"ऋग्वेदः सूक्तं १.९६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. अग्निः, द्रविणोदा अग्निर्वा । त्रिष्टुप्
}}
 
{{ऋग्वेदः मण्डल १}}
<poem><span style="font-size: 14pt; line-height: 200%">
<poem>
स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळधत्त विश्वा ।
आपश्च मित्रं धिषणा च साधन्देवा अग्निं धारयन्द्रविणोदाम् ॥१॥
पङ्क्तिः २९:
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥९॥
 
</span></poem>
 
{{सायणभाष्यम्|
</poem>
‘स प्रत्नथा ' इति नवर्चं तृतीयं सूक्तं कुत्सस्यार्षं त्रैष्टुभम् । द्रविणोदस्त्वगुणविशिष्टोऽग्निः शुद्धाग्निर्वा देवता । तथा चानुक्रान्तम्-‘स प्रत्नथा नव द्रविणोदसः' इति । प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तः सूक्तविनियोगः । व्यूढस्य दशरात्रस्य षष्ठेऽहन्याग्निमारुते इदं सूक्तं जातवेदस्यनिविद्धानम् । ‘ व्यूळ्हश्चेत् ' इति खण्डे सूत्रितं- स प्रत्नथेत्याग्निमारुतम् ' ( आश्व. श्रौ. ८.८) इति । ‘ स प्रत्नथा सहसा जायमान इति जातवेदस्यं समानोदर्कम् ' ( ऐ. ब्रा. ५, १५) इत्यादि ब्राह्मणम् । महापितृयज्ञे स्विष्टकृत्स्थानीयस्य कव्यवाहनस्य ‘स प्रत्नथा' इत्येषा याज्या । ‘दक्षिणाग्नेः ' इति खण्डे सूत्रितं- स प्रत्नथा सहसा जायमान इत्यग्निः स्विष्टकृत्कव्यवाहनः ' (आश्व. श्रौ. २. १९) इति ॥
 
 
स प्र॒त्नथा॒ सह॑सा॒ जाय॑मानः स॒द्यः काव्या॑नि॒ बळ॑धत्त॒ विश्वा॑ ।
 
आप॑श्च मि॒त्रं धि॒षणा॑ च साधंदे॒वा अ॒ग्निं धा॑रयंद्रविणो॒दां ॥१
 
सः । प्र॒त्नऽथा॑ । सह॑सा । जाय॑मानः । स॒द्यः । काव्या॑नि । बट् । अ॒ध॒त्त॒ । विश्वा॑ ।
 
आपः॑ । च॒ । मि॒त्रम् । धि॒षणा॑ । च॒ । सा॒ध॒न् । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥
 
सः । प्रत्नऽथा । सहसा । जायमानः । सद्यः । काव्यानि । बट् । अधत्त । विश्वा ।
 
आपः । च । मित्रम् । धिषणा । च । साधन् । देवाः । अग्निम् । धारयन् । द्रविणःऽदाम् ॥
 
"सहसा बलेन “जायमानः निर्मथनेनोत्पद्यमानः "सः अग्निः "सद्यः तदानीमुत्पत्त्यनन्तरमेव “प्रत्नथा प्रत्न इव चिरंतन इव "विश्वा विश्वानि सर्वाणि "काव्यानि कवेः क्रान्तदर्शिनः प्रगल्भस्य कर्माणि "बट् सत्यम् "अधत्त अधारयत् । पूर्वं विद्यमान इवाग्निरुत्पत्तिसमकालमेव स्वकीयं हविर्वहनादिकं सर्वं कार्यमकरोदित्यर्थः । इममग्निं वैद्युतरूपेण वर्तमानं मेघेष्ववस्थिताः "आपश्च “धिषणा “च या माध्यमिका वाक् सा च "मित्रं सखिभूतं "साधन् साधयन्ति कुवन्ति । तमिमं “द्रविणोदां द्रविणस्य धनस्य दातारम् "अग्निं "देवाः ऋत्विज: “धारयन् गार्हपत्यादिरूपेण धारयन्ति । यद्वा । देवा एवेन्द्रादय इममग्निं द्रविणोदां हविर्लक्षणस्य धनस्य दातारं कृत्वा दूत्ये धारयन् धारयन्ति ।। प्रत्नथा । ‘ प्रत्नपूर्व विश्वेमात्थाल् छन्दसि ' इति इवार्थे थाल्प्रत्ययः । काव्यानि । कवेः कर्म काव्यम् । ‘ गुणवचनब्राह्मणादिभ्य:०' इति ष्यञ् । ञित्त्वादाद्युदात्तत्वम् । साधन् । ‘ षिधु संराद्धौ । ”णौ ‘ सिध्यतेरपारलौकिके' (पा. सू. ६. १, ४९ ) इति आत्वम् । लेटि अडागमः । ‘ इतश्च लोप:° इति इकारलोपः । ‘ छन्दस्युभयथा ' इति शपः आर्धधातुकत्वात् ‘ णेरनिटि ' इति णिलोपः। द्रविणोदाम् । द्रविणानि ददातीति द्रविणोदाः । द्रु गतौ । “द्रुदक्षिभ्यामिनन् ' । छान्दसः पूर्वपदस्य सुक् । “ अन्येभ्योऽपि दृश्यन्ते' इति ददातेः विच् । सकारान्तं त्वसुनि कृते निष्पद्यते ।। ।
 
 
स पूर्व॑या नि॒विदा॑ क॒व्यता॒योरि॒माः प्र॒जा अ॑जनय॒न्मनू॑नां ।
 
वि॒वस्व॑ता॒ चक्ष॑सा॒ द्याम॒पश्च॑ दे॒वा अ॒ग्निं धा॑रयंद्रविणो॒दां ॥२
 
सः । पूर्व॑या । नि॒ऽविदा॑ । क॒व्यता॑ । आ॒योः । इ॒माः । प्र॒ऽजाः । अ॒ज॒न॒य॒त् । मनू॑नाम् ।
 
वि॒वस्व॑ता । चक्ष॑सा । द्याम् । अ॒पः । च॒ । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥
 
सः । पूर्वया । निऽविदा । कव्यता । आयोः । इमाः । प्रऽजाः । अजनयत् । मनूनाम् ।
 
विवस्वता । चक्षसा । द्याम् । अपः । च । देवाः । अग्निम् । धारयन् । द्रविणःऽदाम् ॥
 
"सः अग्निः "पूर्वया प्रथमया • अग्निर्दैवेद्धः' इत्यादिकया "निविदा "कव्यता गुणिनिष्ठगुणाभिधानलक्षणां स्तुतिं कुर्वता “आयोः मनोः संबन्धिनोक्थेन च स्तूयमानः सोऽग्निः "मनूनां संबन्धिनीः “इमाः "प्रजाः “अजनयत् उदपादयत् । मनुना स्तुतः सन् मानवीः सर्वाः प्रजा अजनयदित्यर्थः । तथा “विवस्वता विवासनवता विशेषेणाच्छादयता "चक्षसा आत्मीयेन तेजसा “द्यां द्युलोकम् "अपश्च अन्तरिक्षं च व्याप्नोतीति शेषः । अन्यत् समानम् ॥ कव्यता । ‘ कु शब्दे । ‘ अचो यत्' इति भावे यत् । कव्यं कवनं स्तुतिं करोति । तत्करोति । ( पा. सू. ३. १. २६. ५) इति णिच् । तदन्तात् क्विप् । ‘ बहुलमन्यत्रापि संज्ञाच्छन्दसोः' इति णिलुक् । ततस्तुक् । धातुस्वरेणान्तोदात्तत्वम् । आयोः । इण् गतौ । ‘ छन्दसीणः' इति उष्प्रत्ययः ॥
 
 
तमी॑ळत प्रथ॒मं य॑ज्ञ॒साधं॒ विश॒ आरी॒राहु॑तमृंजसा॒नं ।
 
ऊ॒र्जः पु॒त्रं भ॑र॒तं सृ॒प्रदा॑नुं दे॒वा अ॒ग्निं धा॑रयंद्रविणो॒दां ॥३
 
तम् । ई॒ळ॒त॒ । प्र॒थ॒मम् । य॒ज्ञ॒ऽसाध॑म् । विशः॑ । आरीः॑ । आऽहु॑तम् । ऋ॒ञ्ज॒सा॒नम् ।
 
ऊ॒र्जः । पु॒त्रम् । भ॒र॒तम् । सृ॒प्रऽदा॑नुम् । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥
 
तम् । ईळत । प्रथमम् । यज्ञऽसाधम् । विशः । आरीः । आऽहुतम् । ऋञ्जसानम् ।
 
ऊर्जः । पुत्रम् । भरतम् । सृप्रऽदानुम् । देवाः । अग्निम् । धारयन् । द्रविणःऽदाम् ॥
 
हे "विशः सर्वे मनुष्याः "आरीः अग्निं स्वामिनं गच्छन्त्यो यूयं “तम् अग्निम् "ईळत स्तुध्वम् । कीदृशम् । "प्रथमं सर्वेषु देवेषु मुख्यं "यज्ञसाधं यज्ञस्य दर्शपूर्णमासादेः साधकं निष्पादकं “आहुतं हविर्भिस्तर्पितं “ऋञ्जसानं स्तोत्रैः प्रसाध्यमानं “ऊर्जः अन्नस्य "पुत्रम् । भुक्तेनान्नेन जाठराग्नेर्वर्धनात् अग्नेरपुत्रत्वम् । "भरतं हविषो भर्तारम् । यद्वा । प्राणरूपेण सर्वासां प्रजानां भर्तारम् । श्रूयते च- स्वदेहे । वा एष प्राणो भूत्वा प्रजा बिभर्ति तस्मादेष भरतः' इति । 'सृप्रदानुं सर्पणशीलदानयुक्तम् । अविच्छेदेन धनानि प्रयच्छन्तमित्यर्थः । देवाः इत्यादि गतम् ॥ ईळत । ‘ ईड स्तुतौ' । लोटि व्यत्ययेन परस्मैपदम् । 'बहुलं छन्दसि ' इति शपो लुगभावः । यज्ञसाधम् । यज्ञं साधयतीति यज्ञसात् । साधयतेः क्विप् । णेरनिटि ' इति णिलोपः । आरीः । ‘ऋ गतौ'।' सूचिसूत्रि' (पा. म. ३. १. २२. ३) इत्यादिना यङ्। 'यङोऽचि च' इति चशब्देन बहुलग्रहणानुकर्षणात् अनैमित्तिको लुक् । प्रत्ययलक्षणेन द्विर्भावे उरदत्वहलादिशेषौ ।' रुग्रिकौ च लुकि ' इति रुक् । यङ्लुगन्तात् औणादिकः किप्रत्ययः । यणादेशे ‘रो रि ' इति रेफलोपः । ‘ ढ्रलोपे पूर्वस्य ' इति दीर्घत्वम् । ‘कृदिकारादक्तिनः' इति ङीष्। जसि ‘वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । व्यत्ययेन आद्युदात्तत्वम् । ऋञ्जसानम् । ऋञ्जतिः प्रसाधनकर्मा । ‘ ऋञ्जिवृधिमन्दिसहिभ्यः कित्' (उ. सू. २. २४४ ) इति कर्मणि असानच् । भरतम् । भृञ् भरणे'।' भृमृद्दशि ' इत्यादिना अतच् । सृप्रदानुम् । सृप्लृ गतौ ।स्फायितञ्चि' ' इत्यादिना रक् । सृप्रो दानुर्दानं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
 
 
स मा॑त॒रिश्वा॑ पुरु॒वार॑पुष्टिर्वि॒दद्गा॒तुं तन॑याय स्व॒र्वित् ।
 
वि॒शां गो॒पा ज॑नि॒ता रोद॑स्योर्दे॒वा अ॒ग्निं धा॑रयंद्रविणो॒दां ॥४
 
सः । मा॒त॒रिश्वा॑ । पु॒रु॒वार॑ऽपुष्टिः । वि॒दत् । गा॒तुम् । तन॑याय । स्वः॒ऽवित् ।
 
वि॒शाम् । गो॒पाः । ज॒नि॒ता । रोद॑स्योः । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥
 
सः । मातरिश्वा । पुरुवारऽपुष्टिः । विदत् । गातुम् । तनयाय । स्वःऽवित् ।
 
विशाम् । गोपाः । जनिता । रोदस्योः । देवाः । अग्निम् । धारयन् । द्रविणःऽदाम् ॥
 
“सः अग्निः “तनयाय अस्मदीयाय पुत्राय "गातुम् अनुष्ठानमार्गं "विदत् लम्भयतु । कीदृशः । “मातरिश्वा मातरि सर्वस्य जगतो निर्मातरि अन्तरिक्षे श्वसन वर्तमानः "पुरुवारपुष्टिः । पुरुभिर्बहुभिर्वारा वरणीया पुष्टिरभिवृद्धिर्यस्य स तथोक्तः । "स्वर्वित् स्वः स्वर्गस्य यागद्वारेण लम्भयिता “विशां सर्वासां प्रजानां “गोपाः गोपायिता रक्षिता "रोदस्योः द्यावापृथिव्योः "जनिता जनयितोत्पादयिता । देवाः इत्यादि गतम् ॥ मातरिश्वा । श्वन्नुक्षन्' इत्यादौ मातृशब्दोपपदात् ‘श्वस प्राणने' इत्यस्मात् कनिन्प्रत्ययान्तो निपात्यते। विदत् ।' विद्लृ लाभे'। अस्मात् अन्तर्भावितण्यर्थात् छान्दसो लुङ् । लृदित्त्वात् च्लेः अङादेशः । पादादित्वात् निघाताभावः । जनिता ।' जनिता मन्त्रे' (पा. सू. ६. ४. ५३ ) इति तृचि णिलोपो निपात्यते ॥
 
 
नक्तो॒षासा॒ वर्ण॑मा॒मेम्या॑ने धा॒पये॑ते॒ शिशु॒मेकं॑ समी॒ची ।
 
द्यावा॒क्षामा॑ रु॒क्मो अं॒तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयंद्रविणो॒दां ॥५
 
नक्तो॒षसा॑ । वर्ण॑म् । आ॒मेम्या॑ने॒ इत्या॒ऽमेम्या॑ने । धा॒पये॑ते॒ इति॑ । शिशु॑म् । एक॑म् । स॒मी॒ची इति॑ स॒म्ऽई॒ची ।
 
द्यावा॒क्षामा॑ । रु॒क्मः । अ॒न्तः । वि । भा॒ति॒ । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥
 
नक्तोषसा । वर्णम् । आमेम्याने इत्याऽमेम्याने । धापयेते इति । शिशुम् । एकम् । समीची इति सम्ऽईची ।
 
द्यावाक्षामा । रुक्मः । अन्तः । वि । भाति । देवाः । अग्निम् । धारयन् । द्रविणःऽदाम् ॥
 
"नक्तोषासा रात्रिरहश्च "वर्णं स्वकीयं स्वरूपम् "आमेम्याने परस्परं पुनःपुनर्हिंसन्त्यौ "समीची संगते संश्लिष्टे एवंभूते अहस्त्रियामे “एकं "शिशुम् अह्नः पुत्रमग्निं “धापयेते हवींषि पाययेते । "रुक्मः रोचमानः सोऽग्निः "द्यावाक्षामा द्यावापृथिव्योः "अन्तः मध्ये "वि “भाति विशेषेण प्रकाशते ।अन्यत् पूर्ववत् ॥ नक्तोषसा । नक्ता इति रात्रिनाम । नक्ता उषाश्च नक्तोषसा । ' सुपां सुलुक्' इति विभक्तेः आकारः । ‘ अन्येषामपि ' इति सांहितिकमुपधादीर्घत्वम्। ' देवताद्वन्द्वे च ' इति पूर्वोत्तरपदयोः युगपत्प्रकृतिस्वरत्वम् । आमेम्याने । “ मीङ् हिंसायाम् ' । अस्मात् यङ्लुगन्तात् व्यत्ययेन शानच् । ‘ अदादिवच्च' इति वचनात् शपो लुक् । ‘एरनेकाचः' इति यण् । “ अभ्यस्तानामादिः' इति आद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । धापयेते । ‘ धेट् पाने' । अस्मात् ण्यन्तात् “ निगरणचलन ' ( पा. सू. १. ३. ८७ ) इति प्राप्तस्य परस्मैपदस्य ‘पादिषु धेट उपसंख्यानम् ' (पा. सू. १. ३. ८९. १ ) इति वचनात् ‘न पादम्याङ्यम ' (पा. सू. १. ३. ८९ ) इति प्रतिषेधः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते । पादादित्वात् निघाताभावः । समीची। संपूर्वात् अञ्चतेः ‘ऋत्विक् ' इत्यादिना क्विन् । ‘अनिदिताम्' इति नलोपः । समः समि' (पा. सू. ६. ३. ९३ ) इति सम्यादेशः । ‘ अञ्चतेश्चोपसंख्यानम्' इति ङीप् । “ अचः' इति अकारलोपे “चौ ' इति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम्। पदकारस्य त्वयमभिप्रायः । ‘ उद ईत् ' ( पा. सू. ६. ४. १३९ ) इति विधीयमानम् ईत्वं सम उत्तरस्याप्यञ्चतेर्व्यत्ययेन भवतीति । ‘बा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । द्यावाक्षामा । ' दिवो द्यावा' इति द्यावादेशः । ‘सुपां सुलुक्' इति षष्ठ्याः डादेशः । देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥ ॥३॥
 
 
रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां य॒ज्ञस्य॑ के॒तुर्म॑न्म॒साध॑नो॒ वेः ।
 
अ॒मृ॒त॒त्वं रक्ष॑माणास एनं दे॒वा अ॒ग्निं धा॑रयंद्रविणो॒दां ॥६
 
रा॒यः । बु॒ध्नः । स॒म्ऽगम॑नः । वसू॑नाम् । य॒ज्ञस्य॑ । के॒तुः । म॒न्म॒ऽसाध॑नः । वेरिति॒ वेः ।
 
अ॒मृ॒त॒ऽत्वम् । रक्ष॑माणासः । ए॒न॒म् । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥
 
रायः । बुध्नः । सम्ऽगमनः । वसूनाम् । यज्ञस्य । केतुः । मन्मऽसाधनः । वेरिति वेः ।
 
अमृतऽत्वम् । रक्षमाणासः । एनम् । देवाः । अग्निम् । धारयन् । द्रविणःऽदाम् ॥
 
योऽग्निः "रायः धनस्य “बुध्नः मूलभूतः । आहुतिद्वारा सर्वेषां धनानां कारणत्वात् । "वसूनां निवासहेतूनां धनानां "संगमनः संगमयिता स्तोतॄणां प्रापयिता "यज्ञस्य दर्शपूर्णमासादेः "केतुः केतयिता ज्ञापयिता "वेः आत्मानमभिगच्छतः पुरुषस्य "मन्मसाधनः मननीयस्याभिलषितस्य साधयिता “अमृतत्वं स्वकीयामरणत्वं रक्षमाणासः पालयन्तः "देवाः “एनं धनस्य दातारम् "अग्निं धारयन्ति ।। रायः । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् । संगमनः । नन्द्यादिलक्षणो ल्युः । वेः । वी गत्यादिषु । अस्मात् औणादिकः इप्रत्ययः टिलोपश्च ॥
 
 
नू च॑ पु॒रा च॒ सद॑नं रयी॒णां जा॒तस्य॑ च॒ जाय॑मानस्य च॒ क्षां ।
 
स॒तश्च॑ गो॒पां भव॑तश्च॒ भूरे॑र्दे॒वा अ॒ग्निं धा॑रयंद्रविणो॒दां ॥७
 
नु । च॒ । पु॒रा । च॒ । सद॑नम् । र॒यी॒णाम् । जा॒तस्य॑ । च॒ । जाय॑मानस्य । च॒ । क्षाम् ।
 
स॒तः । च॒ । गो॒पाम् । भव॑तः । च॒ । भूरेः॑ । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥
 
नु । च । पुरा । च । सदनम् । रयीणाम् । जातस्य । च । जायमानस्य । च । क्षाम् ।
 
सतः । च । गोपाम् । भवतः । च । भूरेः । देवाः । अग्निम् । धारयन् । द्रविणःऽदाम् ॥
 
नू च इति निपातसमुदायः अद्य इत्यस्यार्थे । 'नू चिदिति निपातः पुराणनवयोर्नु च' ( निरु. ४.१७) इति यास्कः । "नू “च अद्य अस्मिन्काले “पुरा “च "रयीणां सर्वेषां धनानां "सदनम् आवासस्थानं "जातस्य उत्पन्नस्य कार्यजातस्य “जायमानस्य उत्पद्यमानस्य "च "क्षां निवासयितारं "सतश्च सर्वत्र विद्यमानस्वभावस्य नित्यस्य चाकाशादेः “भवतश्च सद्भावं प्राप्नुवतः “भूरेः असंख्यातस्य अन्यस्य च भूतजातस्य "गोपां गोपायितारं रक्षितारं "द्रविणोदां धनप्रदं एवंगुणविशिष्टम् “अग्निं "देवाः “धारयन् हविर्वोढृत्वेन धारयन्ति । नू च । ऋचि तुनुघ°' इति दीर्घः। रयीणाम् । ‘ नामन्यतरस्याम्' इति नाम उदात्तत्वम् । क्षाम् । ‘क्षि निवासगत्योः '। अस्मात् णिच् । वृद्ध्यायादेशौ। ण्यन्तात् क्विप् । णेरनिटि' इति णिलोपः । ‘ वेरपृक्तलोपाद्वलि लोपो बलीयान्' इति पूर्वं ‘ लोपो व्योर्वलि' इति यलोपः । न च णिलोपस्य स्थानिवत्त्वं, न पदान्तद्विर्वचनवरेयलोप ' इति प्रतिषेधात् । यद्वा । ‘ क्षै जै षै क्षये । अस्मात् क्विप् ।' आदेचः० ' इति आत्वम् । सतः । अस्तेः शतरि अदादित्वात् शपो लुकू । ‘ श्नसोरल्लोपः' इति अकारलोपः । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् ॥
 
 
द्र॒वि॒णो॒दा द्रवि॑णसस्तु॒रस्य॑ द्रविणो॒दाः सन॑रस्य॒ प्र यं॑सत् ।
 
द्र॒वि॒णो॒दा वी॒रव॑ती॒मिषं॑ नो द्रविणो॒दा रा॑सते दी॒र्घमायुः॑ ॥८
 
द्र॒वि॒णः॒ऽदाः । द्रवि॑णसः । तु॒रस्य॑ । द्र॒वि॒णः॒ऽदाः । सन॑रस्य । प्र । यं॒स॒त् ।
 
द्र॒वि॒णः॒ऽदाः । वी॒रऽव॑तीम् । इष॑म् । नः॒ । द्र॒वि॒णः॒ऽदाः । रा॒स॒ते॒ । दी॒र्घम् । आयुः॑ ॥
 
द्रविणःऽदाः । द्रविणसः । तुरस्य । द्रविणःऽदाः । सनरस्य । प्र । यंसत् ।
 
द्रविणःऽदाः । वीरऽवतीम् । इषम् । नः । द्रविणःऽदाः । रासते । दीर्घम् । आयुः ॥
 
“द्रविणोदाः द्रविणस्य धनस्य बलस्य वा दाता अग्निः “तुरस्य त्वरमाणस्य चलतो जङ्गमस्य “द्रविणसः धनस्य बलस्य वा एकदेशं “प्र “यंसत् अस्मभ्यं प्रयच्छतु । तथा "द्रविणोदाः “सनरस्य सननीयस्य संभजनीयस्य स्थावररूपस्य धनस्यैकदेशं प्रयच्छतु । अपि च "द्रविणोदाः “वीरवतीं वीरैः पुत्रादिभिः युक्तम् "इषम् अन्नं "नः अस्मभ्यं प्रयच्छतु । तथा "द्रविणोदाः “दीर्घमायुः अस्मभ्यं “रासते प्रयच्छतु ।। तुरस्य । तुर त्वरणे ' । इगुपधलक्षणः कः । सनरस्य । वन षण संभक्तौ ' । ‘ कृदरादयश्च ' ( उ. सू. ५. ७१९ ) इति अरन्प्रत्ययः । यंसत् । ‘ यम उपरमे'। लेटि अडागमः । ‘ सिब्बहुलं लेटि' इति सिप् । रासते । “रा दाने ' । पूर्ववत् लेटि सिप् । व्यत्ययेन आत्मनेपदम् ॥
 
 
ए॒वा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑से॒ वि भा॑हि ।
 
तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥९
 
ए॒व । नः॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वृ॒धा॒नः । रे॒वत् । पा॒व॒क॒ । श्रव॑से । वि । भा॒हि॒ ।
 
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
 
एव । नः । अग्ने । सम्ऽइधा । वृधानः । रेवत् । पावक । श्रवसे । वि । भाहि ।
 
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥
 
व्याख्यातेयं पूर्वसूक्ते। अक्षरार्थस्तु। हे शोधक “अग्ने एवमस्माभिर्दत्तेन समिदादिद्रव्येण "वृधानः वर्धमानः सन् “नः अस्माकं धनयुक्तायान्नाय विशेषेण प्रकाशस्व। अस्माकं "तत् अन्नं मित्रादयः “ममहन्तां पूजयन्तां रक्षन्त्वित्यर्थः । तथा “सिन्धुः अब्देवता द्यावापृथिव्यौ च ममहन्ताम् ॥४॥
 
}}
{{ऋग्वेदः मण्डल १}}
== ==
१.९६.८
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९६" इत्यस्माद् प्रतिप्राप्तम्