"ऋग्वेदः सूक्तं १.८४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५३:
 
जघान । नवतीः । नव ॥१३
 
अत्र शाट्यायनिन इतिहासमाचक्षते - आथर्वणस्य दधीचो जीवतो दर्शनेनासुराः पराबभूवुः । अथ तस्मिन् स्वर्गतेऽसुरैः पूर्णा पृथिव्यभवत् । अथेन्द्रः तैरसुरैः सह योद्धुमशक्नुवंस्तमृषिमन्विच्छन् स्वर्गं गत इति शुश्राव । अथ पप्रच्छ तत्रत्यान् नेह किमस्य किंचित्परिशिष्टमङ्गमस्तीति । तस्मा अवोचन् अस्त्येतदाश्वं शीर्षं येन शिरसाश्विभ्यां मधुविद्यां प्राब्रवीत् । तत्तु न विद्म यत्राभवदिति । पुनरिन्द्रोऽब्रवीत् । तदन्विच्छतेति । तद्धान्वैषिषुः । तच्छर्यणावत्यनुविद्याजहुः । शर्यणावद्ध वै नाम कुरुक्षेत्रस्य जघनार्धै सरः स्यन्दते । तस्य शिरसोऽस्थिभिरिन्द्रोऽसुराञ्जघान' इति । "अप्रतिष्कुतः परैरप्रतिशब्दितः प्रतिकूलशब्दरहितः "इन्द्रः आथर्वणस्य "दधीचः एतत्संज्ञकस्य ऋषेः "अस्थभिः अश्वशिरःसंबन्धिभिरस्थिभिः "नवतीर्नव नवसंख्याका नवतीर्दशोत्तराष्टशतसंख्याकाः । तथा हि। लोकत्रयवर्तिनो देवाञ्जेतुमादावासुरी माया त्रिधा संपद्यते । त्रिविधा अतीतानागतवर्तमानकालभेदेन तत्कालवर्तिनो देवाञ्जेतुं पुनरपि प्रत्येकं त्रिगुणिता भवति । एवं नव संपद्यते । पुनरप्युत्साहादिशक्तित्रयरूपेण त्रैगुण्ये सति सप्तविंशतिः संपद्यते। पुनः सात्विकादिगुणत्रयभेदेन त्रैगुण्ये सत्येकोत्तराशीतिः संपद्यते । एवं चतुर्भिस्त्रिकैर्गुणिताया मायाया दशसु दिक्षु प्रत्येकमवस्थाने सति नव नवतयः संपद्यन्ते । एवंविधमायारूपाणि "वृत्राणि आवरकाण्यसुरजातानि "जघान हतवान् ॥ दधीचः । दधि अञ्चतीति दध्यङ्। अञ्चतेः ‘ ऋत्विक् ' इत्यादिना क्विन् । अनिदिताम्' इति नलोपः । षष्ठ्येकवचने ‘अचः ' इति अकारलोपे ‘चौ ' इति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण विभक्त्युदात्तत्वे प्राप्ते तदपवादतया • चौ ' इति पूर्वपदस्य अन्तोदात्तत्वं प्राप्तम् 'अञ्चेश्छन्दस्यसर्वनामस्थानम् ' ( पा. सू. ६. १. १७० ) इति पुनर्विभक्त्युदात्तत्वविधानेन तद्बाध्यते । अस्थभिः । छन्दस्यपि दृश्यते' ( पा. सू. ७. १. ७६ ) इति अनजादावपि अस्थिशब्दस्य अनङादेशः स चोदात्तः ॥
 
 
Line २६७ ⟶ २६९:
तत् । विदत् । शर्यणाऽवति ॥१४
 
"पर्वतेषु पर्ववत्सु गिरिषु "अपश्रितम् अपगत्य स्थितम् "अश्वस्य अश्वसंबन्धि दधीचः "यच्छिरः “इच्छन् इन्द्रो वर्तते “शर्यणावति एतत्संज्ञे सरसि “तत् शिरः “विदत् अज्ञासीत् । ज्ञात्वा तदाहृत्य तदीयैरस्थिभिर्वृत्राणि जघानेति पूर्वस्यामृचि संबन्धः ॥ इच्छन् । इषु इच्छायाम् ' । तुदादित्वात् शप्रत्ययः । विदत् । वेत्तेर्लुङि व्यत्ययेन च्लेः अङादेशः । शर्यणावति । शर्यणा नाम देशाः। तेषामदूरभवं सरः शर्यणावत् । मध्वादिषु शर्यणशब्दस्य पाठात् मध्वादिभ्यश्च ' (पा. सू. ४. २.८६) इति चातुरर्थिको मतुप् ।' संज्ञायाम्' इति मतुपो वत्वम् । 'मतौ बह्वचोऽनजिरादीनाम् ' (पा. सू. ६. ३. ११९ ) इति दीर्घः ॥
 
 
अतिमूर्तिनाम्न्येकाहे कर्तव्ये पूर्वमेवैकं मासं सौर्याचान्द्रमसीभ्यामिष्टिभ्यां यष्टव्यम् । तत्र पूर्वपक्षे चान्द्रमसीष्टिः । ‘ अत्राह गोः' इति तस्यां प्रधानस्यानुवाक्या । ' अतिमूर्तिना' इति खण्डे सूत्रितम्- “ अत्राह गोरमन्वत नवोनवो भवति जायमानः ' ( आश्व. श्रौ. ९. ८) इति ।
 
अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्य॑म् ।
Line २८० ⟶ २८६:
इत्था । चन्द्रमसः । गृहे ॥१५
 
अत्राह अस्मिन्नेव "गोः गन्तुः "चन्द्रमसो "गृहे मण्डले “त्वष्टुः दीप्तस्यादित्यस्य संबन्धि "अपीच्यं रात्रावन्तर्हितं स्वकीयं यत् "नाम तेजः तदादित्यस्य रश्मयः "इत्था इत्थमनेन प्रकारेण “अमन्वत अजानन् । उदकमये स्वच्छे चन्द्रबिम्बे सूर्यकिरणाः प्रतिफलन्ति । तत्र प्रतिफलिताः किरणाः सूर्ये यादृशीं संज्ञां लभन्ते तादृशीं चन्द्रेऽपि वर्तमाना लभन्ते इत्यर्थः । एतदुक्तं भवति । यद्रात्रावन्तर्हित सौरं तेजस्तच्चन्द्र मण्डलं प्रविश्य अहनीव नैशं तमो निवार्य सर्वं प्रकाशयति । ईदृग्भूततेजसा युक्तः सूर्यश्च इन्द्र एव द्वादशस्वादित्येष्विन्द्रस्यापि परिगणितत्वात् । अतोऽहोरात्रयोः प्रकाशक इन्द्र एवेतीन्द्रस्तुतेः प्रतीयमानत्वादिन्द्रो देवतेत्येतदुपपन्नं भवति । ईदृग्भूतस्य तेजस आश्रयत्वेन चन्द्रमसः प्राधान्यविवक्षया चान्द्रमस्यामिष्टौ विनियोगोऽप्युपपद्यते । अत्र निरुक्तम् - ' अथाप्यस्यैको रश्मिश्चन्द्रमसं प्रति दीप्यते तदेतेनोपेक्षितव्यमादित्यतोऽस्य दीप्तिर्भवतीति । सुषुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्व इत्यपि निगमो भवति । सोऽपि गौरुच्यते । अत्राह गौरमन्वतेति' (निरु. २. ६.), ‘ अत्र ह गोः सममंसतादित्यरश्मयः स्वं नामापीच्यमपचितमपगतमपिहितमन्तर्हितं वा ' ( निरु. ४. २५ ) इति ॥ अमन्वत । “ मनु अवबोधने' । अपीच्यम् । अपपूर्वात् चिनोतेः “ अघ्न्यादयश्च' ( उ. सू. ४. ५५१) इति निपातनात् यत् । अत एवाभिमतरूपसिद्धिः। यद्वा । अपिपूर्वात् अञ्चतेः “ ऋत्विक्° ' इत्यादिना क्विन् ।' अनिदिताम्' इति नलोपः । अपिगते निगते भवमपीच्यम् । ‘भवे छन्दसि ' इति यत् । ‘ अचः' इति अकारलोपे ‘ चौ ' इति दीर्घत्वम् । तित्स्वरितः । ‘ अपीच्योऽप्रकाशः' इति भट्टभास्करमिश्रः । इत्था । इदंशब्दात् ' था हेतौ च च्छन्दसि । इति प्रकारवचने थाप्रत्ययः । यदि तत्रेदंशब्दो नानुवर्तते" तदानीम् इदमस्थमुः ' ( पा. सू. ५. ३. २४ ) इति थमुप्रत्ययः । अव्ययादाप्सुपः ' ( पा. सू. २. ४. ८२ ) इति सुब्लुकं बाधित्वा ‘सुपां सुलुक्' ' इति डादेशः । चन्द्रमसः । चन्द्रमाह्लादनं मिमीते निर्मिमीते इति चन्द्रमाः। ‘चन्द्रे माङो डित् ' ( उ. सु. ४.६६७ ) इति असिप्रत्ययः । दासीभारादिषु पठितत्वात् पूर्वपदप्रकृतिस्वरत्वम् । पूर्वपदं च ‘स्फायितञ्चि' ' इत्यादिना रक्प्रत्ययान्तमन्तोदात्तम् ॥ ॥७॥
 
 
सर्वपृष्ठायामिष्टौ कायस्य हविषः ‘ को अद्य ' इति द्वे ऋचौ याज्यानुवाक्ये । सूत्रितं च - ‘ कायं दशमं को अद्य युङ्क्ते धुरि गा ऋतस्येति द्वे' ( आश्व. श्रौ. ४. १२ ) इति ॥
 
को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् ।
Line २९२ ⟶ ३०२:
 
आसन्ऽइषून् । हृत्सुऽअसः । मयःऽभून् । यः । एषाम् । भृत्याम् । ऋणधत् । सः । जीवात् ॥१६
 
"अद्य अस्मिन् कर्मणि “ऋतस्य गच्छतः इन्द्रसंबन्धिनो रथस्य “धुरि अश्ववहनप्रदेशे “गाः गतिमतोऽश्वान् "कः युङ्क्ते को नाम नियोक्तुं शक्नोति । न कोऽपीत्यर्थः । कीदृशानश्वान् । "शिमीवतः वीर्यकर्मोपेतान् "भामिनः तेजसा युक्तान् "दुर्हृणायून् परैर्दुःसहेन क्रोधेन युक्तान् । हृणीयतिः क्रुध्यतिकर्मा । असन्निषून् येषामासनि आस्ये मुखप्रदेशे शत्रूणां प्रहरणार्थमिषवो बाणा बद्धास्तान "हृत्स्वसः । हृत्सु शत्रूणां हृदयेष्वस्यन्ति स्वकीयं पादं क्षिपन्तीति हृत्स्वसः। "मयोभून् मयसः सुखस्य भावयितॄन्। स्वकीयानां सुखप्रदानित्यर्थः । "यः यजमानः “एषाम् ईदृशानामश्वानां "भृत्यां भरणक्रियां रथवाहनक्रियाम् “ऋणधत् समर्धयति स्तौतीति यावत् । "सः यजमानः "जीवात जीवनवान्भवेत् ॥ यद्वा । क इति प्रजापतिरुच्यते । ‘ को वै नाम प्रजापतिः' इति श्रुतेः । ऋतस्य यज्ञस्य धुरि निर्वाहे गा वेदरूपान् वाग्विशेषान् अद्येदानीं युङ्क्ते संयोजयति । कीदृशान् । शिमीवतः प्रतिपाद्यैः कर्मभिर्युक्तान् भामिनः उज्ज्वलान् दुहृणायून् । हृणीयतिर्हानिकर्मा । हातुमशक्यान् वेदाध्ययनस्य नित्यत्वात्। आसन्निषून् आसनि आस्ये इषुरेषणं गमनमुच्चारणं येषां तान् हृत्स्वसो हृत्सु हृदयेषु दीप्यमानान् । प्रकाशमानानित्यर्थः । मयोभून् मयसोऽध्ययनप्रभवस्य सुखसाधनस्यादृष्टस्य भावयितॄन् । यो यजमान एषां वचसां भृत्यां भरणक्रियाम् ऋणधत् ऋद्धिमतीं करोति स जीवात् स एव जीवति । अन्ये जीवन्मृता इत्यर्थः ॥ दुर्हृणायून् । “ हृणीङ् लज्जायाम् ' । कण्ड्वादित्वात् यक् । बहुलवचनात् अस्मात् उण्प्रत्ययः । अतो लोपे सति वर्णव्यापत्त्या आकारः । मृगय्वादिर्वा द्रष्टव्यः । आसन्निषून ! ‘पद्दन्' इत्यादिना आस्यशब्दस्य आसन्नादेशः । ‘ इष गतौ ' इत्यस्मात् “ इषेः किच्च' (उ. सू. १. १३ ) इति उप्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । हृत्स्वसः। असु क्षेपणे '। अस गतिदीप्त्यादानेषु । ‘ क्विप् च ' इति क्विप् ।' तत्पुरुषे कृति बहुलम्' इति अलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । मयोभून् । व्यत्ययेन ह्रस्वत्वम् । यद्वा । ‘ मितद्र्वादिभ्य उपसंख्यानम् ' ( पा. सू. ३. २. १८०, १ ) इति डुप्रत्ययः । भृत्याम् । भृञ् भरणे '। ‘ संज्ञायां समजनिषद° ' ( पा. सू. ३. ३. ९९ ) इति क्यप् । ‘ उदात्तः' इत्यनुवृत्तेः प्रत्ययस्योदात्तत्वम् । ऋणधत् । ‘ ऋधु वृद्धौ '। लेटि व्यत्ययेन श्नम् । ‘ लेटोऽडाटौ ' इति अड़ागमः । ‘ इतश्च लोपः' इति इकारलोपः । जीवात् । ‘ जीव प्राणधारणे'। पूर्ववत् लेटि आडागमः ॥
 
 
Line ३०५ ⟶ ३१७:
 
कः । तोकाय । कः । इभाय । उत । राये । अधि । ब्रवत् । तन्वे । कः । जनाय ॥१७
 
अनुग्रहीतरि इन्द्रे आगते सति “क “ईषते शत्रोर्भीतः सन् को निर्गच्छति न कोऽपीत्यर्थः । “कः "तुज्यते को हिंस्यते शत्रुभिर्हिंस्योऽपि कश्चिन्नास्तीत्यर्थः । "कः यजमानः “बिभाय बिभेति । इन्द्रे रक्षके सति भयमपि नोत्पद्यते दुरे तस्य शत्रुकृता हिंसा । "अन्ति अन्तिके समीपे "सन्तम् अस्माकं रक्षकत्वेन वर्तमानम् "इन्द्रं "कः पुरुषः "मंसते जानाति । वयमेव जानीमो नान्यः इत्यर्थः । एकः कः पूरकः । युद्धे सहायार्थमिन्द्रे अगते सति "कः यजमानः “तोकाय पुत्राय "अधि “ब्रवत् । हे इन्द्र अस्मदीयं पुत्रं रक्षेत्येवंरूपमधिवचनं पक्षपातेन वचनम् । ब्राह्मणायाधिब्रूयात्' इति यथा । एवंरूपमधिवचनं को यजमानः कुर्यात् । स्वयमेवेन्द्रो रक्षतीति भावः । "इभाय गजाय "कः अधि ब्रवत् । “उत अपि च “राये शत्रुभिरपह्रियमाणाय धनाय कः अधि ब्रवत् । अपह्रियमाणमस्मदीयं धनं रक्षेत्यधिवचनमपि को यजमानः कुर्यात् । न कोऽपीत्यर्थः । अपि च “तन्वे स्वकीयाय शरीराय "जनाय परिजनाय च “कः अधि ब्रवत् । स्वशरीररक्षार्थं परिजनरक्षार्थं चेन्द्रस्याधिवचनं नापेक्षितम् । स्तुत्या प्रीत इन्द्रः स्वयमेव रक्षतीत्यर्थः । यदा तु कशब्दाभिधेयस्य प्रजापतेः संबन्धिनि कर्मणि विनियोगः तदानीं परमैश्वर्ययोगादिन्द्रशब्देन प्रजापतिरेवाभिधीयते । यथा “ ऐन्द्र्या गार्हपत्यमुपतिष्ठते ' इति विनियोगानुसारेण कदा चन ' इत्यस्यामृचि विद्यमान इन्द्रो गार्हपत्यपरतया नीयते तद्वत् ।। ईषते । ईष गतिहिंसादर्शनेषु' । भौवादिक आत्मनेपदी । तुज्यते । “ तुज हिंसायाम् । कर्मणि यक् । अदुपदेशात् लसार्वधातुकानुदात्तत्वे यक एव स्वरः शिष्यते । “अतिङः' इति पर्युदासात् निघाताभावः। मंसते। लेटि अडागमः । ‘ सिब्बहुलं लेटि' इति सिप् । अन्ति । अन्तिकस्य कादिलोपो बहुलम्' इति कलोपः । ब्रवत् । ब्रवीतेर्लेटि अडागमः । तन्वे । तनुशब्दाच्चतुर्थ्येकवचने ‘ जसादिषु च्छन्दसि वावचनम् ' इति • घेर्ङिति' इति गुणाभावे यणादेशः । ‘ उदात्तस्वरितयोर्यणः० ' इति विभक्तेः स्वरितत्वम् ॥
 
 
Line ३१८ ⟶ ३३२:
 
कस्मै । देवाः । आ । वहान् । आशु । होम । कः । मंसते । वीतिऽहोत्रः । सुऽदेवः ॥१८
 
“कः यजमानः "अग्निम् "ईट्टे इन्द्रार्थं हविर्निरुप्याग्निं स्तौति । इन्द्राय हविर्निर्वापोऽपि सम्यक्कर्तुं न शक्यते । इन्द्रस्य दुर्विज्ञानत्वात् । को वा इन्द्रयागर्थमग्निं स्रुचा जुह्वा “ध्रुवेभिः ध्रुवैर्नित्यैः “ऋतुभिः वसन्तदकालैरुपलक्षितेन “घृतेन "हविषा “यजातै यजेत् । यद्वा । ऋतवः प्रयाजदेवताः । ‘ऋतवो वै प्रयाजाः' ( तै.सं.१.६.११.५ ) इति श्रुतेः । ताभिः ध्रुवैः प्रकृतौ विकृतौ च अनुष्ठेयतया निश्चलैर्ऋतुभिः सह अग्निमाज्यभागदेवतां घृतेन हविषा को यजेत् । न कोऽपीत्यर्थः । "कस्मै यजमानाय “होम ह्वातव्यं प्रशस्यं धनम् "आशु शीघ्रं “देवाः “आ “वहान् आवहन्ति प्रयच्छन्ति । न कस्मा अपीत्यर्थः । इन्द्र एव धनस्य दाता नान्ये देवा इति इन्द्रः स्तूयते। “वीतिहोत्रः प्राप्तयज्ञः “सुदेवः शोभनदेवताकः “कः यजमानः "मंसते इन्द्रं सम्यग्जानाति । न कोऽपीत्यर्थः । बहुविधेन स्तोत्रेण चिरकालोपासनेन चेन्द्रः प्रत्यक्षो भवति नान्येन प्रकारेणेति तात्पर्यार्थः ॥ ईट्टे ।' ईड स्तुतौ । अदादित्वात् शपो लुक् । स्रुचा ।' सावेकाचः ' इति विभक्तेरुदात्तत्वम् । यजातै । यजतेर्लेटि आडागमः । वैतोऽन्यत्र ' इति ऐकारः । वहान् । वहतेर्लेटि आडागमः । ‘ इतश्च लोपः० ' इति इकारलोपः । ‘ संयोगान्तस्य° ' इति तकारलोपः । होम । ह्वयतेः कृतात्वस्य ‘ अतो मनिन् ' इति मनिन् । ह्वः' इत्यनुवृत्तौ ‘ बहुलं छन्दसि ' इति संप्रसारणम् । यद्वा । ‘ नामन्सीमन्°' ( उ. सू. ४. ५९० ) इत्यादौ होमञ्शब्दो मनिन्प्रत्ययान्तो निपात्यते । मंसते । “ मन ज्ञाने'। लेटि अडागमः। ‘ सिब्बहुलं लेटि' इति सिप् । वीतिहोत्रः । वी गत्यादिषु । अस्मात् कर्मणि ' मन्त्रे वृष ' इत्यादिना क्तिन् स चोदात्तः । होत्रं होमः । ‘ हुयामाश्रुभसिभ्यस्त्रन् ' ( उ. सू. ४. ६०७ ) इति त्रन्प्रत्ययः। वीतिः प्राप्तो होमो येन । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुदेवः । नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम्॥
 
 
Line ३३१ ⟶ ३४७:
 
न । त्वत् । अन्यः । मघऽवन् । अस्ति । मर्डिता । इन्द्र । ब्रवीमि । ते । वचः ॥१९
 
अङ्ग इति अभिमुखीकरणे । "अङ्ग “शविष्ठ हे बलवत्तमेन्द्र "देवः द्योतमानः "त्वं मर्त्यं मरणधर्माणं त्वां स्तुतवन्तं पुरुषं “प्र “शंसिषः । सम्यगनेन स्तुतम् इति प्रशंस । हे "मघवन् धनवन “इन्द्र “त्वदन्यः त्वत्तोऽन्यः कश्चित् 'मर्डिता सुखयिता “न “अस्ति । अतः कारणात् "ते तुभ्यमिदं स्तुतिलक्षणं "वचः “ब्रवीमि उच्चारयामि ॥ शंसिषः । ‘ शंसु स्तुतौ '। लेटि सिपि अडागमः । ‘ सिब्बहुलं लेटि' इति विकरणश्च सिप् । तस्य अर्धधातुकत्वात् इडागमः। शविष्ठ । अतिशयेन शवस्वी शविष्ठः । इष्ठनि ‘ विन्मतोर्लुक्'। ‘ टेः ' इति टिलोपः । मर्ङिता । ‘मृड सुखने '। तृचः इडागमः ॥
 
 
Line ३४४ ⟶ ३६२:
 
विश्वा । च । नः । उपऽमिमीहि । मानुष । वसूनि । चर्षणिऽभ्यः । आ ॥२०
 
हे "वसो निवासयितरिन्द्र "ते तव संबन्धीनि राध्नोत्येभिरिति "राधांसि भूतानि “अस्मान् “कदा “चन कदाचिदपि “मा "दभन् "मा विनाशयन्तु। तथा “ऊतयः गन्तारः । यद्वा । धूतयः' इत्यत्र वर्णलोपः । धूतयः कम्पयितारः “ते त्वदीया मरुतश्च मा दभन् । हे "मानुष मनुष्यहितेन्द्र “चर्षणिभ्यः मन्त्रद्रष्टृभ्यः "नः अस्मभ्यं "विश्वा विश्वानि सर्वाणि "वसूनि धनानि "च “आ “उपमिमीहि सर्वत आहृत्यास्मत्समीपे कुरु। सर्वत्र वर्तमानं धनमस्मभ्यं प्रयच्छेत्यर्थः ॥ कदा । किंशब्दात् ‘सर्वैकान्यकिंयत्तदः काले दा' (पा.सू. ५.३, १५) इति दाप्रत्ययः। ‘किमः कः' इति कादेशः। व्यत्ययेन आद्युदात्तत्वम्। दभन्। ‘ दम्भु दम्भे'। लोडर्थे छान्दसे लङि ‘बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘न माङ्योगे ' इति अडभावः । मिमीहि । माङ् माने शब्दे च । व्यत्ययेन परस्मैपदम् । जुहोत्यादित्वात् श्लुः । ‘भृञामित्' इति अभ्यासस्य इत्वम् । हेर्ङित्त्वात् घुमास्था' इति ईत्वम् ॥ ८॥ ॥ १३ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८४" इत्यस्माद् प्रतिप्राप्तम्