"आश्वलायन श्रौतसूत्रम्/अध्यायः ४" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १५:
स्पृष्ट्वोदकं प्रवर्ग्येण चरिष्यत्सूत्तरेण खरं परिव्रज्य पश्चादस्योपविश्य प्रेषितोऽभिष्टुयादृगावानं १ ऋचमृचमनवानमुक्त्वा प्रणुत्यावस्येत् २ ब्रह्म-जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आ वः । सबुÞया उप मा अस्य विष्ठाः सतश्च योनिमसतश्च विवः । इयं पित्रे राष्ट्र्येत्यग्रे प्रथमाय जनुषे भूम-नेष्ठाः । तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्ति प्रथमस्य धासेः । महान्मही अस्तभायद्विजातो द्यां पिता सद्म पार्थिवञ्च रजः । सबुध्नादाष्ट जनुषाऽभ्युग्नं बृहस्पतिर्देवता तस्य सम्राट् । अभि त्यं देवं सवितारमोण्योः कविक्रतुमर्चामि सत्यसवं रत्नधामभिप्रियं मतिङ्कविम् । ऊर्ध्वा यस्या मतिर्भा अदिद्युतत् सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वस्तृपा स्वरिति वा । संसीदस्व महाँ असीति संसाद्यमाने । अञ्जन्ति यं प्रथयन्तो न विप्रा इत्यज्यमाने । पतङ्गमक्तमसुरस्य मायया यो नः स नुत्यो अभिदासदग्ने भवा नो अग्ने सुमना उपेताविति द्वृचाः । कृणुष्व पाजः प्रसितिं न पृथ्वीमिति पञ्च परि त्वा गिर्वणो गिरोऽधि द्वयोरदधा उक्थं वचः शुक्रन्ते अन्यद्यजतन्ते अन्यदपश्यङ्गोपामनिपद्यमानं स्रक्के
[[File:धवित्र होमम् Dhavitra Homam.ogg|thumb|धवित्र होमम् Dhavitra Homam]]
|