"ऋग्वेदः सूक्तं १.८०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १७८:
 
शता । एनम् । अनु । अनोनवुः । इन्द्राय । ब्रह्म । उत्ऽयतम् । अर्चन् । अनु । स्वऽराज्यम् ॥९
 
"सहस्रं सहस्रसंख्याका मनुष्याः "साकमर्चत एनमिन्द्रं युगपदेवापूजयन् । तथा “विंशतिः । षोडशर्त्विजो यजमानः पत्नी च सदस्यः शमिता चेति विंशतिसंख्याकाः। तेषां या विंशतिसंख्या सा “परि “ष्टोभत परितः सर्वतोऽस्तौत् । तथा च “शता शतसंख्याका ऋषयः “एनम् इन्द्रम् "अन्वनोनवुः पुनः पुनरस्तुवन् । अस्मा एव "इन्द्राय “ब्रह्म हविर्लक्षणमन्नम् "उद्यतं दातुमूर्ध्वं धृतम् । अत एवंविध इन्द्रो वृत्रमहन्नित्यर्थः । अन्यत् पूर्ववत् ॥ परि ष्टोभत । स्तोभतिः स्तुतिकर्मा । ' उपसर्गात्सुनोति° ' इति पत्वम् । अनोनवुः ।,' णु स्तुतौ । अस्मात् यङ्लुगन्तात् लुङि • सिजभ्यस्तविदिभ्यश्च ' इति झेः उसादेशः । उद्यतम् । ‘ यम उपरमे ' । उत्पूर्वादस्मात् कर्मणि निष्ठा । ‘ अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥
 
 
Line १९१ ⟶ १९३:
 
महत् । तत् । अस्य । पौंस्यम् । वृत्रम् । जघन्वान् । असृजत् । अर्चन् । अनु । स्वऽराज्यम् ॥१०
 
"इन्द्रो "वृत्रस्य असुरस्य “तविषीं बलं स्वकीयेन बलेन "निरहन् हतवान् । "सहसा सहनेन अभिभवसाधनेनायुधेन "सहः अभिभवसाधनं वृत्रायुधं निरहन् । "अस्य इन्द्रस्य “तत् "पौंस्यं बलं "महत अतिप्रौढम्। यस्मादयं "वृत्रं "जघन्वान् हतवान् हत्वा च तन्निरुद्धा अप: "असृजत् तस्मात् वृत्रान्निरगमयत् । अन्यत् पूर्ववत् ॥ पौंस्यम् । 'पुंस अभिवर्धने' । चुरादिः । ‘ अचो यत्' इति यत् । यतोऽनावः । इत्याद्युदात्तत्वम् । जघन्वान् । हन्तेर्लिटः क्वसुः । ‘ विभाषा गमहनविद° ' इति इटः विकल्पादभावः । ‘ अभ्यासाच्च' इति अभ्यासादुत्तरस्य हन्तेर्हकारस्य धत्वम् ॥ ॥ ३० ॥
 
 
Line २०४ ⟶ २०८:
 
यत् । इन्द्र । वज्रिन् । ओजसा । वृत्रम् । मरुत्वान् । अवधीः । अर्चन् । अनु । स्वऽराज्यम् ॥११
 
"मही महत्यौ “इमे द्यावापृथिव्यावपि हे इन्द्र “तव "मन्यवे त्वदीयकोपात् "भियसा भीत्या "वेपेते कम्पेते । हे "वज्रिन् वज्रवन् "इन्द्र “मरुत्वान् मरुद्भिर्युक्तस्त्वम् “ओजसा बलेन "यत् यदा “वृत्रं "अवधीः तदानीं द्यावापृथिव्यावपि भयेनाकम्पिषातामित्यर्थः ॥ वेपेते । टुवेपृ कम्पने ' । भियसा । ञिभी भये । औणादिकः कसिप्रत्ययः ।।
 
 
Line २१७ ⟶ २२३:
 
अभि । एनम् । वज्रः । आयसः । सहस्रऽभृष्टिः । आयत । अर्चन् । अनु । स्वऽराज्यम् ॥१२
 
"वृत्रः "इन्द्रं "वेपसा स्वकीयेन वेपनेन कम्पनेन “न “वि “बीभयत् भीतं नाकरोत् । तथा “तन्यता स्वकीयेन घोरेण गर्जनशब्देन "न वि बीभयत् । अपि च इन्द्रेण विसृष्टः “आयसः अयोमयः “सहस्रभृष्टिः अनेकाभिर्धाराभिर्युक्तः "वज्रः “एनं वृत्रम् "अभि “आयत हन्तुमाभिमुख्येनागच्छत् । अन्यत् पूर्ववत् ॥ तन्यता । स्तन शब्दे '। ‘ ऋतन्यञ्जि°' इत्यादिना तनोतेर्विधीयमानो यतुच् बहुलवचनादस्मादपि भवति । अत एव सलोपश्च ।' सुपां सुलुक् ' इति तृतीयाया डादेशः । उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् । बीभयत् ।' ञिभी भये । हेतुमति णिच् । अत्र वेपस्तन्यतुभ्यां भयं न हेतोर्वृत्रादिति हेतुभयाभावात् ' बिभेतेर्हेतुभये ' ( पा. सू. ६. १. ५६ ) इति आत्वाभावः। ण्यन्तात् लुङि च्लेश्चङादि । आयत । अय पय गतौ ' । भौवादिरात्मनेपदी ॥
 
 
Line २३० ⟶ २३८:
 
अहिम् । इन्द्र । जिघांसतः । दिवि । ते । बद्बधे । शवः । अर्चन् । अनु । स्वऽराज्यम् ॥१३
 
हे "इन्द्र यत् यदा वृत्रं तव हननार्थं तेन सृष्टाम् "अशनिं च त्वं वज्रण समयोधयः सम्यक् प्रहार्षीः तदानीम् अहिम् आगत्य हन्तारं वृत्रं जिघांसतः हन्तुमिच्छतः “ते तव “शवः बलं “दिवि “बद्वधे बद्धमनुस्यूतं व्याप्तमासीत् । शिष्टं पूर्ववत् । जिघांसतः । हन्तेरिच्छाथै सनि ‘अज्झनगमां सनि ' ( पा. सू. ६. ४. १६ ) इति उपधादीर्घत्वम् । बद्धधे । ‘ बध बन्धने'। कर्मणि लिटि व्यत्ययेन हलादिशेषाभावः ।।
 
 
Line २४३ ⟶ २५३:
 
त्वष्टा । चित् । तव । मन्यवे । इन्द्र । वेविज्यते । भिया । अर्चन् । अनु । स्वऽराज्यम् ॥१४
 
हे "अद्रिवः वज्रवन् “इन्द्र “ते तव "अभिष्टने सिंहनादे सति "स्थाः स्थावरं "जगत् जङ्गम “च "यत् अस्ति तदुभयं "रेजते कम्पते । “त्वष्टा "चित् वज्रनिर्माता त्वष्टा च "तव "मन्यवे त्वदीयाय कोपाय "भिया भीत्या “वेविज्यते भृशं कम्पते । अन्यत् समानम् ।। स्थाः । तिष्ठतेः । क्विप च । इति क्विप् । वेविज्यते । ‘ ओविजी भयचलनयोः । अस्मात् क्रियासमभिहारे यङ् । सन्यङोः । इति द्विर्भावः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे यङ एव स्वरः शिष्यते । इन्द्रस्यस्य पादादौ वर्तमानस्य आमन्त्रितं पूर्वमविद्यमानवत् ' इति अविद्यमानवत्वेदौ सति अस्य पादादित्वात् ‘ °अपादादौ ' इति पर्युदासात् निघाताभावः ।।
 
 
Line २५६ ⟶ २६८:
 
तस्मिन् । नृम्णम् । उत । क्रतुम् । देवाः । ओजांसि । सम् । दधुः । अर्चन् । अनु । स्वऽराज्यम् ॥१५
 
“यात् यान्तं सर्वत्र व्याप्य वर्तमानमिन्द्रं "नहि "नु “अधीमसि वयं न ह्यवगच्छामः। यतो वयमल्पाः । परः इत्येतत्सकारान्तमव्ययं वैदूर्यमाचष्टे । परो दिवा पर एना ' ( ऋ. सं. १०. ८२. ५ ) इति यथा । “परः परस्तादतिदूरे मनुष्यैरनवगाह्ये स्थाने "वीर्या वीर्येण सामर्थ्येन वर्तमानम् “इन्द्रं "कः मनुष्यो जानीयात् । न कोऽपीत्यर्थः । कस्मादिति चेत् अत्राह तस्मिन् इति । यस्मात् “तस्मिन् इन्द्रे “देवाः "नृम्णं धनं “उत अपि च "क्रतुं वीर्यकर्म "ओजांसि बलानि च "सं "दधुः स्थापयांचक्रुः तस्मादित्यर्थः।। यात् । । ' या प्रापणे ' । अस्मात् लटः शतृ । ‘सुपां सुलुक् ' इति द्वितीयाया लुक् । अधीमसि । ‘इण् गतौ ' । इदन्तो मसिः । वीर्या । ‘सुपां सुलुक्' इति तृतीयाया आकारः ।।
 
 
Line २७० ⟶ २८४:
तस्मिन् । ब्रह्माणि । पूर्वऽथा । इन्द्रे । उक्था । सम् । अग्मत । अर्चन् । अनु । स्वऽराज्यम् ॥१६
 
"अथर्वा एतत्संज्ञक ऋषिः "पिता सर्वासां प्रजानां पितृभूतः "मनुः च "दध्यङ् अथर्वणः पुत्र एतत्संज्ञक ऋषिश्च “यां “धियम् "अत्नत यत्कर्मातन्वत अकुर्वन् "तस्मिन् कर्मणि यानि “ब्रह्माणि हविर्लक्षणान्यन्नानि "उक्था शस्त्ररूपाणि स्तोत्राणि च यानि सन्ति तानि सर्वाणि तस्मिन् "इन्द्रे "समग्मत समगच्छन्त । तत्र दृष्टान्तः । "पूर्वथा पूर्वेषामन्येषां वसिष्ठादीनां यज्ञेषु यथा हवींषि स्तोत्राणि चेन्द्रेण संगच्छन्ते तद्वत् । य इन्द्रः "स्वराज्यं स्वस्य राजत्वम् "अनु "अर्चन् अनुपूजयन् । वृत्रवधादिरूपेण कर्मणा स्वकीयमधिपतित्वं प्रकटयन्नित्यर्थः । अत्नत । ‘ तनु विस्तारे' । 'बहुलं छन्दसि' इति विकरणस्य लुक् । 'तनिपत्योश्छन्दसि' इति उपधालोपः । पूर्वथा । ‘ प्रत्नपूर्वविश्वेमात्थाल् छन्दसि ' (पा. सू. ५. ३. १११) इति इवार्थे पूर्वशब्दात् थाल्प्रत्ययः । लित्स्वरेण प्रत्ययात्पूर्वस्योदातत्वम् । उक्था । ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः । समग्मत ।' समो गम्यृच्छिभ्याम्' इति आत्मनेपदम् । लुङि • मन्त्रे घस ! इति च्लेर्लुक् । ‘गमहन' इत्यादिना उपधाया लोपः ॥ ॥३१॥
 
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
 
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टके पञ्चमोऽध्यायः समाप्तः ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८०" इत्यस्माद् प्रतिप्राप्तम्