"शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ८/ब्राह्मण २" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३१:
तदाहुः – यद् ग्रावभिः सोमः सूयते। अथ कथं सौत्रामणीति। प्रैषाप्रीभिरिति ब्रूयात्। बार्हता वै प्रैषाः। बार्हता ग्रावाणः। ग्रावभिर्वै सोमः सूयते। ग्रावभिरेवैनं सुनोति। सोमसुत्यायै॥१२.८.२.१४॥
 
सर्वे पयस्वन्तो भवन्ति। पयसा हि सूयते। सर्वे सोमवन्तो भवन्ति। सोमरूपतायै। सर्वे परिस्रुन्मन्तो भवन्ति। परिस्रुता हि सूयते। सर्वे घृतवन्तो भवन्ति। तद्वै प्रत्यक्षाद्यज्ञरूपम्। यद् घृतम्। प्रत्यक्षादेवैनं यज्ञरूपं करोति। सर्वे मधुमन्तो भवन्ति। तद्वैएतद्वै प्रत्यक्षात्सोमरूपम्। यन्मधु। प्रत्यक्षादेवैनं सोमरूपं करोति॥१२.८.२.१५॥
 
सर्व आश्विना भवन्ति। भैषज्याय। सर्वे सारस्वताः। अन्नाद्यस्यैवावरुद्ध्यै। सर्वे ऐन्द्राः। इन्द्रियस्यैव वीर्यस्यावरुद्ध्यै॥१२.८.२.१६॥