"ऋग्वेदः सूक्तं १.५३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ६४:
 
शिक्षाऽनरः । प्रऽदिवः । अकामऽकर्शनः । सखा । सखिऽभ्यः । तम् । इदम् । गृणीमसि ॥२
 
हे "इन्द्र त्वम् अश्वस्य "दुरः दाता "असि। तथा "गोः पश्वादेः "दुरः दातासि । तथा "यवस्य यवादेर्धान्यजातस्य "दुरः दाता असि । "वसुनः निवासहेतोः धनस्य “इनः स्वामी "पतिः सर्वेषां पालयिता "शिक्षानरः । शिक्षतिर्दानकर्मा (नि. ३. १०.८)। शिक्षाया दानस्य नेतासि । "प्रदिवः पुराणः । प्रगता दिवो दिवसा यस्मिन् स तथोक्तः। "अकामकर्शनः । कामान् कर्शयति नाशयतीति कामकर्शनः । न कामकर्शनोऽकामकर्शनः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । हविदत्तवतां यजमानानां कामानभिमतफलप्रदानेन पूरयतीत्यर्थः। 'सखिभ्यः समानख्यानेभ्य ऋत्विग्भ्यः "सखा सखिवदत्यन्तं प्रियः एवंभूतो य इन्द्रः “तं प्रति "इदं स्तोत्रलक्षणं वचः "गृणीमसि ब्रूमहे ॥ दुरः । ‘डुदाञ् दाने'। ‘मन्दिवाशिमतिचसिचङ्ग्यङ्किभ्य उरच् ' (उ. सू. १. ३८) इति विधीयमान उरच्प्रत्ययो बहुलवचनादस्मादपि भवति । अत एव आकारलोपः । शिक्षानरः । ‘ शिक्ष विद्योपादाने '।' गुरोश्च हलः ' ( पा. सू. ३. ३. १०३) इति अकारप्रत्ययः । ततः टाप् । षष्ठीसमासः । “समासस्य' इत्यन्तोदात्तत्वम् । गृणीमसि ।' गॄ शब्दे ' । क्रैयादिकः । ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । ' इदन्तो मसि ' इति मसेः इकारः ॥
 
 
Line ७७ ⟶ ७९:
 
अतः । सम्ऽगृभ्य । अभिऽभूते । आ । भर । मा । त्वाऽयतः । जरितुः । कामम् । ऊनयीः ॥३
 
शचीवः । शची इति प्रज्ञानाम । हे "इन्द्र "शचीवः प्रज्ञावान् "पुरुकृत् प्रभूतस्य वृत्रवधादेः कर्तः "द्युमत्तम अतिशयेन दीप्तिमन् "अभितः सर्वत्र वर्तमानं "वसु धनं यदस्ति तत् "इदं "तवेत् तवैव स्वभूतमिति "चेकिते भृशमस्माभिर्ज्ञायते । "अतः कारणात् धनं "संगृभ्य सम्यक् गृहीत्वा "अभिभूते शत्रूणामभिभवितः “आ “भर अस्मभ्यमाहर देहीत्यर्थः । "त्वायतः त्वामात्मन इच्छतः "जरितुः स्तोतुः “कामम् अभिलाषं "मा “ऊनयीः परिहीनं मा कार्षीः। पूरयेत्यर्थः ॥ शचीवः । ‘ मतुवसो रुः०' इति रुत्वम् । षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । इतरेषु आष्टमिकं सर्वानुदात्तत्वम् । न च ' आमन्त्रितं पूर्वमविद्यमानवत्' इति अविद्यमानवत्वम्, ‘नामन्त्रिते समानाधिकरणे ' इति निषेधात् । चेकिते। ‘ कित ज्ञाने'। अस्मात् यङन्ताद्वर्तमाने लिटि ‘ °अमन्त्रे' (पा. सू. ३. १. ३५) इति निषेधात् आम्प्रत्ययाभावे सति लिट आर्धधातुकत्वात् अतोलोपयलोपौ । संगृभ्य आभर इति उभयत्र ‘हृग्रहोर्भश्छन्दसि ' इति भत्वम् । त्वायतः । त्वामात्मन इच्छति । ‘सुप आत्मनः क्यच् ।' प्रत्ययोत्तरपदयोश्च' इति मपर्यन्तस्य त्वादेशः । छान्दसम् आत्वम्। क्यजन्तात् लटः शतृ । तस्य अदुपदेशात् लसार्वधातुकस्वरेण अनुदात्तस्य एकादेशस्वरेणोदात्तत्वम् । “एकादेशस्वरोऽन्तरङ्गः सिद्धो भवतीति वक्तव्यम्' (पा. सू. ८. २. ६. १ ) इति वचनात् तस्य सिद्धत्वे सति ‘शतुरनुमः' इति अजादिविभक्तेरुदात्तत्वम् । कामम् । ‘कमु कान्तौ' इत्यस्मात् भावे घञ् । 'कर्षात्वतः' इत्यन्तोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युदात्तत्वम् । ऊनयीः। ‘ ऊन परिहाणे ' । चुरादिः । लुङि • णिश्रिद्रुस्रुभ्यः । ( पा. सू. ३. १. ४८) इति च्लेः चङादेशस्य ‘नोनयतिध्वनयति' (पा. सू. ३. १. ५१ ) इत्यादिना प्रतिषेधः । ‘ हम्यन्तक्षण ' (पा. सू. ७. २.५) इति सिचि वृद्धिप्रतिषेधः ॥
 
 
Line ९० ⟶ ९४:
 
इन्द्रेण । दस्युम् । दरयन्तः । इन्दुऽभिः । युतऽद्वेषसः । सम् । इषा । रभेमहि ॥४
 
हे इन्द्र “एभिः अस्माभिर्दत्तैः “द्युभिः दीप्तैश्चरुपुरोडाशादिभिः "एभिरिन्दुभिः पुरोवर्तिभिः तुभ्यं दत्तैः सोमैश्च प्रीतस्त्वम् अस्माकम् "अमतिं दारिद्र्यं “गोभिः त्वया दत्तैः पशुभिः "अश्विना अश्वयुक्तेन धनेन च "निरुन्धानः निवर्तयन् "सुमनाः शोभनमना भव । वयम् “इन्दुभिः अस्माभिर्दत्तैः सोमैः प्रीतेन "इन्द्रेण "दस्युम् उपक्षपयितारं शत्रुं "दरयन्तः हिंसन्तः अत एव "युतद्वेषसः पृथग्भूतशत्रुका भूत्वा “इषा इन्द्रदत्तेन अन्नेन "सं "रभेमहि संरब्धा भवेम । संगच्छेमहीत्यर्थः ॥ सुमनाः। शोभनं मनो यस्य। सोर्मनसी अलोमोषसी' इत्युत्तरपदाद्युदात्तत्वम् । निरुल्धानः। ‘रुधिर् आवरणे । स्वरितेत्त्वात् आत्मनेपदम् । श्नसोरल्लोपः' इति अकारलोपः। ‘ चितः' इत्यन्तोदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । अमतिम् । मन्तव्या मतिः ऐश्वर्यम् । न मतिः अमतिः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । 'न लोकाव्यय ' इति षष्ठीप्रतिषेधः । अश्विना । अश्वोऽस्यातीति अश्वि धनम् । मत्वर्थीय इनिः ॥
 
 
Line १०३ ⟶ १०९:
 
सम् । देव्या । प्रऽमत्या । वीरऽशुष्मया । गोऽअग्रया । अश्वऽवत्या । रभेमहि ॥५
 
हे "इन्द्र "राया धनेन वयं "सं "रभेमहि संगच्छेमहि । तथा "इषा अन्नेन "सं रभेमहि । तथा “वाजेभिः बलैः "सं रभेमहि । कीदृशैः वाजैः । "पुरुश्चन्दैः पुरूणां बहूनामाह्लादकैः "अभिद्युभिः अभितो दीप्यमानैः । किंच "देव्या द्योतमानया “प्रमत्या त्वदीयया प्रकृष्टबुद्ध्या "सं "रभेमहि । कीडश्या। “वीरशुष्मया । वीरं विशेषेण शत्रूणां क्षेपणसमर्थं शुष्मं बलं यस्याः सा तथोक्ता । गोअग्रया। स्तोतृभ्यो दानार्थमग्रे प्रमुखत एव गावो यस्याः सा तथोक्ता । "अश्वावत्या अश्वैरुपेतया ॥ राया । ‘ऊड़िदम्' इत्यादिना विभक्तेरुदात्तत्वम् । पुरुश्चन्द्रैः । ‘ह्रस्वाञ्चन्द्रोत्तरपदे मन्त्रे' इति सुट् । श्चुत्वेन शकारः । समासस्वरः । अभिद्युभिः । अभिगता द्यौर्दीप्तिर्येषाम् । अत्र दिव्शब्दो दीप्तिं लक्षयति । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । देव्या । उदात्तयणः०' इति विभक्तेरुदात्तत्वम् । प्रमत्या । ‘तादौ च निति' इति गतेः प्रकृतिस्वरत्वम् । उत्तरयोर्बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। सर्वत्र विभाषा गोः' (पा. सू. ६. १. १२२ ) इति गोअग्रया इत्यत्र प्रकृतिभावः । अश्वावत्या । ‘ मन्त्रे सोमाश्वेन्द्रिय ' इति मतुपि दीर्घत्वम् ॥ ॥ १५ ॥
 
 
Line ११६ ⟶ १२४:
 
यत् । कारवे । दश । वृत्राणि । अप्रति । बर्हिष्मते । नि । सहस्राणि । बर्हयः ॥६
 
हे "सत्पते सतां पालयितरिन्द्र "वृत्रहत्येषु वृत्रहननेषु निमित्तभूतेषु सत्सु "ते पूर्वोक्ताः "मदाः मादका मरुतः “त्वा त्वाम् "अमदन् अमदयन् हर्षं प्रापयन्। "तानि पूर्वोक्तानि "वृष्ण्या वृष्णः सेचनसमर्थस्य तव संबन्धीनि चरुपुरोडाशादीनि हवींषि त्वाम् अमदन् । "ते "सोमासः प्रसिद्धाः सोमाश्च त्वाम् अमदन् । "यत् यदा "कारवे स्तुतिकर्त्रे “बर्हिष्मते यज्ञवते यजमानाय "दश "सहस्राणि अपरिमितानि “वृत्राणि आवरकाण्युपद्रवजातानि “अप्रति शत्रुभिरप्रतिगतस्त्वं “नि “बर्हयः न्यवधीः । तदानीमिति पूर्वेण संबन्धः ॥ वृष्ण्या । ‘ शेश्छन्दसि बहुलम् ' इति शेर्लोपः। बर्हयः । बर्हयतिर्हिंसाकर्मा ( नि. २. १९. ३०)। लङि ‘ बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः । शपः पित्त्वादनुदात्तत्वे णिच एव स्वरः शिष्यते । यद्वृत्तयोगादनिघातः ॥
 
 
Line १२९ ⟶ १३९:
 
नम्या । यत् । इन्द्र । सख्या । पराऽवति । निऽबर्हयः । नमुचिम् । नाम । मायिनम् ॥७
 
हे इन्द्र “धृष्णुया शत्रूणां धर्षकस्त्वं "युधा युद्धेन संबद्धं "युधं युद्धम् "उप “घेदेषि उपैव गच्छसि । सर्वदा युद्धशीलो भवसीत्यर्थः । घ इति पादपूरणः । शत्रूणामसुराणां "पुरा पुरेण नगरेण सह 'इदं पुरोवर्ति "पुरं शत्रुनगरम् "ओजसा बलेन "सं "हंसि सम्यग्विनाशयसि । शत्रूणां पुराण्यभैत्सीरित्यर्थः । हे “इन्द्र त्वं "नम्या शत्रुषु नमनशीलेन "सख्या सहायभूतेन वज्रेण "परावति दूरदेशे "नमुचिं "नाम अनया संज्ञया प्रसिद्धं "मायिनं मायाविनमसुरं "यत् यस्मात् निबर्हयः नितरामहिंसीः । अतस्त्वमेवं स्तूयसे इत्यर्थः । युधा। ‘युध संप्रहारे । संपदादिलक्षणो भावे क्विप्। ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । ऐषि । “ इण् गतौ । अदादित्वात् शपो लुक् । धृष्णुया । ‘ ञिधृषा प्रागल्भ्ये '।' त्रसिगृधिषिक्षिपेः क्नुः' इति क्नुप्रत्ययः । कित्त्वाद्गुणाभावः। ‘सुपां सुलुक्' इति सोः याजादेशः । ‘ चितः' इत्यन्तोदात्तत्वम् । पुरा ।' पॄ पालनपूरणयोः '। पूरयति राज्ञामभिमतानीति । ‘ क्विप् च ' इति क्विप् । ‘उदोष्ठ्यपूर्वस्य' इति उत्वम् । “सावेकाचः° ' इति विभक्तिरुदात्ता। हंसि । हन्तेर्लटि सिपि अदादित्वात् शपो लुकि 'नश्चापदान्तस्य झलि' (पा. सू. ८. ३. २४ ) इति अनुस्वारः । नम्या । ‘णमु प्रह्वत्वे'। औणादिक इन्प्रत्ययः । ‘सुपां सुलुक् ' इति तृतीयाया ड्यादेशः । टिलोपः । सख्या । ‘शेषो घ्यसखि ' ( पा. सू. १. ४. ७) इति घिसंज्ञाप्रतिषेधात् नाभावाभावे यणादेशः । नमुचिम् । इन्द्रेण सह युद्धं न मुञ्चतीति नमुचिः । औणादिकः किप्रत्ययः । नभ्राण्नपात्' इत्यादिना नञः प्रकृतिभावः । नञ् न गतिर्न च कारकमिति कृदुत्तरपदप्रकृतिस्वरत्वाभावे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । मायिनम् । मायाशब्दस्य व्रीह्यादिषु पाठात् मत्वर्थीय इनिः ॥
 
 
Line १४२ ⟶ १५४:
 
त्वम् । शता । वङ्गृदस्य । अभिनत् । पुरः । अननुऽदः । परिऽसूताः । ऋजिश्वना ॥८
 
हे इन्द्र “त्वं "करञ्जं एतत्संज्ञकमसुरम् "उत अपि च "पर्णयम् एतन्नामानमसुरं च "अतिथिग्वस्य एतत्संज्ञस्य राज्ञः प्रयोजनाय "तेजिष्ठया अतिशयेन तेजस्विन्या "वर्तनी वर्तन्या शत्रुप्रेरणकुशलया शक्त्या "वधीः हतवानसि । तथा "अननुदः । अनु पश्चात् द्यति खण्डयतीति अनुदः अनुचरः । तादृशोऽनुचररहित एक एव “त्वम् “ऋजिश्वना एतत्संज्ञकेन राज्ञा "परिषूताः परितोऽवष्टब्धाः “शता शतानि शतसंख्याकाः "वङ्गृदस्य एतत्संज्ञकस्यासुरस्य “पुरः पुराणि नगराणि “अभिनत् बिभिदिषे ॥ वधीः । हन्तेर्लुङि सिपि “ लुङि च ' इति वधादेशः । तस्य अदन्तत्वात् वृद्ध्यभावः (पा. सू. ७. ३. ३५)। अत एव अनेकाच्त्वात् इट्प्रतिषेधाभावः (पा. सू. ७. २. १० )। ‘ इट ईटि ' इति सिचो लोपः । तेजिष्ठया । तेजस्शब्दात् “ अस्मायामेधा' इति मत्वर्थीयो विनिः । तस्मात् आतिशायनिके इष्ठनि “ विन्मतोर्लुक्' इति विनो लुक् । ‘टेः' इति टिलोपः । नित्त्वादाद्युदात्तत्वम् । वर्तनी । वृत्यते प्रेर्यतेऽनयेति वर्तनी । करणे ल्युट् । टित्त्वात् ङीप् (पा. सू. ४. १. १५)। ‘ सुपां सुलुक् ' इति विभक्तेः पूर्वसवर्णदीर्घत्वम् । व्यत्ययेनान्तोदात्तत्वम् । अभिनत् । ‘ भिदिर् विदारणे ' । लङि सिपि रुधादित्वात् श्नम् । इतश्च ' इति इकारलोपः । “हल्ङ्याब्भ्यः । इति सकारलोपः । अननुदः । ‘ दो अवखण्डने ।' आदेचः' इति आत्वम् । ‘ आतश्चोपसर्गे ' इति कप्रत्ययः । नास्ति अनुदः अस्येति बहुव्रीहौ ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । संहितायां दीर्घश्छान्दसः । परिषूताः । ‘षू प्रेरणे' । कर्मणि निष्ठा । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम्॥
 
 
Line १५५ ⟶ १६९:
 
षष्टिम् । सहस्रा । नवतिम् । नव । श्रुतः । नि । चक्रेण । रथ्या । दुःऽपदा । अवृणक् ॥९
 
हे इन्द्र "श्रुतः विश्रुतः प्रख्यातः “त्वं "द्विर्दश विंशतिसंख्याकान् "अबन्धुना बन्धुरहितेन सहायरहितेन "सुश्रवसा एतत्संज्ञकेन राज्ञा युद्धार्थम् “उपजग्मुषः उपगतवतः "एतान् एवंविधान् “जनराज्ञः जनपदानामधिपतीन् । षष्टिमित्यादिना तेषां राज्ञामनुचरसंख्योच्यते । "षष्टिं "सहस्रा सहस्राणां षष्टिं "नवतिं "नव नवसंख्योत्तरां नवतिम् । तान् राज्ञ ईदृसंख्याकाननुचरांश्च “रथ्या रथसंबन्धिना “दुष्पदा दुष्प्रपदनेन । शत्रुभिः प्राप्तुमशक्येनेत्यर्थः । ईदृशेन "चक्रेण "नि "अवृणक् न्यवर्जयः । त्वां स्तुवतः सुश्रवसो जयार्थं त्वमागत्य तदीयान् शत्रूनजैषीरित्यर्थः ॥ जनराज्ञः । समासान्तविधेरनित्यत्वात् ( परिभा. ८४ ) टच्प्रत्ययाभावः (पा. सू. ५. ४. ९१ )। राजञ्शब्दो ‘राजृ दीप्तौ ' इत्यस्मात् कनिन्प्रत्ययान्त आद्युदात्तः । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । अबन्धुना । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । सुश्रवसा । शोभनं श्रवोऽन्नं यस्य । ' आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् । उपजग्मुषः । गमेर्लिटः क्वसुः । शसि भसंज्ञायां • वसोः संप्रसारणम्' इति संप्रसारणम् । परपूर्वत्वम् । ‘गमहन° ' इत्यादिना उपधालोपः । ‘ शासिवसिघसीनां च इति षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन क्वसोरेव स्वरः शिष्यते । रथ्या । रथस्येदं रथ्यम् । ‘रथाद्यत्' (पा. सू. ४. ३. १२१ ) इति यत् । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । ‘ सुपा सुलुक्° ' इति विभक्तेः आकारः । दुष्पदा । पद गतौ '। ईषद्दुःसुषु' इति खल् । ‘लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम् । पूर्ववत् विभक्तेः आकारः। अवृणक् । 'वृजी वर्जने '। रौधादिकः । लङि मध्यमैकवचने ‘ हल्ङ्याब्भ्यः' इति सिपो लोपः । ‘ चोः कुः' इति कुत्वम् ॥
 
 
Line १६८ ⟶ १८४:
 
त्वम् । अस्मै । कुत्सम् । अतिथिऽग्वम् । आयुम् । महे । राज्ञे । यूने । अरन्धनायः ॥१०
 
हे “इन्द्र “त्वं "तवोतिभिः त्वदीयैः पालनैः “सुश्रवसं पूर्वोक्तं राजानम् "आविथ ररक्षिथ । तथा “तूर्वयाणम् एतन्नामानं राजानं "तव “त्रामभिः त्वदीयैस्त्रायकैः पालकैर्बलैः आविथेति शेषः । किंच "त्वं "महे महते "यूने तरुणाय "अस्मै सुश्रवसे "राज्ञे कुत्सादीन् त्रीन् राज्ञः "अरन्धनायः वशमनयः। ‘ रध्यतिर्वशगमने' (निरु. ६. ३२) इति यास्कः ॥ त्रामभिः । ‘त्रैङ् पालने'। आदेचः० ' इति आत्वम् । अतो मनिन् ' इति मनिन् । नित्त्वादाद्युदात्तत्वम् । अरन्धनायः । रन्धनं वशीकरणं करोति रन्धनयति । तत्करोति° ! (पा. सू. ३. १. २६. ५) इति णिच् । ‘ इष्ठवण्णौ प्रातिपदिकस्य ' (पा. सू. ६. ४. १५५. १ ) इति इष्ठवद्भावात् टिलोपः । लङि सिपि दीर्घश्छान्दसः ॥
 
 
Line १८२ ⟶ २००:
त्वाम् । स्तोषाम । त्वया । सुऽवीराः । द्राघीयः । आयुः । प्रऽतरम् । दधानाः ॥११
 
हे "इन्द्र "ये वयम् "उदृचि उदर्के यज्ञसमाप्तौ वर्तमानाः "देवगोपाः देवैः पालिताः "ते तव “सखायः सखिवदत्यन्तं प्रिया अत एव "शिवतमा "असाम अतिशयेन कल्याणा अभूम, ते वयं यज्ञसमाप्त्युत्तरकालमपि "त्वां “स्तोषाम स्तवाम । अस्माभिः स्तुतेन "त्वया "सुवीराः शोभनपुत्रवन्तः सन्तः “द्राघीयः अतिशयेन दीर्घम् "आयुः जीवनं "प्रतरं प्रकृष्टतरं यथा भवति तथा “दधानाः धारयन्तो भूयास्म ॥ देवगोपाः । देवा गोपा येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । असाम । अस भुवि । लुङ्र्थे लोटि ‘ आडुत्तमस्य पिञ्च' इति पिद्वद्भावात् ' पिञ्च ङिन्न ' इति ङित्त्वाभावे ‘श्नसोरल्लोपः ' इति अकारलोपाभावः । पित्त्वादेव तिङोऽनुदात्तत्वे धातुस्वरः शिष्यते । स्तोषाम । स्तौतेर्लोटि' सिब्बहुलं लेटि' इति बहुलग्रहणात् लोट्यपि सिप् । तस्य पित्त्वात् गुणः । सुवीराः । वीरवीर्यौ च' इति उत्तरपदाद्युदात्तत्वम् । द्राघीयः । दीर्घशब्दात् ईयसुनि • प्रियस्थिर' (पा. सू. ६. ४. १५७ ) इत्यादिना द्राघादेशः । नित्त्वादाद्युदात्तत्वम् । प्रतरम् । प्रशब्दात् तरपि ' अमु च च्छन्दसि' (पा. सू. ५, ४. १२) इति अद्रव्यप्रकर्षे अमुप्रत्ययः । प्रत्ययस्वरेणान्तोदात्तत्वम् । दधानाः । दधातेः शानचि ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ ॥ १६ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५३" इत्यस्माद् प्रतिप्राप्तम्