"जैमिनीयं ब्राह्मणम्/काण्डम् १/२२१-२३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५२:
 
तासु कौत्सम्। कुत्सश् च लुशश् चेन्द्रं व्यह्वयेताम्। स कुत्सस्य हवम् आगच्छत्। तं शतेन वार्ध्रीभिर् आण्डयोर् अबध्नात्। तं लुशो ऽभ्यवदत्
<poem>स्ववृजं हि त्वाम् अहम् इन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम्।
प्र मुञ्चस्व परि कुत्साद् इहागहि किम् उ त्वावान् मुष्कयोर् बद्ध आसते॥</poem>
इति तास् सर्वास् संलुप्य लुशम् अभि प्राद्रवत्। तं कुत्सः इन्द्र सुतेषु सोमेषु इत्य् अन्वाह्वयत्। तम् अभ्यावर्तत। तं लुशः इन्द्रा होयी हावे होयी इति। ताव् अन्तरातिष्ठत्। ताव् अब्रवीद् अंशम् आहरेताम् आत्मना वाम् अन्यतरस्य पास्यामि महिम्नान्यतरस्येति। तथेति। ताव् अंशम् आहरेताम् आत्मानम् अन्यतर उदजयन् महिमानम् अन्यतरः। आत्मानं कुत्स उदजयन् महिमानं लुशः। आत्मनान्यतरस्यापिबन् महिम्नान्यतरस्य। आत्मना कुत्सस्यापिबन् महिम्ना लुशस्य। उभा उ ह त्वाव तस्य ताव् आत्मानौ यद् आत्मा च महिमा च। तद् एतत् सेन्द्रं साम। सेन्द्रो हास्य सदेवो यज्ञो भवत्य् अभ्य् अस्येन्द्रो यज्ञम् आवर्तते नास्येन्द्रो यज्ञाद् अपाक्रामति य एवं वेद। यद् उ कुत्सो अपश्यत् तस्मात् कौत्सम् इत्य् आख्यायते॥