"ऋग्वेदः सूक्तं १.१४९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height:200%">
{{ऋग्वेदः मण्डल १}}
<div class="verse">
<pre>
महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ ।
उप ध्रजन्तमद्रयो विधन्नित् ॥१॥
 
स यो वृषा नरां न रोदस्योः श्रवोभिरस्ति जीवपीतसर्गः ।
प्र यः सस्राणः शिश्रीत योनौ ॥२॥
 
आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्वा ।
सूरो न रुरुक्वाञ्छतात्मा ॥३॥
 
अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात् ।
होता यजिष्ठो अपां सधस्थे ॥४॥
 
अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या ।
मर्तो यो अस्मै सुतुको ददाश ॥५॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
‘ महः सः' इति पञ्चर्चं नवमं सूक्तं दैर्घतमसं वैराजमाग्नेयम् । ‘दशकास्त्रयो विराळेकादशका वा' (अनु. ६. ७-८) इत्युक्तलक्षणसद्भावात् । तथा चानुक्रान्तं- महः स वैराजम्' इति । विनियोगो लैङ्गिकः ॥
 
 
म॒हः स रा॒य एष॑ते॒ पति॒र्दन्नि॒न इ॒नस्य॒ वसु॑नः प॒द आ ।
 
उप॒ ध्रजं॑त॒मद्र॑यो वि॒धन्नित् ॥१
 
म॒हः । सः । रा॒यः । आ । ई॒ष॒ते॒ । पतिः॑ । दन् । इ॒नः । इ॒नस्य॑ । वसु॑नः । प॒दे । आ ।
 
उप॑ । ध्रज॑न्तम् । अद्र॑यः । वि॒धन् । इत् ॥
 
महः । सः । रायः । आ । ईषते । पतिः । दन् । इनः । इनस्य । वसुनः । पदे । आ ।
 
उप । ध्रजन्तम् । अद्रयः । विधन् । इत् ॥
 
“महः महतः पूज्यस्य “रायः गवादिरूपस्य धनस्य “पतिः पालकः स्वामी “सः अग्निः “दन् ददत् अभिमतं प्रयच्छन् ॥ ददातेः शतरि छान्दसः शपो लुक् । तस्य ‘छन्दस्युभयथा' इति आर्धधातुकत्वात् ‘आतो लोप इटि च' इति आकारलोपः ।। “आ आभिमुख्येन अस्मद्देवयजनं प्रति “ईषते गच्छति । किंच “इनस्य स्वामिनोऽपि “इनः स्वामी सर्वस्य पतिरित्यर्थः । ईदृशोऽयं “वसुनः धनस्य “पदे आस्पदभूते वेदिस्थाने “आ आश्रयति ।। उपसर्गवशाद्योग्यक्रियाध्याहारः ॥ यद्वा । वसुनो निवासयोग्यस्य धनस्यापि इनः इति संबन्धः । यद्वा। वसुप्राप्तिः प्रसिद्धा । किंच “उप “ध्रजन्तम् उपगच्छन्तम् एनम् अभिषवार्थम् “अद्रयः ग्राववन्तो यजमानाः “विधन्नित् परिचरन्त्येव॥ ‘विध विधाने । तौदादिकः । लङि बहुलं छन्दसि' इति अडभावः । निघाताभावश्छान्दसः । यद्वा । पूर्वत्र तच्छब्दश्रुतेः अत्र यच्छब्दाध्याहारेण अस्य संबन्धात् अनिघातः । यद्वा । अद्रयोऽभिषवग्रावाणः स्वशब्दैः उप उपेत्य विधन्नित् पूजयन्त्येव । आह्लादं जनयन्तीत्यर्थः ।।
 
 
स यो वृषा॑ न॒रां न रोद॑स्योः॒ श्रवो॑भि॒रस्ति॑ जी॒वपी॑तसर्गः ।
 
प्र यः स॑स्रा॒णः शि॑श्री॒त योनौ॑ ॥२
 
सः । यः । वृषा॑ । न॒राम् । न । रोद॑स्योः । श्रवः॑ऽभिः । अस्ति॑ । जी॒वपी॑तऽसर्गः ।
 
प्र । यः । स॒स्रा॒णः । शि॒श्री॒त । योनौ॑ ॥
 
सः । यः । वृषा । नराम् । न । रोदस्योः । श्रवःऽभिः । अस्ति । जीवपीतऽसर्गः ।
 
प्र । यः । सस्राणः । शिश्रीत । योनौ ॥
 
“सः तादृशः “यः अग्निः “नरां “न मनुष्याणामिव “रोदस्योः द्यावापृथिव्योरपि “वृषा सेक्ता उत्पादक इत्यर्थः । एवं सर्वोत्पादकः “श्रवोभिः सर्वत्र श्रूयमाणैर्यशोभिर्युक्तः सन् "अस्ति वर्तते । सर्वोत्पादकः इत्युक्तं तत्रोपपत्तिमाह। यतोऽयं "जीवपीतसर्गः । जीवैर्नानाविधैः पीतः आस्वादितः सर्गः सृष्टिक्रमो यस्य स तथोक्तः ॥ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । पुनर्बहुव्रीहौ स एव स्वरः । अत्रायं सृष्टिक्रमः । अयमग्निः स्वदत्तं हविः आदित्यं प्रापय्य तद्रश्मिभिः सह वैद्युतरूपेण मेघद्वारा उदकेन प्रवर्ष्य सर्वान् प्राणिनः प्रापयति' इत्यतो वृष्ट्युत्पादनद्वारा उत्पादयिता । इदानीं साक्षादुत्पादकत्वमाह। “यः अग्निः “योनौ गर्भाशये “सस्राणः प्रविष्टः सन् “शिश्रीत निषिक्तं रेतः पारयति । नृपश्वादिदेहाकारेण परिणमयतीत्यर्थः । यद्यग्निर्न पचेत् पूरयेदेव नोत्पद्यते । तस्मादयं साक्षादेवोत्पादकः। स तादृशोऽग्निर्यशस्वी वर्तते इत्यर्थः । यद्वा। योऽग्निर्नरां न नराणां कर्मसु उत्साहयुक्तानां यजमानानामिव । ‘ नरा मनुष्या नृत्यन्ति कर्मसु' (निरु. ५. १) इति यास्कः । तेषां यथा स्वर्गाद्यभिमतवर्षकः तद्वद्रोदस्योरपि। आश्रयवाचिना शब्देन आश्रयिणो लक्ष्यन्ते । भूलोकवर्तिनां वृष्टिप्रदानेन द्युलोकवर्तिनां हविष्पापणेनेति भावः। स तादृशोऽग्निः श्रवोभिः हविर्लक्षणैः सोमाज्यादिभिः अन्नैर्निमित्तभूतैः जीवपीतसर्गो जीवविशेषैर्यजमानैः अविशेषेण सर्वैर्वा आस्वादितस्वभावः सन् अस्ति प्रकृष्टो वर्तते । अमुमग्निं हविर्भिः प्रीणयित्वा स्वाभिमतान् भोगान् भुञ्जते इत्यर्थः । किंच यः अग्निर्योनौ स्वकीयस्थाने वेदिलक्षणे सस्राणः प्रविष्टः सन् शिश्रीत स्वस्मिन् प्राप्तं पुरोडाशादिकं पचति सोऽयमग्निरस्ति महानुभावो वर्तते ।।
 
 
आ यः पुरं॒ नार्मि॑णी॒मदी॑दे॒दत्यः॑ क॒विर्न॑भ॒न्यो॒३॒॑ नार्वा॑ ।
 
सूरो॒ न रु॑रु॒क्वांछ॒तात्मा॑ ॥३
 
आ । यः । पुर॑म् । नार्मि॑णीम् । अदी॑देत् । अत्यः॑ । क॒विः । न॒भ॒न्यः॑ । न । अर्वा॑ ।
 
सूरः॑ । न । रु॒रु॒क्वान् । श॒तऽआ॑त्मा ॥
 
आ । यः । पुरम् । नार्मिणीम् । अदीदेत् । अत्यः । कविः । नभन्यः । न । अर्वा ।
 
सूरः । न । रुरुक्वान् । शतऽआत्मा ॥
 
“यः अग्निः “नार्मिणीं नर्मवतीं यजमानानां संबन्धिनीम् उत्तरवेदिम् । यद्वा। नृणां मनसि स्थितां यजमानानां यज्ञार्थं यां भूमिं प्रति अग्न्यागमनमनीषा विद्यते ताम् । “पुरं तत्स्थानम् “आ “अदीदेत् दीपयति । कीदृशोऽयम् । “अत्यः अपेक्षितदेशं प्रति अतनशीलः “कविः क्रान्तदर्शी । तत्र दृष्टान्तः । “अर्वा अरणकुशलः "नभन्यो "न नभस्याकाशे भवो नभस्वान् वायुरिव । किंच “शतात्मा । शतं सहस्रम् इत्यपरिमितवचनः । तत्तद्यजमानगृहापेक्षया आहवनीय गार्हपत्याद्यपेक्षया वा नानारूपत्वम् । अथवा मित्रवरुणभेदेन अग्नेः मित्रादिरूपं ‘ त्वमग्ने वरुणो जायसे यत्' (ऋ. सं. ५.३.१), ‘इन्द्रं मित्रं वरुणमग्निमाहुः' (ऋ. सं. १.१६४.४६ ) इत्यादिश्रुतिषु प्रसिद्धम्। अग्नेरेव इन्द्राद्यात्मकत्वमाहुरिति द्वितीयमन्त्रस्यार्थः । तादृशोऽयं “सूरो “न सूर्य इव "रुरुक्वान् दीप्यमानः ॥ ‘रुच दीप्तौ' । छान्दसस्य लिटः क्वसुः । अतः स तादृशोऽग्निरस्ति उत्कृष्टं वर्तते इति पूर्वत्रान्वयः ।।
 
 
अ॒भि द्वि॒जन्मा॒ त्री रो॑च॒नानि॒ विश्वा॒ रजां॑सि शुशुचा॒नो अ॑स्थात् ।
 
होता॒ यजि॑ष्ठो अ॒पां स॒धस्थे॑ ॥४
 
अ॒भि । द्वि॒ऽजन्मा॑ । त्री । रो॒च॒नानि॑ । विश्वा॑ । रजां॑सि । शु॒शु॒चा॒नः । अ॒स्था॒त् ।
 
होता॑ । यजि॑ष्ठः । अ॒पाम् । स॒धऽस्थे॑ ॥
 
अभि । द्विऽजन्मा । त्री । रोचनानि । विश्वा । रजांसि । शुशुचानः । अस्थात् ।
 
होता । यजिष्ठः । अपाम् । सधऽस्थे ॥
 
अयमग्निः “द्विजन्मा द्वाभ्यामरणीभ्यां जायमानः । यद्वा । मथनात् प्रथमं जन्म । उत्पत्त्यनन्तरं पवमानेष्ट्यादिसंस्काररूपं द्वितीयं जन्मेव । एवं द्विजन्मत्वम् । अथवा द्यावापृथिवीभ्यामुत्पन्नत्वात् । तादृशः अग्निः “त्री “रोचनानि त्रीणि रोचनानि क्षित्यादिस्थानानि गार्हपत्यादीनि वा “अभि “शुशुचानः अभितः प्रकाशयन् । न केवलं त्रीण्येव किंतु “विश्वा “रजांसि सर्वाण्यपि रञ्जनात्मकानि क्षित्यादिलोकान् शुशुचानः अभितः प्रकाशयन् दीपयन् “होता देवानामाह्वाता “यजिष्ठः यष्टृतमः सन् “अपां प्रोक्षण्याद्युदकानां “सधस्थे सहस्थाने यागदेशे "अस्थात् तिष्ठति ॥
 
 
अ॒यं स होता॒ यो द्वि॒जन्मा॒ विश्वा॑ द॒धे वार्या॑णि श्रव॒स्या ।
 
मर्तो॒ यो अ॑स्मै सु॒तुको॑ द॒दाश॑ ॥५
 
अ॒यम् । सः । होता॑ । यः । द्वि॒ऽजन्मा॑ । विश्वा॑ । द॒धे । वार्या॑णि । श्र॒व॒स्या ।
 
मर्तः॑ । यः । अ॒स्मै॒ । सु॒ऽतुकः॑ । द॒दाश॑ ॥
 
अयम् । सः । होता । यः । द्विऽजन्मा । विश्वा । दधे । वार्याणि । श्रवस्या ।
 
मर्तः । यः । अस्मै । सुऽतुकः । ददाश ॥
 
“यो "द्विजन्मा "सः एव “होता होमनिष्पादकः अरणीभ्यामुत्पन्नस्यैव गार्हपत्यद्वारा आहवनीयत्वात् आह्वाता वा देवानां सः “अयं “विश्वा विश्वानि “वार्याणि वरणीयानि॥ ‘ ईडवन्दवृशंसदुहां ण्यतः' इत्याद्युदात्तत्वम् ।। “श्रवस्या श्रवस्यया । श्रवोऽन्नं हविर्लक्षणं तदिच्छया ॥ श्रवःशब्दात् क्यजन्तात् ' अ प्रत्ययात्' इति भावे अप्रत्ययः ॥ “दधे धारयति । “अस्मै उक्तस्वरूपाय अग्नये “यः “मर्तः मर्त्यः “ददाश ददाति सः “सुतुकः शोभनपुत्रो भवति ।। ॥ १८ ॥
}}
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४९" इत्यस्माद् प्रतिप्राप्तम्