"ऋग्वेदः सूक्तं १०.१४२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
 
{{सायणभाष्यम्|
‘ अयमग्ने' इत्यष्टर्चं चतुर्दशं सूक्तमाग्नेयम् । शार्ङ्ग इति पक्षिविशेषस्याख्या। शार्ङ्गजातयो जरितृप्रभृतयश्चत्वारश्चतुर्णां द्वृचानां क्रमेण द्रष्टारः । आदितो द्वे जगत्यौ । अथ चतस्रस्त्रिष्टुभः। ततो द्वे अनुष्टुभौ । तथा चानुक्रान्तम्- अयमष्टौ द्वृचाः शार्ङ्गा जरिता द्रोणः सारिसृक्तः स्तम्बमित्रश्चाग्नेयमाद्ये जगत्यौ चतस्रश्च त्रिष्टुभः' इति । गतो विनियोगः ॥
 
 
अ॒यम॑ग्ने जरि॒ता त्वे अ॑भू॒दपि॒ सह॑सः सूनो न॒ह्य१॒॑न्यदस्त्याप्यं॑ ।
 
Line ४४ ⟶ ४७:
भद्रम् । हि । शर्म । त्रिऽवरूथम् । अस्ति । ते । आरे । हिंसानाम् । अप । दिद्युम् । आ । कृधि ॥
 
हे अग्ने “त्वे त्वयि । ‘ सुपां सुलुक्' इति सप्तम्याः शेआदेशः । “अयम् ऋषिः “जरिता स्तोता “अभूदपि । अपिशब्द: संभावनायाम् । इदानीं स्तोतृत्वेन संभाव्यते । तत्र कारणमाह । है “सहसः “सूनो बलस्य पुत्र त्वत्तः “अन्यत् “आप्यम् आप्तव्यं “नहि “अस्ति न खलु विद्यते । अतः प्राप्तव्यं त्वामेव स्तुत्या प्राप्नोमि । “भद्रं कल्याणं “त्रिवरूथं दुःखत्रयस्य निवारकं “शर्म सुखं “हि यस्मात “ते तव “अस्ति विद्यते । अथवा शोभनं त्रिवरूथं त्रिभूमिकं गृहं तवास्ति हि। अतः “हिंसानां हिंस्यमानानामस्माकम् "आरे दूरे दिद्युं दीप्यमानामात्मीयां ज्वालाम् “अप “आ “कृधि अपाकुरु निवारय । करोतेश्छान्दसो विकरणस्य लुक् । ‘श्रुशृणुपॄकृवृभ्यः' इति हेर्धिभावः ॥ ।
 
 
Line ५८ ⟶ ६२:
प्र । सप्तयः । प्र । सनिषन्त । नः । धियः । पुरः । चरन्ति । पशुपाःऽइव । त्मना ॥
 
हे अग्ने “पितूयतः पितुमन्नं भक्ष्यमिच्छतः “ते तव “जनिम जन्म प्रादुर्भवनं “प्रवत् प्रकृष्टमुत्कृष्टं भवति । ‘ उपसर्गाच्छन्दसि धात्वर्थे ' इति वतिः । स त्वं “साचीव सचिव इव “विश्वा विश्वानि व्याप्तानि भुवनानि भूतजातानि “न्यृञ्जसे प्रसाधयसि । वशीकरोषीत्यर्थः । “सप्तयः सर्पणशीलाः “नः अस्माकं “धियः स्तुतयः तादृशं त्वां “प्र “सनिषन्त प्रकर्षेण संभजन्ते । एकः प्रशब्दः पूरकः । यद्वा । सप्तयः । लुप्तोपममेतत् । सर्पणशीला अश्वा यथाजिं प्रकर्षेण सँभजन्ते तथा अस्मदीया धिय इत्यर्थः । अनन्तरं “पुरः तव पुरस्तात् “त्मना आत्मना स्वयमेव “चरन्ति व्याप्य वर्तन्ते । “पशुपाइव यथा पशूनां पालका गोपालाः पालयितव्यानां पुरस्तात् संचरन्ति तद्वत् ॥
 
 
Line ७२ ⟶ ७७:
उत । खिल्याः । उर्वराणाम् । भवन्ति । मा । ते । हेतिम् । तविषीम् । चुक्रुधाम ॥
 
हे “स्वधावः दीप्तिमन् “अग्ने “बप्सत् दहन् । 'भस भर्त्सनदीप्त्योः ' । जौहोत्यादिकः । शतरि ‘ घसिभसोर्हलि च' (पा. सू. ६, ४. १०० ) इत्युपधालोपः । ‘ नाभ्यस्ताच्छतुः' इति नुमः प्रतिषेधः । “बहोः बहुलस्य “उलपस्य तृणजातस्य । कर्मणि षष्ठी । सर्वं वनम् “उत “वै अपि खलु "परि वृणक्षि परिवर्जयसि विनाशयसि । “उ इति पूरकः । “उत अपि च “उर्वराणाम् । सस्याढ्या भूमय उर्वराः । तासां संबन्धिनः प्रदेशाः “खिल्याः खिलाः प्राणिभिर्गन्तुं योग्याः “भवन्ति । त्वया दग्धा इति शेषः । “तविषीं महतीं “ते तव “हेतिं हननहेतुभूतां ज्वालां “मा “चुक्रुधाम मा क्रोधयाम । अपि तु स्तुतिभिः प्रसाधयामः ।। ऊतियूति इत्यादिना हन्तेः क्तिनि हेतिः । इत्यन्तोदात्तो निपात्यते । चुक्रुधामेति क्रुधेर्ण्यन्ताल्लुङि चङि रूपम् ॥
 
 
Line ८६ ⟶ ९२:
यदा । ते । वातः । अनुऽवाति । शोचिः । वप्ताऽइव । श्मश्रु । वपसि । प्र । भूम ॥
 
“यत् यदा “उद्वतः उद्गतानुच्छ्रितान् “निवतः नीचीनास्तरुगुल्मादीन् हे अग्ने “बप्सत् दहन “यासि प्राप्नोषि तदानीं बह्वीभिर्ज्वलाभिः पृथक् विभिन्नः सन् “एषि गच्छसि । तत्र दृष्टान्तः । “प्रगर्धिनीव “सेना । ‘ गृधु अभिकाङ्क्षायाम् । परराष्ट्रं गच्छतो राज्ञः सेना तत्रत्यं धनजातमभिकाङ्क्षमाणा इतस्ततः संघशो गच्छति तद्वत् । “वातः वायुश्च “ते तव “शोचिः दीप्तिं “यदा यस्मिन् काले “अनुवाति अनुगुणं प्रवर्तते तदा “श्मश्रु । श्म शरीरम् । तन्न श्रितं स्थितं केशरोमादिकं “वप्तेव यथा वप्ता नापितो वपति मुण्डयति तथा “भूम भूमिं “प्र “वपसि प्रकर्षेण मुण्डयसि । सर्वं वनं निःशेषेण दहसीत्यर्थः ॥
 
 
Line १०० ⟶ १०७:
बाहू इति । यत् । अग्ने । अनुऽमर्मृजानः । न्यङ् । उत्तानाम् । अनुऽएषि । भूमिम् ॥
 
“अस्य अग्नेर्दहतः “श्रेणयः ज्वालापङ्क्तयः “प्रति ददृश्रे प्रतिदृश्यन्ते । - - -तद्वत् । अत्र सामर्थ्यादुपमानप्रतीतिः । हे “अग्ने “बाहू । तृतीयार्थे प्रथमा । बाहुभ्यां बाहुस्थानीयैर्ज्वालासमूहै। “अनुमर्मृजानः सर्वं वनं मृजञ्शोधयन् । दहन्नित्यर्थः । “न्यङ् न्यञ्चन् प्रह्वीभवन् “उत्तानाम् ऊर्ध्वाभिमुखां भूमिं “यत् यदा “अन्वेषि अनुगच्छसि तदानीमस्य श्रेणयो ददृश्र इत्यन्वयः ।।
 
 
Line ११४ ⟶ १२२:
उत् । श्वञ्चस्व । नि । नम । वर्धमानः । आ । त्वा । अद्य । विश्वे । वसवः । सदन्तु ॥
 
हे “अग्ने “ते तव “शुष्माः शोषका ज्वालाः “उत् “जिहताम् उद्गच्छन्तु । तथा “ते तव “अर्चि: दीप्तिश्च उद्गच्छतु । “शशमानस्य स्तूयमानस्य । यद्वा । ‘ शश प्लुतगतौ । अस्मात्ताच्छीलिकश्चानश् । तस्य सार्वधातुकत्वे सति लसार्वधातुकत्वाभावात् ‘ चितः' इत्यन्तोदात्तत्वमेव शिष्यते । शशमानस्य सर्वं वनमाक्रम्य शीघ्रं गच्छतः । तव “वाजाः वेगा हे अग्ने उज्जिहताम् । स त्वं “वर्धमानः सन् 'उच्छ्वञ्चस्व वन उद्गच्छस्व ॥ ‘ श्वचि गतौ' । भौवादिकः। इदित्त्वान्नुम् ।। तथा “नि “नम प्रह्वीभव । उन्नतं वृक्षादिकं प्राप्य उच्छ्रितो भव । अवनतं गुल्मादिकं प्राप्यावनतो भवेत्यर्थः । ईदृशं “त्वा त्वाम् “अद्य अस्मिन् काले “विश्वे सर्वे “वसवः वासयितारो रश्मयो देवा वा “आ “सदन्तु आसीदन्तु प्राप्नुवन्तु । सदेर्व्यत्ययेन सीदादेशाभावः । शपि प्राप्ते व्यत्ययेन अब्वा कर्तव्यः ॥
 
 
Line १२८ ⟶ १३७:
अन्यम् । कृणुष्व । इतः । पन्थाम् । तेन । याहि । वशान् । अनु ॥
 
इत्थं खाण्डववनस्य दाहे प्रवृत्तमग्निं जरितृप्रभृतयः स्वात्मनो रक्षणकामास्तुष्टुवुः । इदानीं च स्तम्बमित्रः स्वनिवासभूमेर्दहनाभावाय अग्नेरन्यत्र गमनं प्रार्थयते । “इदम् अस्मदीयं निवासस्थानम् “अपाम् उदकानां “न्ययनम् । नियन्ति नितरां गच्छन्त्यस्मिन्निति न्ययनं ह्रदः। तथा “समुद्रस्य उदधेश्च “निवेशनं गृहम् । यथा ह्रदः समुद्रस्य स्थानं च यथा दग्धुं न शक्यते तथा दाहयोग्यं न भवत्वित्यर्थः । “इतः अस्मादस्मदीयात् स्थानात् “अन्यं “पन्थां पन्थानं मार्गं हे अग्ने “कृणुष्व कुरुष्व । “तेन पथा “वशाननु यथाकामं “याहि गच्छ ।
 
 
Line १४२ ⟶ १५२:
ह्रदाः । च । पुण्डरीकाणि । समुद्रस्य । गृहाः । इमे ॥
 
अनयापि स्वनिवासस्य दाहानर्हता प्रतिपाद्यते । हे अग्ने “ते तव "आयने आगमने “परायणे परागमने वा सति अस्यां निवासभूमौ “पुष्पिणीः पुष्पवत्यो “दूर्वाः “रोहन्तु प्ररोहन्तु । तथा “ह्रदाः अशोष्योदका जलाशयाः “च भवन्तु “पुण्डरीकाणि पद्मानि च तेषु ह्रदेषु जायन्ताम् । किं बहुना । “समुद्रस्य जलधेः "इमे अस्मिन्निवासप्रदेशे “गृहाः आश्रयभूता भवन्तु । यथा समुद्रावासभूमिः कदाचिदपि न दह्यते एवं कदाचिदप्यस्मत्स्थानं न दह्यतामित्यर्थः । एतदुक्तं भवति । दूर्वाकाण्डप्ररोहणप्रार्थनेन स्वाश्रयस्य शीतलत्वं ह्रदप्रार्थनेन तृष्णोपशमनकारणस्य जलस्य सत्त्वं पुण्डरीकसद्भावप्रार्थनेनोपभोग्यस्य फलादेः सत्ता समुद्रगृहत्वप्रार्थनेन दाहानर्हता चेत्येतत्सर्वं प्रतिपाद्यत इति ॥ ॥ ३० ॥
 
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
 
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्येऽष्टमाष्टके सप्तमोऽध्यायः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४२" इत्यस्माद् प्रतिप्राप्तम्