"ऋग्वेदः सूक्तं ३.४७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
</span></poem>
 
 
== ==
{{सायणभाष्यम्|
‘ मरुत्वान्' इति पञ्चर्चं नवमं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । 'मरुत्वान्' इत्यनुक्रमणिका' । दशरात्रे चतुर्थेऽहनि मरुत्वतीयशस्त्रे एतत् सूक्तं निविद्धानीयम्" । सूत्रितं च-’ श्रुधी हवमिन्द्र मरुत्वाँ इन्द्रेति मरुत्वतीयम्' ( आश्व. श्रौ. ७. ११ ) इति । ऋषभनाम्न्येकाहेऽपि मरुत्वतीयशस्त्रे एतन्निविद्धानम् । सूत्रितं च- मरुत्वाँ इन्द्र युध्मस्य त इति मध्यंदिनः ' ( आश्व. श्रौ. ९. ७) इति ॥
 
 
म॒रुत्वाँ॑ इंद्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य ।
Line ३९ ⟶ ४१:
आ । सिञ्चस्व । जठरे । मध्वः । ऊर्मिम् । त्वम् । राजा । असि । प्रऽदिवः । सुतानाम् ॥१
 
हे “इन्द्र यः “वृषभः अपां वर्षिता "मरुत्वान् । मरुतो देवविशः तद्वान्। स त्वम् “अनुष्वधं स्वधया सवनीयपुरोडाशादिरूपेण अन्नेनानुगतं “सोमं “रणाय रमणीयसंग्रामार्थं “मदाय तं सोमं "पिब । किंच “मध्वः मदकरस्य सोमस्य “ऊर्मिं संघातं बहुरसं “जठरे । जग्धमन्नमस्मिंस्तिष्ठतीति जठरमुदरम् । तस्मिन्नुदरे “आ “सिञ्चस्व सर्वतः क्षारय । यतः “त्वं “प्रदिवः पूर्वेष्वहःसु “सुतानाम् अभिषुतानां सोमानां “राजासि ईशितासि । न केवलमधुनातनानामिति भावः । उक्तमर्थं यास्को ब्रवीति-- मरुत्वानिन्द्र मरुद्भिस्तद्वान् वृषभो वर्षितापां रणाय रमणीयाय संग्रामाय पिब सोममनुष्वधमन्वन्नं मदाय मदनीयाय जैत्रायासिञ्चस्व जठरे मधुन ऊर्मिम् । मधु सोममित्यौपमिकं माद्यतेः । इदमपीतरन्मध्वेतस्मादेव । त्वं राजासि पूर्वेष्वप्यहःसु सुतानाम् ' ( निरु. ४. ८ ) इति ॥ अनुस्वधम् । स्वधामनुगम्य वर्तमानम् । ‘ अत्यादयः क्रान्ताद्यर्थे द्वितीयया ' इति समासः । संहितायां पूर्वपदात्' (पा. सू. ८. ३. १०६ ) इति षत्वम् । निरुदकादित्वादन्तोदात्तत्वम् । ऊर्मिम् । अर्तेरूच्च' ' इति मिप्रत्ययः । धातोः ऊ इत्यादेशो रपरः । प्रत्ययस्वरः ॥
 
 
‘सजोषा इन्द्र' इति मरुत्वतीयग्रहस्य याज्या । सूत्रितं च- सजोषा इन्द्र सगणो मरुद्धिरिति भक्षयित्वैतत्पात्रम् ' ( आश्व. श्रौ. ५. १४ ) इति ॥
 
स॒जोषा॑ इंद्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।
Line ५३ ⟶ ५८:
जहि । शत्रून् । अप । मृधः । नुदस्व । अथ । अभयम् । कृणुहि । विश्वतः । नः ॥२
 
हे "शूर बलवन् हे “इन्द्र “सजोषाः संगतो देवैः “मरुद्भिः “सगणः मरुद्भिरेव “वृत्रहा वृत्रस्य हन्ता “विद्वान् कर्मविषयाभिज्ञस्त्वं “सोमं “पिब । ततो नः “शत्रून् “जहि । “मृधः हिंसकान् शत्रून् “अप “नुदस्व । यद्वा मृधः । हिंस्यन्तेऽत्र प्राणिन इति मृधः संग्रामाः । तत्र वर्तमानान् शत्रूनपनुदस्व । “अथ अनन्तरं "नः अस्माकं “विश्वतः सर्वतः “अभयं कृणुहि कुरु । सर्वतो भयरहितानस्मान् कुर्वित्यर्थः ॥ वृत्रहा । हन्तेः ' ब्रह्मभ्रूणवृत्रेषु क्विप् '। अभयम् ।' ञिभी भये ' इत्यस्मात् एर्च् । नञा समासे तस्य स्वरः । विश्वतः । पञ्चम्यास्तसिल् । लित्स्वरः ॥
 
 
Line ६७ ⟶ ७३:
यान् । आ । अभजः । मरुतः । ये । त्वा । अनु । अहन् । वृत्रम् । अदधुः । तुभ्यम् । ओजः ॥३
 
"उत अपि च हे “ऋतुपाः कालनिर्वाहकतया ऋतूनां पातः । ऋतुषु सोमं पिबतीति वा ऋतुपाः। यद्वा ऋतुभिः मरुद्भिः सह सोमं पिबतीति ऋतुपाः। तादृश हे “इन्द्र "सखिभिः समानख्यानैः “ऋतुभिः मरुद्भिः "देवेभिः देवैः सहितस्त्वं नः संबन्धिनं “सुतम् अभिषुतं “सोमं “पाहि पिब । किंच° “यान् “मरुतः “आभजः युद्धसहायार्थमसेवथाः "ये च मरुतः “त्वा त्वां युद्धे स्वामिनम् “अनु अभजन्त । ततस्त्वं “वृत्रम् "अहन् हतवानसि । ते मरुतः "तुभ्यं त्वदर्थम् "ओजः युद्धे शत्रुहननादिरूपं पराक्रमम् “अदधुः अकुर्वन् ॥ अभजः । ‘ भज सेवायाम् ' इत्यस्य लङि रूपम् । यद्वृत्तयोगादनिघातः । अहन् । 'हन हिंसागत्योः' इत्यस्य लङि सिपो हल्ङ्यादिना लोपः । पादादित्वात्। अनिघातः । अदधुः । दधातेर्लङि झेः ‘ सिजभ्यस्त° ' इति जुस् । वाक्यभेदादनिघातः ॥
 
 
मरुत्वतीयशस्त्रे याज्या ‘ ये त्वाहिहत्ये' इत्येषा । सूत्रितं च--- ये त्वाहिहत्ये मघवन्नवर्धन्निति याज्या ' ( आश्व. श्रौ. ५. १४ ) इति ॥
 
ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्ध॒न्ये शां॑ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ ।
Line ७९ ⟶ ८९:
 
ये । त्वा । नूनम् । अनुऽमदन्ति । विप्राः । पिब । इन्द्र । सोमम् । सऽगणः । मरुत्ऽभिः ॥४
 
हे “मघवन् धनवन् “इन्द्र “ये मरुतः "अहिहत्ये वृत्रहननरूपे कर्मणि “त्वा त्वाम् अवर्धन्। ‘ प्रहर भगवो जहि वीरयस्व' इति बलदानेनावीवृधन् । हे “हरिवः अश्ववन्निन्द्र “ये च “शाम्बरे शम्बरवधसंबन्धिनि युद्धे त्वामवीवृधन् । इन्द्रः शम्बरमवधीदित्यस्मिन्नर्थे मन्त्रवर्ण:-’ यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् । ओजायमानं यो अहिं जघान ' ( ऋ. सं. २. १२. ११) इति । तथा “ये मरुतः "गविष्टौ पणिनामकैरसुरैः सह गवार्थे युद्धे च त्वामवीवृधन् । “विप्राः मेधाविनः "ये च मरुतः "नूनम् इदानीं त्वाम् "अनुमदन्ति मादयन्ति तादृशैस्तैः “मरुद्भिः “सगणः सन् इमं “सोमं “पिब । अहिहत्ये । हन्तेर्भावे • हनस्त च' इति क्यप् । कृदुत्तरपदस्वरः । अवर्धन् ।' वृधु वृद्धौ ' इत्यस्य ण्यन्तस्य लङि रूपम् । 'छन्दस्युभयथा ' इति झेरार्धधातुकत्वात् णेर्लोपः- यद्वृत्तयोगादनिघातः । शाम्बरे । शम्बरस्येदमित्यर्थे ' तस्येदम् ' इत्यण्प्रत्ययः । गविष्टौ । ‘ इषु इच्छायाम्'। भावे क्तिन् । बहुव्रीहौ पूर्वपदस्वरः । अनुमदन्ति । मदि स्तुत्यादिषु इत्यस्य लटि व्यत्ययेन परस्मैपदम् । आगमानुशासनस्यानित्यत्वान्नुमभावः । झेर्लसार्वधातुकस्वरे कृते धातुस्वरः । ‘ तिङि चोदात्तवति' इति गतेर्निघातः ॥
 
 
Line ९३ ⟶ १०५:
विश्वऽसहम् । अवसे । नूतनाय । उग्रम् । सहःऽदाम् । इह । तम् । हुवेम ॥५
 
-हे इन्द्र “मरुत्वन्तं मरुद्भिस्तद्वन्तं “वृषभं मेघभेदनद्वारा अपां वर्षकं “ववृधानं वृत्रहननादिकर्मसु उत्साहेन वर्धमानम् “अकवारिं-प्रभूतशत्रुकं यद्वा अकुत्सितारिम् । तथा च मन्त्रः-’ स्वरिरमत्रो ववक्षे रणाय' (ऋ. सं. १. ६१. ९) इति । "दिव्यं दिवि स्वर्गलोके वर्तमानम् । "शासं हितोपदेशहितपरिहाराभ्यां शासितारं "विश्वासाहं विश्वस्य प्रतिपक्षस्य सर्वस्याभिभवितारम् "उग्रं शत्रुषु उद्गूर्णं "सहोदां युद्धसहकारिणां मरुतां बलप्रदं “तं तादृशसामर्थ्योपेतम् "इन्द्रं "नूतनाय नवतराय "अवसे रक्षणाय "इह कर्मणि "हुवेम त्वामाह्वयेम ॥ नूतनाय । नवशब्दस्य नू इत्यादेशः ।। त्नप्तनखाश्च प्रत्यया वक्तव्याः इति तनप्रत्ययः ॥ ॥ ११ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४७" इत्यस्माद् प्रतिप्राप्तम्