"ऋग्वेदः सूक्तं १.११७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४०:
“अश्विना हे अश्विनौ "वां युवयोः संबन्धीनि “पूर्व्याणि प्रत्नानि “एतानि इदानीं मयोक्तानि “वीर्याणि वीरकर्माणि “आयवः मनुष्याः मदीयाः पित्रादयः “प्र “अवोचन् उक्तवन्तः । वयं च हे “वृषणा कामाभिवर्षकौ अश्विनौ युवाभ्यां “ब्रह्म मन्त्रात्मकं स्तोत्रं “कृण्वन्तः कुर्वन्तः “सुवीरासः सुवीराः शोभनैः वीरैः पुत्रादिभिरुपेताः सन्तः “विदथं यज्ञम् “आ “वदेम आभिमुख्येन स्तुतीः उच्चारयाम' । यद्वा । विदथं वेदयन्तम् अतिथिं तदपेक्षितप्रदानेन आवदेम आभिमुख्येन प्रियपूर्विकां वाचमुच्चारयाम ॥ कृण्वन्तः । ‘कृवि हिंसाकरणयोश्च'। इदित्त्वात् नुम् । लटः शतृ । धिन्विकृण्व्योर च' इति उप्रत्ययः । अकारान्तादेशश्च । अतो लोपे सति स्थानिवद्भावात् लघूपधगुणाभावः । सुवीरासः । शोभना वीरा येषां ते तथोक्ताः । ‘आज्जसेरसुक्' । वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् । विदथम् । “ विद ज्ञाने'। रुविदिभ्यां कित्' इति अथप्रत्ययः ॥ ॥ १७ ॥
}}
 
{{ऋग्वेदः मण्डल १}}
== ==
*१.११७.२१ तुलनीय - अग्निष्टोमो यज्ञः। यवोर्वरा वेदिः। यवखल उत्तरवेदिः। लाङ्गलेषा यूपः। यवकलापिश्चषालम्। - शां.श्रौ.सू. [https://sa.wikisource.org/s/149h १४.४०.६]; [http://puranastudy.byethost14.com/pur_index24/yava.htm यवोपरि टिप्पणी]
 
 
 
 
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११७" इत्यस्माद् प्रतिप्राप्तम्