि । तम् । मा । सम् । सृज । वर्चसा ॥
 
‘अप्सु मे सोमो अब्रवीत् ' इत्यादिकाश्चतस्र ऋचः प्रथमाष्टके द्वितीयाध्याये विनियोगपुरःसरं व्याख्याताः (ऋ. सं. [[ऋग्वेदः सूक्तं १.२३|१. २३. २०-२३]] ) ॥ ॥ ५ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९" इत्यस्माद् प्रतिप्राप्तम्