"ऋग्वेदः सूक्तं १०.१०३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३९:
</span></poem>
 
 
== ==
{{सायणभाष्यम्|
‘ आशुः शिशानः' इति त्रयोदशर्चं चतुर्थं सूक्तमिन्द्रपुत्रस्याप्रतिरथनाम्न आर्षम्। त्रयोदश्यनुष्टुप् शिष्टास्त्रिष्टुभः। बृहस्पते परि दीय' इत्यस्या बृहस्पतिर्देवता । ‘ अमीषां चित्तम्' इत्यस्या अप्वाख्या देवी देवता । शिष्टा ऐन्द्र्यः । त्रयोदशी विकल्पेन मारुती। तथा चानुक्रान्तम्- आशुः सप्तोनैन्द्रोऽप्रतिरथश्चतुर्थी बार्हस्पत्योपान्त्याप्वादेव्यन्त्यानुष्टुग्मारुती वा ' इति । साग्निचित्ये क्रतौ चित्यग्निषु प्रणीयमानेषु दक्षिणतो व्रजता ब्रह्मणैतत्सूक्तं जप्यम् । तथा च सूत्रितं- दक्षिणतश्च व्रजञ्जपत्याशुः शिशान इति सूक्तं समाप्य' (आश्व. श्रौ. १. १२) इति । ‘ ब्रह्माप्रतिरथं जपित्वा' ( आश्व. श्रौ. ४. ८) इति च । युद्धार्थं राज्ञः संनहनेऽनेन सूक्तेन राजेक्षितव्यः । सूत्रितं च’ अथैनमन्वीक्षेताप्रतिरथशाससौपर्णैः' (आश्व. गृ. ३. १२. १३) इति ॥
 
 
आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नां ।
Line ५४ ⟶ ५६:
सम्ऽक्रन्दनः । अनिऽमिषः । एकऽवीरः । शतम् । सेनाः । अजयत् । साकम् । इन्द्रः ॥
 
अयमिन्द्रः “आशुः शीघ्रकारी व्यापको वा “शिशानः निशितः । शत्रूणां भयजनक इत्यर्थः । क इव । “वृषभो “न “भीमः । बिभेत्यस्मादिति भीमः । तादृशो वृषभ इव । स यथा तीक्ष्णाभ्यां ऋङ्गाभ्यां भीमो भवति तद्वत् । अथवा शिशानस्तीक्ष्णमतिः । व्यत्ययेनात्मनेपदम् । वृषभो न भीमः वृषभो यथा शृङ्गाभ्यां भयजनकः तद्वच्छत्रूणाँ भयजनकश्च । “घनाघनः घातकः शत्रूणाम् । हन्तेः पचाद्यचि • हन्तेर्घश्च ' (पा.सू. ६.१.१२.७) इति द्विर्वचनमभ्यासस्याडागमो घत्वं च धात्वभ्यासयोः । “चर्षणीनाम् । चर्षणयो मनुष्याः । मनुष्याणां द्वेष्याणां “क्षोभणः क्षोभयिता । “संक्रन्दनः सम्यक्क्रन्दयिता प्राणिनामाकर्षणेन प्रहारेण वा । “अनिमिषः चक्षुर्निमेषरहितः । सर्वदा स्वयज्ञगमनयुद्धादिकार्येष्वनलस इत्यर्थः । “एकवीरः । वीरयत्यमित्रानति वीरः । एकश्चासौ वीरश्च । अथवा एक एव विक्रान्तः । असाहाय्येन कार्यक्षम इत्यर्थः । ईदृशोऽयम् “इन्द्रः “शतं “सेनाः “साकं सह एकोद्योगेनैव “अजयत् जयति ॥
 
 
Line ६८ ⟶ ७१:
तत् । इन्द्रेण । जयत । तत् । सहध्वम् । युधः । नरः । इषुऽहस्तेन । वृष्णा ॥
 
अस्तु नामेन्द्र उक्तविधः तथाप्यस्माकं किमिति चेत् तत्राह । “संक्रन्दनेनानिमिषेण चोक्तलक्षणेन “जिष्णुना जयशीलेन “युत्कारेण । योधनं युत् । युद्धकारिणा। कर्मण्यण् । “दुश्च्यवनेन अन्यैरविचाल्येन । ' च्युङ् प्रुङ् गतौ । छन्दसि गत्यर्थेभ्यः' (पा. सू. ३. ३. १२९ ) इति युच् । “धृष्णुना धर्षकेण ईदृशेन “इन्द्रेण “तत् युद्धं "जयत । “तत् शत्रुबलं “सहध्वम् अभिभवत । हे “युधः योद्धारो हे “नरः नेतारः । ‘ विभाषितं विशेषवचने बहुवचनम् ' (पा. सू. ८. १. ७४ ) इति पूर्वस्याविद्यमानवत्त्वनिषेधादुत्तरं निहन्यते । पुनः कीदृशेनेन्द्रेणेति । “इषुहस्तेन “वृष्णा वर्षित्रा च ॥
 
 
Line ८२ ⟶ ८६:
संसृष्टऽजित् । सोमऽपाः । बाहुऽशर्धी । उग्रऽधन्वा । प्रतिऽहिताभिः । अस्ता ॥
 
पूर्वमन्त्र इन्द्रेण जयत इत्युक्तम् । अत्र इन्द्रस्य जयसाधनसमर्थत्वं दर्शयति । “सः इन्द्रः “इषुहस्तैः भटैः मरुदादिभिः “वशी वश्यैस्तद्वान् । तथा “निषङ्गिभिः युक्तः। निषङ्गः खड्गः। तद्वद्भिः “वशी । “सः च “इन्द्रः “युधः युध्यमानः सन् । इगुपधलक्षणः कः । अथवा युधो युद्धहेतोः “गणेन शत्रुसंघेन सह “संस्रष्टा एकीभवनशीलः । यत एवंविधोऽतः “संसृष्टजित् । ये परस्परैकमत्येन युद्धाय संसृष्टा भवन्ति तेषां जेता । तथा “सोमपाः सोमस्य पाता। “बाहुशर्धी । शर्धो बलम् । बाह्वोर्बलं बाहुबलम् । तद्वान् । मत्वर्थीय इनिः । यद्वा । ‘ शृधु प्रसहने ' । बाहुभ्यां शर्धयत्यभिभवतीति बाहुशर्धी। ‘ सुप्यजातौ णिनिस्ताच्छील्ये' (पा. सू. ३. २. ७८ ) इति णिनिः। “उग्रधन्वा उद्यतधन्वा “प्रतिहिताभिः शत्रुषु प्रेरिताभिरिषुभिः “अस्ता मारयिता । यत्रेषून्मुञ्चति तत्र वृथा न भवन्तीत्यर्थः । ईदृशेनेन्द्रेण जयतेति संबन्धः ॥
 
 
Line ९६ ⟶ १०१:
प्रऽभञ्जन् । सेनाः । प्रऽमृणः । युधा । जयन् । अस्माकम् । एधि । अविता । रथानाम् ॥
 
हे “बृहस्पते बृहतां पात: पालयितर्देव “रथेन “परि “दीय परिगच्छ । दीयतिर्गतिकर्मा। आगत्य च “रक्षोहा रक्षसां हन्ता “अमित्रान् शत्रून् “अपबाधमानः सर्वतो नाशयन् तथा “सेनाः शत्रुसंबन्धिनीः “प्रभञ्जन प्रकर्षेण नाशयन् “प्रमृणः प्रकर्षेण हिंसन् । “ मृण हिंसायाम् । इगुपधलक्षणः कः । केन हिंसन् । “युधा युद्धेन । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम्। "जयन् एवं सर्वत्र जयं प्रतिपद्यमानः ईदृशस्त्वम् “अस्माकं “रथानाम् अविता “एधि भव ॥
 
 
Line ११० ⟶ ११६:
अभिऽवीरः । अभिऽसत्वा । सहःऽजाः । जैत्रम् । इन्द्र । रथम् । आ । तिष्ठ । गोऽवित् ॥
 
सर्वस्य भूतस्य बलं विजानातीति “बलविज्ञायः । यद्वा । बलं ममायमिति सर्वैर्बलत्वेन विज्ञायत इति बलविज्ञायः । सर्वस्य बलभूत इत्यर्थः । “स्थविरः महान् “प्रवीरः प्रकर्षेण वीरः “सहस्वान् पराभिभवसामर्थ्यवान् “वाजी वेजनवानन्नवान्वा “सहमानः शत्रूणामभिभविता “उग्रः उद्गूर्णबलः "अभिवीरः । अभिगता वीरा वीर्यवन्तोऽनुचरा यस्य स तथोक्तः । “अभिसत्वा अभिगतसत्वा “सहोजाः सहसो बलाज्जातः एवंमहानुभावस्त्वं हे “इन्द्र “जैत्रं जयशीलं “रथम् “आ “तिष्ठ अस्मत्सहायार्थमारोढुमर्हसि । त्वं च "गोवित् उदकस्य स्तुतेर्वा लब्धा वेदिता वा ॥
 
 
Line १२४ ⟶ १३१:
इमम् । सऽजाताः । अनु । वीरयध्वम् । इन्द्रम् । सखायः । अनु । सम् । रभध्वम् ॥
 
“गोत्रभिदम् । गा उदकानि त्रायन्त इति गोत्रा मेघाः । यद्वा गौर्भूमिः । तां त्रायन्त इति गोत्राः पर्वताः। तेषां भेत्तारं “गोविदम् उदकस्य लब्धारं “वज्रबाहुं वज्रहस्तम्। 'प्रहरणार्थेभ्यः (पा. सू. २. २. ३६. ४) इति परनिपातः । “जयन्तं जयनशीलम् "अज्म गमनशीलं शत्रुबलम् “ओजसा बलेन जयन्तं यद्वा अज्म आजिं जयन्तमोजसा बलेन “प्रमृणन्तं शत्रूनभिभवन्तमीदृशं महानुभावम् “इमम् इन्द्रं हे “सजाताः सहोत्पन्ना योद्धारो यूयम् “अनु वीरयध्वम् । एनमग्रतः कृत्वानु पश्चाद्वीरयध्वं वीरकर्मं युद्धं कुरुध्वम् । ‘शूर वीर विक्रान्तौ । वीरशब्दात् ‘तत्करोति तदाचष्टे इति णिच् । हे “सखायः परस्परं सखिभूता यूयमिमम् "इन्द्रं संरभमाणम् “अनु “सं “रभध्वम्॥॥२२॥
 
 
Line १३८ ⟶ १४६:
दुःऽच्यवनः । पृतनाषाट् । अयुध्यः । अस्माकम् । सेनाः । अवतु । प्र । युत्ऽसु ॥
 
अयम् “इन्द्रः “गोत्राणि अभ्राणि मेघान “सहसा बलेन “अभि “गाहमानः प्रविशन् “अदयः निर्दयः "वीरः विक्रान्तः “शतमन्युः बहुयज्ञो बहुक्रोधो वा दुश्च्यवनः अन्यैरचाल्यः । स्वयं “पृतनाषाट् शत्रुसेनानामभिभविता । छन्दसि सहः' इति ण्विः । ‘ सहेः साडः सः' इति मूर्धन्यादेशः । “अयुध्यः संप्रहर्तुमशक्यः । ‘ युध संप्रहारे । छान्दसः क्यप् । ईदृगिन्द्रः “अस्माकं “सेनाः “युत्सु संग्रामेषु “प्र “अवतु प्रकर्षेण रक्षतु ॥
 
 
Line १५२ ⟶ १६१:
देवऽसेनानाम् । अभिऽभञ्जतीनाम् । जयन्तीनाम् । मरुतः । यन्तु । अग्रम् ॥
 
“आसाम् अस्मत्सहायार्थमागतानाम् अयम् “इन्द्रः “नेता नायकोऽस्तु । तथा तस्य “बृहस्पतिः “पुर “एतु । एवं “दक्षिणा ““यज्ञः सोमः च पुर एत्विति प्रत्येकं संबन्धः । तथा “देवसेनानामभिभञ्जतीनाम् अस्मदमित्रानाभिमुख्येन मर्दयन्तीनां “जयन्तीनाम् । 'छन्दसि' इति नाम उदात्तत्वं जयन्तीनामित्यत्र बहुलवचनान्न भवति ( पा. सू. ६. १. १७८)। तासाम् “अग्रं “मरुतो “यन्तु गच्छन्तु ॥
 
 
Line १६६ ⟶ १७६:
महाऽमनसाम् । भुवनऽच्यवानाम् । घोषः । देवानाम् । जयताम् । उत् । अस्थात् ॥
 
“वृष्णः वर्षकस्य “इन्द्रस्य “राज्ञः “वरुणस्य “आदित्यानां “मरुतां च "उग्रम् उद्गूर्णं “शर्धः बलमस्माकं भवत्विति शेषः। किंच “महामनसाम् उदारमनसां “भुवनच्यवानां भुवनानां च्यावयितॄणां देवानां “घोषः जयशब्दः “उदस्थात् उत्तिष्ठति । अनूर्ध्वकर्मत्वादात्मनेपदाभावः। ( पा. सू. १. ३. २४ ) ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०३" इत्यस्माद् प्रतिप्राप्तम्