"कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः १८" इत्यस्य संस्करणे भेदः

{{header | title = कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौत... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ८:
| notes = चयनम्
}}
<poem><span style="font-size: 14pt; line-height: 200%">शतरुद्रियहोम उत्तरपक्षस्याऽपरस्यां स्रक्त्यां परिश्रित्स्वर्कपर्णेनाऽर्ककाष्ठेन शातयन्त्सन्ततं जर्तिलमिश्रान्गवेधुकासक्तूनजाक्षीरमेके तिष्ठन्नुदङ् नमस्त इत्यध्यायेन १ त्र्यनुवाकान्ते स्वाहाकारो जानुमात्रे २ पञ्चान्ते च नाभिमात्रे ३ प्राक्च प्रत्यवरोहेभ्यो मुइखमात्रे ४ प्रतिलोमं प्रत्यवरोहाञ्जुहोति प्रमाणेषु नमोऽस्त्विति प्रतिमन्त्रम् ५ हवने प्रास्यति चात्वाले ६ १ 18.1
 
चित्यं परिषिंचत्यग्नीद्दक्षिणे निकक्षेऽद्रिं कृत्वाऽश्मन्नूर्जमित्यद्रे रधि १ अश्मंस्ते क्षुदित्यद्रौ कुम्भं कृत्वा मयि त ऊर्गित्यादाय २ एवं द्विरपरम् ३ तावत्प्रतिपर्येति ४ कुम्भेऽद्रिं कृत्वा दक्षिणस्यां वेदिश्रोणौ प्राङ् तिष्ठन् दक्षिणाऽस्यति यं द्विष्म इति ५ अभिन्ने भेत्तवै ब्रूयात् ६ कुम्भे भेदनं सामर्थ्यात् ७ अश्मनि वाऽर्थवादात् ८ वाच्यत्वाच्च ९ अनपेक्षमेत्यो-दङ्प्राङ् तिष्ठन्नात्मन उपरि प्रापणान्ते जपतीमा मऽ इति १० मण्डूकावकावेतसशाखा वेणौ बद्ध्वाऽवकर्षति मन्त्रकृष्टवत्समुद्र स्य त्वेति प्रत्यृचम् ११ पक्षपुच्छानि चाभ्यात्ममग्ने पावक रोचिषेति १२ अन्त्यमुत्तरम् १३ वेणुमुत्करे कृत्वा चित्यमालभ्य तिष्ठन् १४ २ 18.2
पङ्क्तिः २१:
वातहोमान्जुहोत्यंजलिनाऽऽहृत्य पुरस्ताद्बहिर्वेदेरधो दक्षिणस्यां धुर्युत्तरतः उत्तरस्यां दक्षिणस्यां दक्षिणतः दक्षिणाप्रष्टेः समुद्रो ऽसीति प्रतिमन्त्रम् १ योक्त्रपरिहरणं च सर्वत्र २ प्रगृह्याध्वर्योरावसथहरणम् ३ दक्षिणाकाले-ऽध्वर्यवे ददाति ४ अश्वांश्च ५ नव जुहोति यास्त इति प्रतिमन्त्रम् ६ जानन्ब्राह्मणोक्ता जुहुयाद्वा ७ हविर्धानप्रक्षालनाद्याग्नीध्रालम्भनात्कृत्वा धिष्ण्यांश्चिनोत्यष्टेष्टकाँ ल्लोकम्पृणाभिश्चतुःस्रक्तींस्तिरश्चो न्युप्य न्युप्य ८ पृश्न्यश्मा चाग्नीध्रीये ९ सकृन्मन्त्रवचनम् १० होत्रीये त्रिरेकविंशत्या ११ ब्राह्मणाच्छंस्ये द्विरेकादशसु षण्मार्जालीये १२ शेषा अष्टेष्टकाः १३ यावदिष्टकं परिश्रितः परिनिधाय १४ पुरीषं च तूष्णीम् १५ अनुदेशाद्या पुरोडाशस्विष्टकृतोऽभिषेचनीयवत् १६ अग्नियोजनम्प्रातरनुवाकमुपा-करिष्यन्परिधीनालम्भ्य यथापूर्वमग्निं युनज्मीति प्रत्यृचम् १७ अग्निमारुत-स्तोत्रस्य पुरस्ताद्विमोचनं परिधिषन्ध्योर्दिवो मूर्धेति प्रत्यृचम् १८ प्रायणीयातिरात्रे युक्त्वोदयनीये विमोकमेके १९ अध्वरसमिष्टयजुरन्त इष्टो यज्ञ इति प्रत्यृचमपरे २० पशुपुरोडाशमन्वनूबन्धस्य देविकाहवींषि निर्वपति यजप्रैषाणि २१ अनुमतिराकासिनीवालीकुहूभ्यश्चरवो धात्रे द्वादशकपालः सर्वहुतः २२ हृदयशूलान्ते स्रुवाहुतीर्जुहोति यदाकूतादिति प्रत्यृचमष्टौ २३ चित्रोऽसीति चित्यनाम कृत्वोपतिष्ठते येऽअग्नय इति २४ पयस्या मैत्रावरुणी तूपरमिथुनदक्षिणोदवसानीयाऽन्ते २५ वर्षत्यसरणमतः २६ पक्ष्यभोजनम् २७ सवर्णोपायी २८ द्वितीये स्वामेव २९ तृतीये न कांचन ३० यावज्जीवं व्रतान्यविशेषात् ३१ संवत्सरं वा कालस्यानव-स्थितत्वात् ३२ तद्व्रतश्रुतेश्च ३३ चित्याशक्तौ पुनः सोमेज्यायां स्वय-मातृण्णाविश्वज्योतिरृतव्यानामन्यतमाः ३४ पुनश्चितिम् ३५ अचयनं वाऽचित्यस्याऽहवनीयाऽभिसम्पत्तेः ३६ ६ 18.6
 
</span></poem>