"ऋग्वेदः सूक्तं ७.५७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. मरुतः। त्रिष्टुप्।
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति ।
ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ॥१॥
Line २७ ⟶ २४:
ये नस्त्मना शतिनो वर्धयन्ति यूयं पात स्वस्तिभिः सदा नः ॥७॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
 
मध्वो॑ वो॒ नाम॒ मारु॑तं यजत्रा॒ः प्र य॒ज्ञेषु॒ शव॑सा मदन्ति ।
 
ये रे॒जय॑न्ति॒ रोद॑सी चिदु॒र्वी पिन्व॒न्त्युत्सं॒ यदया॑सुरु॒ग्राः ॥१
 
मध्वः॑ । वः॒ । नाम॑ । मारु॑तम् । य॒ज॒त्राः॒ । प्र । य॒ज्ञेषु॑ । शव॑सा । म॒द॒न्ति॒ ।
 
ये । रे॒जय॑न्ति । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । पिन्व॑न्ति । उत्स॑म् । यत् । अया॑सुः । उ॒ग्राः ॥१
 
मध्वः । वः । नाम । मारुतम् । यजत्राः । प्र । यज्ञेषु । शवसा । मदन्ति ।
 
ये । रेजयन्ति । रोदसी इति । चित् । उर्वी इति । पिन्वन्ति । उत्सम् । यत् । अयासुः । उग्राः ॥१
 
 
नि॒चे॒तारो॒ हि म॒रुतो॑ गृ॒णन्तं॑ प्रणे॒तारो॒ यज॑मानस्य॒ मन्म॑ ।
 
अ॒स्माक॑म॒द्य वि॒दथे॑षु ब॒र्हिरा वी॒तये॑ सदत पिप्रिया॒णाः ॥२
 
नि॒ऽचे॒तारः॑ । हि । म॒रुतः॑ । गृ॒णन्त॑म् । प्र॒ऽने॒तारः॑ । यज॑मानस्य । मन्म॑ ।
 
अ॒स्माक॑म् । अ॒द्य । वि॒दथे॑षु । ब॒र्हिः । आ । वी॒तये॑ । स॒द॒त॒ । पि॒प्रि॒या॒णाः ॥२
 
निऽचेतारः । हि । मरुतः । गृणन्तम् । प्रऽनेतारः । यजमानस्य । मन्म ।
 
अस्माकम् । अद्य । विदथेषु । बर्हिः । आ । वीतये । सदत । पिप्रियाणाः ॥२
 
 
नैताव॑द॒न्ये म॒रुतो॒ यथे॒मे भ्राज॑न्ते रु॒क्मैरायु॑धैस्त॒नूभि॑ः ।
 
आ रोद॑सी विश्व॒पिश॑ः पिशा॒नाः स॑मा॒नम॒ञ्ज्य॑ञ्जते शु॒भे कम् ॥३
 
न । ए॒ताव॑त् । अ॒न्ये । म॒रुतः॑ । यथा॑ । इ॒मे । भ्राज॑न्ते । रु॒क्मैः । आयु॑धैः । त॒नूभिः॑ ।
 
आ । रोद॑सी॒ इति॑ । वि॒श्व॒ऽपिशः॑ । पि॒शा॒नाः । स॒मा॒नम् । अ॒ञ्जि । अ॒ञ्ज॒ते॒ । शु॒भे । कम् ॥३
 
न । एतावत् । अन्ये । मरुतः । यथा । इमे । भ्राजन्ते । रुक्मैः । आयुधैः । तनूभिः ।
 
आ । रोदसी इति । विश्वऽपिशः । पिशानाः । समानम् । अञ्जि । अञ्जते । शुभे । कम् ॥३
 
 
ऋध॒क्सा वो॑ मरुतो दि॒द्युद॑स्तु॒ यद्व॒ आग॑ः पुरु॒षता॒ करा॑म ।
 
मा व॒स्तस्या॒मपि॑ भूमा यजत्रा अ॒स्मे वो॑ अस्तु सुम॒तिश्चनि॑ष्ठा ॥४
 
ऋध॑क् । सा । वः॒ । म॒रु॒तः॒ । दि॒द्युत् । अ॒स्तु॒ । यत् । वः॒ । आगः॑ । पु॒रु॒षता॑ । करा॑म ।
 
मा । वः॒ । तस्या॑म् । अपि॑ । भू॒म॒ । य॒ज॒त्राः॒ । अ॒स्मे इति॑ । वः॒ । अ॒स्तु॒ । सु॒ऽम॒तिः । चनि॑ष्ठा ॥४
 
ऋधक् । सा । वः । मरुतः । दिद्युत् । अस्तु । यत् । वः । आगः । पुरुषता । कराम ।
 
मा । वः । तस्याम् । अपि । भूम । यजत्राः । अस्मे इति । वः । अस्तु । सुऽमतिः । चनिष्ठा ॥४
 
 
कृ॒ते चि॒दत्र॑ म॒रुतो॑ रणन्तानव॒द्यास॒ः शुच॑यः पाव॒काः ।
 
प्र णो॑ऽवत सुम॒तिभि॑र्यजत्रा॒ः प्र वाजे॑भिस्तिरत पु॒ष्यसे॑ नः ॥५
 
कृ॒ते । चि॒त् । अत्र॑ । म॒रुतः॑ । र॒ण॒न्त॒ । अ॒न॒व॒द्यासः॑ । शुच॑यः । पा॒व॒काः ।
 
प्र । नः॒ । अ॒व॒त॒ । सु॒म॒तिऽभिः॑ । य॒ज॒त्राः॒ । प्र । वाजे॑भिः । ति॒र॒त॒ । पु॒ष्यसे॑ । नः॒ ॥५
 
कृते । चित् । अत्र । मरुतः । रणन्त । अनवद्यासः । शुचयः । पावकाः ।
 
प्र । नः । अवत । सुमतिऽभिः । यजत्राः । प्र । वाजेभिः । तिरत । पुष्यसे । नः ॥५
 
 
उ॒त स्तु॒तासो॑ म॒रुतो॑ व्यन्तु॒ विश्वे॑भि॒र्नाम॑भि॒र्नरो॑ ह॒वींषि॑ ।
 
ददा॑त नो अ॒मृत॑स्य प्र॒जायै॑ जिगृ॒त रा॒यः सू॒नृता॑ म॒घानि॑ ॥६
 
उ॒त । स्तु॒तासः॑ । म॒रुतः॑ । व्य॒न्तु॒ । विश्वे॑भिः । नाम॑ऽभिः । नरः॑ । ह॒वींषि॑ ।
 
ददा॑त । नः॒ । अ॒मृत॑स्य । प्र॒ऽजायै॑ । जि॒गृ॒त । रा॒यः । सू॒नृता॑ । म॒घानि॑ ॥६
 
उत । स्तुतासः । मरुतः । व्यन्तु । विश्वेभिः । नामऽभिः । नरः । हवींषि ।
 
ददात । नः । अमृतस्य । प्रऽजायै । जिगृत । रायः । सूनृता । मघानि ॥६
 
 
आ स्तु॒तासो॑ मरुतो॒ विश्व॑ ऊ॒ती अच्छा॑ सू॒रीन्स॒र्वता॑ता जिगात ।
 
ये न॒स्त्मना॑ श॒तिनो॑ व॒र्धय॑न्ति यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥७
 
आ । स्तु॒तासः॑ । म॒रु॒तः॒ । विश्वे॑ । ऊ॒ती । अच्छ॑ । सू॒रीन् । स॒र्वऽता॑ता । जि॒गा॒त॒ ।
 
ये । नः॒ । त्मना॑ । श॒तिनः॑ । व॒र्धय॑न्ति । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७
 
आ । स्तुतासः । मरुतः । विश्वे । ऊती । अच्छ । सूरीन् । सर्वऽताता । जिगात ।
 
ये । नः । त्मना । शतिनः । वर्धयन्ति । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७
 
}}
 
{{ऋग्वेदः मण्डल ७}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५७" इत्यस्माद् प्रतिप्राप्तम्