"रामायणम्/सुन्दरकाण्डम्/सर्गः १८" इत्यस्य संस्करणे भेदः

{{Ramayana|सुन्दरकाण्ड}} '''श्रीमद्वाल्मीकियरामायणे सु... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१४:०१, २३ सेप्टेम्बर् २०११ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे अष्टादशः सर्गः ॥५-१८॥

तथा विप्रेक्षमाणस्य वनम् पुष्पितपादपम् |
विचिन्वतश्च वैदेहीम् किंचिच्चेषा निशाभवत् || ५-१८-१

षडङ्गवेदविदुषाम् क्रतुप्रवरयाजिनाम् |
शुश्राव ब्रह्मघोषान् स विरात्रे ब्रह्मरक्षसाम् || ५-१८-२

अथ मङ्गलवादित्रशब्दैः श्रुतिमनोहरैः |
प्रबुध्यत महाबाहुर्दशग्रीवो महाबलः || ५-१८-३

विबुध्य तु यथाकालम् राक्षसेन्द्रः प्रतापवान् |
स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयात् || ५-१८-४

भृशं नियुक्तस्तस्याम् च मदनेन मदोत्कटः |
न स तं राक्षसः कामं शशाकात्मनि गूहितुम् || ५-१८-५

स सर्वाभरणैर्युक्तो बिभच्छ्रियमनुत्तमाम् |
तां नगैर्बहुभिर्जुष्टाम् सर्वपुष्पफलोपगैः || ५-१८-६

वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् |
सदामदैश्च विहगैर्विचित्राम् परमाद्भुताम् || ५-१८-७

ईहामृगैश्च विविधैर्जुष्टां डृष्टिमनोहरैः |
वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः || ५-१८-८
नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् |
अशोकवनकामेव प्राविशत्संततद्रुमाम् || ५-१८-९

अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत् |
महेन्द्रमिव पौलस्त्यम्ं देवगन्धर्वयोषितः || ५-१८-१०

दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः |
वालव्यजनहस्ताश्च तालवृन्तानि चापराः || ५-१८-११

काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः |
मण्डलागान् ब्रुसींश्चापि गृह्यान्याः पृष्ठतो ययुः || ५-१८-१२

काचिद्रत्नमयीं स्थालीं पूर्णां पानस्य ब्राजतम् |
दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना || ५-१८-१३

राजहंसप्रतीकाशं चत्रं पूर्णशशिप्रभम् |
सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ || ५-१८-१४

निद्रामदपरीताक्ष्यो रावनस्योत्तमाः स्त्रियः |
अनुजग्मुः पतिं वीरम् घनम् विद्युल्लता इव || ५-१८-१५

व्याविद्धहारकेयूराः समामृदितवर्णकाः |
समागळितकेशान्ताः सस्वेदवदनास्तथा || ५-१८-१६
घोर्णन्त्यो मदशेषेण निद्रया च शुभाननाः |
स्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः || ५-१८-१७
प्रयान्तं नैरृतपतिं नार्यो मदिरलोचनाः |
बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः || ५-१८-१८

स च कामपराधीनः पतिस्तासां महाबलः |
सीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ || ५-१८-१९

ततः काञ्चीनिनादं च नूपुराणाम् च निस्वनम् |
शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः || ५-१८-२०

तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् |
द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः || ५-१८-२१

दीपिकाभिरनेकाभिः समन्तादवभासितम् |
गन्धतैलावसिक्ताभिर्द्रियमाणाभिरग्रतः || ५-१८-२२

कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् |
समक्षमिव कन्दर्पमपविद्धशरासनम् || ५-१८-२३

मथितामृतफेनाभमरजोवस्त्रमुत्तमम् |
सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे || ५-१८-२४

तं पत्रविटपे लीनः अत्रपुष्पघनावृतह् |
समीपमिव संक्रान्तं निध्यातुमुपचक्रमे || ५-१८-२५

अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः |
रूपयौवनसंपन्ना रावणस्य वरस्तियः || ५-१८-२६

ताभिः परिवृतो राजा सुरूपाभिर्महायशाः |
तस्मृगद्विजसम्घष्टं प्रविष्टः प्रमदावनम् || ५-१८-२७

क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः |
तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः || ५-१८-२८
वृतः परमनारीभिस्ताराभिरिव चन्द्रामाः |
तं ददर्श महातेजास्तेजोवन्तं महाकपिः || ५-१८-२९

रावणोऽयम् महाबाहुरिति संचिन्त्य वानरः |
अवप्लुतो महातेजा हनुमान्मारुतात्मजः || ५-१८-३०

स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा |
पत्रगुह्यान्तरे सक्तो हनुमान् संवृतोऽभवत् || ५-१८-३१

स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् |
दिदृक्षुरसितापाङ्गमुपावर्तत रावणः || ५-१८-३२


इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे अष्टादशः सर्गः ॥५-१८॥

संबंधित कड़ियाँ

बाहरी कडियाँ