"ऋग्वेदः सूक्तं १.५७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २४:
 
{{सायणभाष्यम्|
'प्र मंहिष्ठाय ' इति षड़ृचं सप्तमं सूक्तं सव्यस्यार्षमैन्द्रं जागतम् । तथा चानुक्रान्तं - ‘ प्र मंहिष्ठाय' इति । विषुवति निष्केवल्ये इदं सूक्तं शंसनीयम् । सूत्रितं च – 'प्र मंहिष्ठाय त्यमू ष्वितीह तार्क्ष्यमन्ततः' ( आश्व. श्रौ. ८. ६) इति । उक्थ्यसंस्थे क्रतौ तृतीयसवने ब्राह्मणाच्छंसिशस्त्रेऽपि एतत्सूक्तम् । सूत्रितं -- सर्वाः ककुभः प्र मंहिष्ठायोदप्रुतः ' ( आश्व. श्रौ. ६. १) इति ॥
 
 
प्र मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वसे॑ म॒तिं भ॑रे ।
Line ३६ ⟶ ३८:
 
अपाम्ऽइव । प्रवणे । यस्य । दुःऽधरम् । राधः । विश्वऽआयु । शवसे । अपऽवृतम् ॥१
 
“मंहिष्ठाय । मंहतिर्दानकर्मेति यास्कः (निरु. १.७) । दातृतमाय "बृहते गुणैर्महते “बृहद्रये महाधनाय "सत्यशुष्माय अवितथबलाय तवसे आकारतः प्रवृद्धाय एवंगुणविशिष्टायेन्द्राय “मतिं मननीयां स्तुतिं "प्र "भरे प्रकर्षेण संपादयामि। "यस्य इन्द्रस्य बलं "दुर्धरम् अन्यैर्धर्तुमशक्यम् । तत्र दृष्टान्तः । “प्रवणे निम्नप्रदेशे “अपामिव । यथा जलानां वेगः केनाप्यवस्थापयितुं न शक्यते तद्वत् । तथा "राधः धनं "विश्वायु सर्वेषु व्याप्तं "शवसे स्तोतॄणां बलाय येनेन्द्रेण "अपावृतं अपगतावरणं क्रियते, तस्येन्द्रस्येति पूर्वेण संबन्धः ॥ मंहिष्ठाय । अतिशयेन मंहिता मंहिष्ठः। ‘तुश्छन्दसि ' इति इष्ठन्प्रत्ययः । तुरिष्ठेमेयःसु' इति तृलोपः । बृहते। बृहन्महतोरुपसंख्यानम् ' इति विभक्तेरुदात्तत्वम् । उत्तरयोर्बहुव्रीहिस्वरः । मतिम् । मन्त्रे वृष°' इत्यादिना क्तिन् उदात्तत्वम्। 'अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः। दुर्धरम् । ‘धृञ् धारणे'। 'ईषद्दुःसुषु' इति कर्मणि खल् । विश्वायु । विश्वस्मिन् सर्वस्मिन् आयु गमनं यस्य तत् विश्वायु । एतेः ‘छन्दसीणः' (उ. सू. १. २) इति उण्प्रत्ययः । ‘ बहुव्रीहौ विश्वं संज्ञायाम् ' इति पूर्वपदान्तोदात्तत्वम् । अपावृतम् । कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥
 
 
Line ४९ ⟶ ५३:
 
यत् । पर्वते । न । सम्ऽअशीत । हर्यतः । इन्द्रस्य । वज्रः । श्नथिता । हिरण्ययः ॥२
 
“अध “ह अनन्तरमेव हे इन्द्र "विश्वं सर्वमिदं जगत् "ते तव संबन्धिने "इष्टये यागाय "अनु “असत् अन्वभवत् । यद्वा । इष्टये हविरादिभिस्तव प्राप्तये इति योज्यम्। "हविष्मतः यजमानस्य "सवना सवनानि यज्ञजातानि “निम्नेव निम्नानि भूस्थलानि “आपः इव त्वां संभजन्ते इति शेषः । "हर्यतः शत्रुवधं प्रेप्सतः "इन्द्रस्य । हर्यतिः प्रेप्साकर्मा ' (निरु. ७. १७) इति यास्कः । यद्वा । हर्यतः शोभनः । "हिरण्ययः हिरण्मयः “श्नथिता शत्रूणां हिंसनशीलः "वज्रः "पर्वते पर्ववति शिलोच्चये वृत्रे वा "यत् यदा “न “समशीत संसुप्तो नाभवत् । किंतु जागरितः सन्नवधीदित्यर्थः । यदेन्द्रेण प्रेरितो वज्रः अप्रतिहतः सन् वृत्रमवधीत्तदाप्रभृत्येव तं यष्टुं सर्वे यजमानाः प्रावर्तिषतेति भावः ॥ अध । छान्दसं धस्वम् । असत् । अस्तेर्लङि ' बहुलं छन्दसि ' इति शपो लुगभावः । इष्टये। यजतेर्भावे क्तिनि 'व्रचिस्वपि 'इत्यादिना संप्रसारणम् । व्रश्चादिना षत्वम्। व्यत्ययेनान्तोदात्तत्वम् । यद्वा । इष गतौ इत्यस्मात् भावे क्तिनि ' मन्त्रे वृषेष ' इति तस्योदात्तत्वम् । निम्नेव सवना। ‘ शेश्छन्दसि । इति शेर्लोपः । समशीत । ‘शीङ् स्वप्ने' । लङि संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘शीङः सार्वधातुके° '(पा. सू. ७, ४, २१) इति गुणाभावः । हर्यतः । हर्य गतिकान्त्योः । भृमृदृशि°' इत्यादिना अतच्प्रत्ययः । श्नथिता । श्नथ क्नथ क्रथ हिंसार्थाः । ताच्छीलिकः तृन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ।।
 
 
Line ६२ ⟶ ६८:
 
यस्य । धाम । श्रवसे । नाम । इन्द्रियम् । ज्योतिः । अकारि । हरितः । न । अयसे ॥३
 
हे "उषः उषोदेवते "शुभ्रे शोभने त्वं "भीमाय शत्रूणां भयंकराय "पनीयसे अतिशयेन स्तोतव्याय "अस्मै इन्द्राय "अध्वरे हिंसारहितेऽस्मिन्यागे । "न इति संप्रत्यर्थे । तथा च यास्कः - ‘ अस्त्युपमार्थस्य संप्रत्यर्थे प्रयोग इहेव निधेहि ' (निरु. ७. ३१) इति । संप्रतीदानीं "नमसा नमो हविर्लक्षणमन्नं "सम् "आ “भर सम्यक् संपादय । “धाम सर्वस्य धारकं "नाम स्तोतृषु नमनशीलं प्रसिद्धं वा "इन्द्रियम् इन्द्रत्वस्य परमैश्वर्यस्य लिङ्गं यस्य इन्द्रस्य एवंविधं "ज्योतिः “श्रवसे अन्नाय हविर्लक्षणान्नलाभार्थम् "अयसे इतस्ततो गमनाय "अकारि क्रियते । "हरितो "न । यथाश्वान्सादिनः स्वाभिलषितदेशं गमयन्ति तद्वदिन्द्रोऽपि स्वाभिमतहविर्लाभाय स्वकीयं तेजो गमयतीति भावः ॥ उषः । पादादित्वात् निघाताभावः । शुभ्रे । 'शुभ दीप्तौ'। स्फायितञ्चि° ' इत्यादिना रक् । भर ।' हृग्रहोर्भः' इति भत्वम् ।' द्व्यचोऽतस्तिङः' इति दीर्घः । पनीयसे । पनतेः स्तुत्यर्थात् बहुलवचनात् कर्मणि असुन् । तस्मात् आतिशायनिके ईयसुनि ‘टे: ' इति टिलोपः । अकारि । 'छन्दसि लुङ्लङ्लिटः' इति वर्तमाने कर्मणि लुङ् । यद्वृत्तयोगादनिघातः । अडागम उदात्तः । अयसे ।' अय गतौ' इत्यस्मात् भावे असुन् ॥
 
 
Line ७५ ⟶ ८३:
 
नहि । त्वत् । अन्यः । गिर्वणः । गिरः । सघत् । क्षोणीःऽइव । प्रति । नः । हर्य । तत् । वचः ॥४
 
हे "इन्द्र "प्रभूवसो प्रभूतधन अत एव "पुरुष्टुत पुरुभिर्बहुभिर्यजमानैः स्तुत "ये च वयं “त्वा त्वाम् "आरभ्य आश्रयतयावलम्ब्य "चरामसि चरामो यागे वर्तामहे "ते "इमे "वयं "ते तव स्वभूताः। हे "गिर्वणः गीर्भिर्वननीयेन्द्र “त्वदन्यः त्वत्तोऽन्यः कश्चिदपि "गिरः स्तुतीः "नहि "सघत् न हि प्राप्नोति । अतस्त्वं "नः अस्माकं "तत् स्तुतिलक्षणं "वचः “प्रति "हर्य कामयस्व । "क्षोणीरिव । यथा क्षोणी पृथिवी स्वकीयानि भूतजातानि कामयते ॥ चरामसि । इदन्तो मसिः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः । सघत् । 'षघ हिंसायाम् । अत्र प्राप्त्यर्थो धातूनामनेकार्थत्वात् । लेटि अडागमः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक्। पादादित्वात् निघाताभावः । क्षोणीरिव । हल्ङ्याब्भ्यः' इति सुलोपाभावश्छान्दसः ॥
 
 
Line ८८ ⟶ ९८:
 
अनु । ते । द्यौः । बृहती । वीर्यम् । ममे । इयम् । च । ते । पृथिवी । नेमे । ओजसे ॥५
 
हे “इन्द्र "ते तव "वीर्यं सामर्थ्यं "भूरि बहु । न केनाप्यवच्छेत्तुं शक्यते । तादृशस्य “तव वयं “स्मसि स्वभूता भवामः । हे "मघवन् "अस्य "स्तोतुः त्वां स्तुवतो यजमानस्य "कामम् अभिलाषम् “आ “पृण आपूरय । "बृहती "द्यौः महान् द्युलोकोऽपि “ते तव "वीर्यम् "अनु “ममे अन्वमंस्त । इन्द्रेण सहावस्थानात् "इयं "च इयमपि “पृथिवी "ते तव “ओजसे बलाय "नेमे प्रह्वीबभूव । त्वद्बलाद्भीता सती अध एव वर्तते इति भावः ॥ स्मसि। अस भुवि । लटि ‘असोरल्लोपः' इति अकारलोपः । इदन्तो मसिः । पृण । ‘ पृण प्रीणने ' । अत्र प्रीतिहेतुतया पूरणं लक्ष्यते । तुदादित्वात् शप्रत्ययः । तस्य ङित्त्वाद्गुणाभावः । ममे । 'माङ् माने शब्दे च'। ङित्त्वात् आत्मनेपदम् । लिटि ‘ आतो लोप इटि च ' इति आकारलोपः । नेमे । ' णमु प्रह्वत्वे '। लिटि ‘अत एकहल्मध्ये ' इति एत्वाभ्यासलोपौ । तिङ्ङतिङः' इति निघातः ॥
 
 
Line १०२ ⟶ ११४:
अव । असृजः । निऽवृताः । सर्तवै । अपः । सत्रा । विश्वम् । दधिषे । केवलम् । सहः ॥६
 
हे "वज्रिन् वज्रवन् "इन्द्र “त्वं "तं प्रसिद्धं "महाम् आयामतो महान्तम् "उरुं विस्तीर्णं पर्वत "पर्ववन्तं मेघं वृत्रासुरं वा "वज्रेण आयुधेन "पर्वशः पर्वणि पर्वणि "चकर्तिथ शकलीचकृषे । तेन मेघेन "निवृताः आवृताः "अपः "सर्तवै सरणाय गमनाय “अवासृजः अवाङ्मुखमस्राक्षीः । अतस्त्वमेव "केवलं "विश्वं व्याप्तं "सहः बलं "दधिषे धारयसि नान्यः कश्चिदिति यदेतत् तत् "सत्रा सत्यमेव । सत्रा इति सत्यनाम, सत्रा इत्था ' ( नि. ३. १०. ३) इति तन्नामसु पाठात् ॥ महां महान्तम् । नकारतकारयोर्लोपन्छान्दसः । चकर्तिथ। ‘ कृती छेदने '। लिटि थलि अभ्यासस्य उरदत्वहलादिशेषचुत्वानि । सर्तवै ।' कृत्यार्थे तवैकेन्” ' इति भावे तवैप्रत्ययः । कृन्मेजन्तः' (पा. सू. १. १. ३९ ) इति अव्ययत्वे ' अव्ययादाप्सुपः' इति सुपो लुक् । 'अन्तश्च तवै युगपत् ' इति आद्यन्तयोर्युगपत् उदात्तत्वम् । दधिषे । लिटि क्रादिनियमात् इट् ॥ ॥ २२ ॥ ॥ १० ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५७" इत्यस्माद् प्रतिप्राप्तम्