"ऋग्वेदः सूक्तं ७.१५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height:200%">
<div class="verse">
<pre>
उपसद्याय मीळ्हुष आस्ये जुहुता हविः ।
यो नो नेदिष्ठमाप्यम् ॥१॥
Line ४२ ⟶ ४१:
दिवा नक्तमदाभ्य ॥१५॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
‘ उपसद्याय' इति पञ्चदशर्चं पञ्चदशं सूक्तं वसिष्ठस्यार्षं गायत्रमाग्नेयम् । तथा चानुक्रान्तम्-- ’ उपसद्याय पञ्चोना गायत्रम्' इति । प्रातरनुवाक आग्नेये क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च - उपसद्याय त्वमग्ने यज्ञानामिति तिस्र उत्तमा उद्धरेत्' (आश्व. श्रौ. ४.१३) इति ।
उपसदि पौर्वाह्णिक्याम् ‘उपसद्याय' इत्याद्यास्तिस्र ऋचः सामिधेन्यः। सूत्र्यते च -उपसद्याय मीळ्हुष इति तिस्र एकैकां त्रिरनवानम्' (आश्व. श्रौ. ४. ८) इति । पवित्रेष्ट्याम् ' अग्नी रक्षांसि' इत्येषा प्रथमाज्यभागानुवाक्या । सूत्रितं च--’ पावकवन्तावाज्यभागावग्नी रक्षांसि सेधति' (आश्व. श्रौ. २.१२) इति । अन्वारम्भणीयायामग्नेर्भगिनो याज्या । सूत्रितं च- आ सवं सवितुर्यथा स नो राधांस्या भर' (आश्व. श्रौ. २. ८) इति । स्वस्त्ययन्यामिष्टौ ‘अग्ने रक्षा णः' इति प्रथमाज्यभागानुवाक्या । सूत्रितं च - ‘स्वस्त्ययन्यां रक्षितवन्तावग्ने रक्षा णो अंहसः' (आश्व. श्रौ. २.१०) इति ॥
 
 
उ॒प॒सद्या॑य मी॒ळ्हुष॑ आ॒स्ये॑ जुहुता ह॒विः ।
 
यो नो॒ नेदि॑ष्ठ॒माप्यं॑ ॥१
 
उ॒प॒ऽसद्या॑य । मी॒ळ्हुषे॑ । आ॒स्ये॑ । जु॒हु॒त॒ । ह॒विः ।
 
यः । नः॒ । नेदि॑ष्ठम् । आप्य॑म् ॥
 
उपऽसद्याय । मीळ्हुषे । आस्ये । जुहुत । हविः ।
 
यः । नः । नेदिष्ठम् । आप्यम् ॥
 
हे अध्वर्यवः “उपसद्याय उपसदनीयाय "मीळ्हुषे कामानां वर्षित्रेऽग्नये तत्प्रीत्यर्थम् "आस्ये तस्यैव मुखे "हविः "जुहुत । "यः अग्निः "नेदिष्ठम् आसन्नतमम् "आप्यं भवति । आसन्नतमो बन्धुर्भवतीत्यर्थः । आप्यमिति स्वार्थिकस्तद्धितः ॥
 
 
यः पंच॑ चर्ष॒णीर॒भि नि॑ष॒साद॒ दमे॑दमे ।
 
क॒विर्गृ॒हप॑ति॒र्युवा॑ ॥२
 
यः । पञ्च॑ । च॒र्ष॒णीः । अ॒भि । नि॒ऽस॒साद॑ । दमे॑ऽदमे ।
 
क॒विः । गृ॒हऽप॑तिः । युवा॑ ॥
 
यः । पञ्च । चर्षणीः । अभि । निऽससाद । दमेऽदमे ।
 
कविः । गृहऽपतिः । युवा ॥
 
"यः अग्निः "कविः प्राज्ञः "गृहपतिः गृहाणां पालयिता "युवा नित्यतरुणः सन् "पञ्च “चर्षणीः पञ्च जनान् मनुष्यान् "अभि अभिमुखं "दमेदमे गृहेगृहे "निषसाद निषीदति । उत्तरया वाक्यपरिसमाप्तिः ॥
 
 
स नो॒ वेदो॑ अ॒मात्य॑म॒ग्नी र॑क्षतु वि॒श्वतः॑ ।
 
उ॒तास्मान्पा॒त्वंह॑सः ॥३
 
सः । नः॒ । वेदः॑ । अ॒मात्य॑म् । अ॒ग्निः । र॒क्ष॒तु॒ । वि॒श्वतः॑ ।
 
उ॒त । अ॒स्मान् । पा॒तु॒ । अंह॑सः ॥
 
सः । नः । वेदः । अमात्यम् । अग्निः । रक्षतु । विश्वतः ।
 
उत । अस्मान् । पातु । अंहसः ॥
 
“सः "अग्निः "नः अस्माकं "वेदः धनम् "अमात्यम् अन्तिके भवं सहभूतं वा “विश्वतः सर्वतः बाधकात् "रक्षतु । "उत अपि च "अस्मान् वसिष्ठान् "अंहसः पापात् "पातु रक्षतु ॥
 
 
नवं॒ नु स्तोम॑म॒ग्नये॑ दि॒वः श्ये॒नाय॑ जीजनं ।
 
वस्वः॑ कु॒विद्व॒नाति॑ नः ॥४
 
नव॑म् । नु । स्तोम॑म् । अ॒ग्नये॑ । दि॒वः । श्ये॒नाय॑ । जी॒ज॒न॒म् ।
 
वस्वः॑ । कु॒वित् । व॒नाति॑ । नः॒ ॥
 
नवम् । नु । स्तोमम् । अग्नये । दिवः । श्येनाय । जीजनम् ।
 
वस्वः । कुवित् । वनाति । नः ॥
 
“दिवः द्युलोकस्य “श्येनाय श्येनसदृशाय "नु क्षिप्रं गन्त्रे "अग्नये यस्मै "नवं नूतनं "स्तोमं “जीजनं जनयामि सोऽग्निः "नः अस्मभ्यं "कुवित् बहु “वस्वः वसु धनम् । कर्मणि षष्ठी । “वनाति । ददात्वित्यर्थः ॥
 
 
स्पा॒र्हा यस्य॒ श्रियो॑ दृ॒शे र॒यिर्वी॒रव॑तो यथा ।
 
अग्रे॑ य॒ज्ञस्य॒ शोच॑तः ॥५
 
स्पा॒र्हाः । यस्य॑ । श्रियः॑ । दृ॒शे । र॒यिः । वी॒रऽव॑तः । य॒था॒ ।
 
अग्रे॑ । य॒ज्ञस्य॑ । शोच॑तः ॥
 
स्पार्हाः । यस्य । श्रियः । दृशे । रयिः । वीरऽवतः । यथा ।
 
अग्रे । यज्ञस्य । शोचतः ॥
 
"यज्ञस्य "अग्रे पुरस्ताद्भागे “शोचतः दीप्यमानस्य "यस्य अग्नेः "श्रियः दीप्तयः "वीरवतः पुत्रवतः "रयिः धनं "यथा तद्वत् "दृशे द्रष्टुं चक्षुषे वा "स्पार्हाः स्पृहणीया भवन्ति तस्मै नवं स्तोमं जीजनमित्यनुषङ्गः । उत्तरत्र संबन्धो वा ॥ ॥ १८ ॥
 
 
सेमां वे॑तु॒ वष॑ट्कृतिम॒ग्निर्जु॑षत नो॒ गिरः॑ ।
 
यजि॑ष्ठो हव्य॒वाह॑नः ॥६
 
सः । इ॒माम् । वे॒तु॒ । वष॑ट्ऽकृतिम् । अ॒ग्निः । जु॒ष॒त॒ । नः॒ । गिरः॑ ।
 
यजि॑ष्ठः । ह॒व्य॒ऽवाह॑नः ॥
 
सः । इमाम् । वेतु । वषट्ऽकृतिम् । अग्निः । जुषत । नः । गिरः ।
 
यजिष्ठः । हव्यऽवाहनः ॥
 
"यजिष्ठः यजनीयतमो यष्टृतमो वा "हव्यवाहनः हव्यानां हविषां वोढा "सः "अग्निः “इमां “वषट्कृतिम् अस्माभिर्दीयमानामाहुतिं “वेतु कामयतां भक्षयतु वा । “नः अस्माकं "गिरः स्तुतीश्च "जुषत सेवताम् ॥
 
 
नि त्वा॑ नक्ष्य विश्पते द्यु॒मंतं॑ देव धीमहि ।
 
सु॒वीर॑मग्न आहुत ॥७
 
नि । त्वा॒ । न॒क्ष्य॒ । वि॒श्प॒ते॒ । द्यु॒ऽमन्त॑म् । दे॒व॒ । धी॒म॒हि॒ ।
 
सु॒ऽवीर॑म् । अ॒ग्ने॒ । आ॒ऽहु॒त॒ ॥
 
नि । त्वा । नक्ष्य । विश्पते । द्युऽमन्तम् । देव । धीमहि ।
 
सुऽवीरम् । अग्ने । आऽहुत ॥
 
"नक्ष्य उपगन्तव्य । नक्षतिर्व्याप्तिकर्मा। "विश्पते विशां पते "देव द्योतमान "आहुत सर्वैर्यजमानैरभिहुत हे "अग्ने "द्युमन्तं दीप्तिमन्तं "सुवीरं कल्याणस्तोतृकं "त्वा त्वां वयं "नि “धीमहि निहितवन्तः ॥
 
 
क्षप॑ उ॒स्रश्च॑ दीदिहि स्व॒ग्नय॒स्त्वया॑ व॒यं ।
 
सु॒वीर॒स्त्वम॑स्म॒युः ॥८
 
क्षपः॑ । उ॒स्रः । च॒ । दी॒दि॒हि॒ । सु॒ऽअ॒ग्नयः॑ । त्वया॑ । व॒यम् ।
 
सु॒ऽवीरः॑ । त्वम् । अ॒स्म॒ऽयुः ॥
 
क्षपः । उस्रः । च । दीदिहि । सुऽअग्नयः । त्वया । वयम् ।
 
सुऽवीरः । त्वम् । अस्मऽयुः ॥
 
हे अग्ने त्वं “क्षपः रात्रीः "उस्रः अहानि च । सर्वदेति यावत् । "दीदिहि दीप्यस्व। दीप्यमानेन “त्वया “वयं वसिष्ठाः "स्वग्नयः शोभमानाग्नयो भवाम । "अस्मयुः अस्मान् कामयमानः ॥ ‘सुप आत्मनः क्यच्' इति क्यचि कृते ‘क्याच्छन्दसि ' इत्युप्रत्ययः । दकारलोपश्छान्दसः । तथा च यास्कः’ अस्मयुरस्मान् कामयमानः ' ( निरु. ६:२१ ) इति ॥ "त्वं "सुवीरः सुस्तोतृको भव ॥
 
 
उप॑ त्वा सा॒तये॒ नरो॒ विप्रा॑सो यंति धी॒तिभिः॑ ।
 
उपाक्ष॑रा सह॒स्रिणी॑ ॥९
 
उप॑ । त्वा॒ । सा॒तये॑ । नरः॑ । विप्रा॑सः । य॒न्ति॒ । धी॒तिऽभिः॑ ।
 
उप॑ । अक्ष॑रा । स॒ह॒स्रिणी॑ ॥
 
उप । त्वा । सातये । नरः । विप्रासः । यन्ति । धीतिऽभिः ।
 
उप । अक्षरा । सहस्रिणी ॥
 
हे अग्ने “त्वा त्वां "नरः नेतारो यजमानाः "विप्रासः विप्रा मेधाविनः “धीतिभिः कर्मभिः “सातये धनाय कामानां लाभाय वा “उप "यन्ति उपगच्छन्ति । "सहस्रिणी सहस्रसंख्याका “अक्षरा क्षयरहिता स्तुतिरूपा अस्मदीया वाक् त्वाम् “उप याति च ॥
 
 
अ॒ग्नी रक्षां॑सि सेधति शु॒क्रशो॑चि॒रम॑र्त्यः ।
 
शुचिः॑ पाव॒क ईड्यः॑ ॥१०
 
अ॒ग्निः । रक्षां॑सि । से॒ध॒ति॒ । शु॒क्रऽशो॑चिः । अम॑र्त्यः ।
 
शुचिः॑ । पा॒व॒कः । ईड्यः॑ ॥
 
अग्निः । रक्षांसि । सेधति । शुक्रऽशोचिः । अमर्त्यः ।
 
शुचिः । पावकः । ईड्यः ॥
 
“शुक्रशोचिः शुभ्रज्वालः “अमर्त्यः मरणरहितो देवतात्मा “शुचिः स्वयं शुद्धः "पावकः अन्येषामपि शोधकः "ईड्यः स्तुत्यः "अग्निः "रक्षांसि राक्षसान् "सेधति बाधताम् ॥ ॥ १९ ॥
 
 
स नो॒ राधां॒स्या भ॒रेशा॑नः सहसो यहो ।
 
भग॑श्च दातु॒ वार्यं॑ ॥११
 
सः । नः॒ । राधां॑सि । आ । भ॒र॒ । ईशा॑नः । स॒ह॒सः॒ । य॒हो॒ इति॑ ।
 
भगः॑ । च॒ । दा॒तु॒ । वार्य॑म् ॥
 
सः । नः । राधांसि । आ । भर । ईशानः । सहसः । यहो इति ।
 
भगः । च । दातु । वार्यम् ॥
 
हे "सहसो “यहो बलस्य पुत्राग्ने “सः प्रसिद्धस्त्वम् "ईशानः सर्वस्य जगतः। ईश्वरः सन् "नः अस्मभ्यं "राधांसि धनानि । ‘रायो राधः' इति धननामसु पाठात् । “आ “भर आहर । "भगश्च भगो देवोऽपि “वार्यं धनं “दातु अस्मभ्यं ददातु । अभ्यासलोपश्छान्दसः। भगोऽत्र सूक्ते निपातभागिनी देवता ॥
 
 
त्वम॑ग्ने वी॒रव॒द्यशो॑ दे॒वश्च॑ सवि॒ता भगः॑ ।
 
दिति॑श्च दाति॒ वार्यं॑ ॥१२
 
त्वम् । अ॒ग्ने॒ । वी॒रऽव॑त् । यशः॑ । दे॒वः । च॒ । स॒वि॒ता । भगः॑ ।
 
दितिः॑ । च॒ । दा॒ति॒ । वार्य॑म् ॥
 
त्वम् । अग्ने । वीरऽवत् । यशः । देवः । च । सविता । भगः ।
 
दितिः । च । दाति । वार्यम् ॥
 
हे “अग्ने “त्वं “वीरवत् पुत्रपौत्रोपेतं “यशः अन्नं देहीति शेषः । “देवश्च “सविता सविता देवोऽपि “वार्यं वरणीयं धनं “दाति ददातु । “भगः च देवोऽपि ददातु । “दितिश्च दितिरपि देवी ददातु। सवित्रादिः सूक्ते निपातभागिनी देवता ॥
 
 
अग्ने॒ रक्षा॑ णो॒ अंह॑सः॒ प्रति॑ ष्म देव॒ रीष॑तः ।
 
तपि॑ष्ठैर॒जरो॑ दह ॥१३
 
अग्ने॑ । रक्ष॑ । नः॒ । अंह॑सः । प्रति॑ । स्म॒ । दे॒व॒ । रिष॑तः ।
 
तपि॑ष्ठैः । अ॒जरः॑ । द॒ह॒ ॥
 
अग्ने । रक्ष । नः । अंहसः । प्रति । स्म । देव । रिषतः ।
 
तपिष्ठैः । अजरः । दह ॥
 
हे “अग्ने त्वं “नः अस्मान् “अंहसः पापात् "रक्ष पाहि । संहितायां दीर्घश्छान्दसः । अपि च हे "देव द्योतमानाग्ने “अजरः जरारहितस्त्वं “रिषतः हिंसतः शत्रून् "तपिष्ठैः अतिशयेन तापकैस्तेजोभिः "दह भस्मीकुरु ॥
 
 
अधा॑ म॒ही न॒ आय॒स्यना॑धृष्टो॒ नृपी॑तये ।
 
पूर्भ॑वा श॒तभु॑जिः ॥१४
 
अग्ने॑ । म॒ही । नः॒ । आय॑सी । अना॑धृष्टः । नृऽपी॑तये ।
 
पूः । भ॒व॒ । श॒तऽभु॑जिः ॥
 
अग्ने । मही । नः । आयसी । अनाधृष्टः । नृऽपीतये ।
 
पूः । भव । शतऽभुजिः ॥
 
“अध अधुना हे अग्ने “अनाधृष्टः अप्रतिधर्षणीयस्त्वं “नः अस्माकं “नृपीतये नृणां रक्षणार्थं “मही महती “आयसी अयसा निर्मिता “शतभुजिः अत्यन्तं विस्तृता शतगुणा “पूः पुरी । तद्रक्षासाधनभूतप्राकारादिर्वा पूरुच्यते। “भव । यथायसा निर्मिता पुरी तद्रक्षासाधनभूतप्राकारादिर्वा शत्रुभ्यो भीतान् रक्षति तद्वद्राक्षसेभ्यो भीतानस्मान् पाहीत्यर्थः ॥
 
 
त्वं नः॑ पा॒ह्यंह॑सो॒ दोषा॑वस्तरघाय॒तः ।
 
दिवा॒ नक्त॑मदाभ्य ॥१५
 
त्वम् । नः॒ । पा॒हि॒ । अंह॑सः । दोषा॑ऽवस्तः । अ॒घ॒ऽय॒तः ।
 
दिवा॑ । नक्त॑म् । अ॒दा॒भ्य॒ ॥
 
त्वम् । नः । पाहि । अंहसः । दोषाऽवस्तः । अघऽयतः ।
 
दिवा । नक्तम् । अदाभ्य ॥
 
हे “अदाभ्य अहिंस्य "दोषावस्तः रात्रेराच्छादयितः । तमसो वारयितरित्यर्थः । अग्ने “त्वं “नः अस्मान् “अंहसः पापात् "अघायतः पापमिच्छतः शत्रोश्च “दिवा “नक्तम् अहनि रात्रौ च सर्वदा “पाहि रक्ष ॥
}}
{{ऋग्वेदः मण्डल ७}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१५" इत्यस्माद् प्रतिप्राप्तम्