"जैमिनीयं ब्राह्मणम्/काण्डम् २/३८१-३९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
 
यो वै पुनर्निवृत्तम् अध्वानम् एति नैनं स समश्नुते। अथ य एनम् अपुनर्निवृत्तम् एति स एवैनं समश्नुते। पुनर्निवृत्तम् इवैते यन्ति ये द्वा उपयन्ति। त्रैष्टुभबार्हता एवोपेत्या इति। त्रैष्टुभबार्हतो वै माध्यन्दिनः। तद् यद् राथन्तरम् अह स्यात् तस्मिन् बार्हतम् उपेयुर्, बार्हते ऽहंस् त्रैष्टुभम्। नैषां त्रैष्टुभाः प्रगाथा आप्यन्ते, न बार्हताः। यथायतनं छन्दांसि युज्यन्ते यातयामानम् उ संवत्सरम् आसते। तद् उ वा आहुर् द्वाव् एवोपेत्यौ श्यैतनौधसयोर् एव प्रगाथाव् इइति। अथा उ ह वै वीर्यवत्तमाव्, एता उ ह वै स्वर्गस्य लोकस्य मे पन्थाव् अञ्जसायनौ यद् बृहद्रथन्तरे। तयोर् एते ऽञ्जसायने यच् छ्यैतनौधसे। अहर् अहर् एवैतद् अञ्जसा स्वर्गं लोकम् उपयन्ति। तस्यैष श्लोको -
<poem>महापथाद् विश्ववयो यद् उद्रुध्यति पुरुषः।
तम् एव सृप्त्वाजिं श्रान्तः पुनर् अभ्याजिगांसति॥</poem>
इति। महापथे वा एते सत्यपथं प्रतिपद्यन्ते, ये ऽन्यान् प्रगाथान् उपयन्ति। अथैते अहरहर् एवाञ्जसा स्वर्गं लोकम् उपयन्ति ये श्यैतनौधसयोः प्रगाथाव् उपयन्ति। तस्माद् द्वाव एवोपेत्यौ श्यैतनौधसयोर् एव प्रगाथाव् इति॥2.383॥