"ऋग्वेदः सूक्तं १०.४७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
 
{{सायणभाष्यम्|
‘जगृभ्मा ते' इत्यष्टर्चं पञ्चमं सूक्तमाङ्गिरसस्य सप्तगुनाम्न आर्षं त्रैष्टुभम् । विकुण्ठा नाम असुरस्त्री। सा चेन्द्रसदृशं पुत्रं कामयमाना कृच्छ्रचान्द्रायणादिकं तपस्तेपे । मत्सदृशोऽन्यः कश्चिन्मा जनिष्टेति बुद्ध्येन्द्र एव तस्याः पुत्रोऽजायत । तादृशो वैकुण्ठ इन्द्रो देवता। तथा चानुक्रान्तं -- ‘ जगृभ्माष्टौ सप्तगुर्वैकुण्ठमिन्द्रं तुष्टाव ' इत्यादि । गतो विनियोगः ॥
 
 
ज॒गृ॒भ्मा ते॒ दक्षि॑णमिन्द्र॒ हस्तं॑ वसू॒यवो॑ वसुपते॒ वसू॑नाम् ।
Line ४१ ⟶ ४३:
 
विद्म । हि । त्वा । गोऽपतिम् । शूर । गोनाम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥१
 
“वसूनां “वसुपते बहूनां धनानां स्वामिन् हे “इन्द्र “ते तव “दक्षिणं "हस्तं “वसूयवः वसुकामा वयं “जगृभ्म गृह्णीमः । यथा बहुप्रदस्यार्थिनो मह्यमदत्त्वा न गन्तव्यमिति हस्तं गृह्णन्ति तद्वत् । हे "शूर विक्रान्तेन्द्र “त्वा त्वां “गोनां “गोपतिम् । अत्र वृत्त्यवृत्तिभ्यां स्वामित्वं बहुत्वं च प्रतिपाद्यते । बह्वीनां गवां गोपतिं “विद्म जानीमः । अतः “अस्मभ्यं “चित्रं चायनीयं “वृषणं वर्षकं “रयिं धनं “दाः देहि ॥
 
 
Line ५४ ⟶ ५८:
 
चर्कृत्यम् । शंस्यम् । भूरिऽवारम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥२
 
“स्वायुधं शोभनवज्राद्यायुधं “स्ववसं शोभनरक्षणं सुगमनं वा “सुनीथं सुनयनं “चतुःसमुद्रं चतुरः समुद्रान् यो यशसा व्याप्नोति तं “धरुणं धारकम् । केषाम् । “रयीणां धनानाम् । “चर्कत्यं पुनःपुनः कर्तव्यं “शंस्यं स्तुत्यं “भूरिवारं भूरीणां दुःखानां वारकं बहुभिर्वरणीयं वा त्वां विद्मेति शेषः । तादृशोऽस्मभ्यमित्यादि पूर्ववत् । यद्वा । हे इन्द्र उक्तगुणविशिष्ट पुत्राख्यं रयिं दाः देहि ॥
 
 
Line ६७ ⟶ ७३:
 
श्रुतऽऋषिम् । उग्रम् । अभिमातिऽसहम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥३
 
हे “इन्द्र त्वं “सुब्रह्माणम् । ब्रह्म परिवृढं स्तुतिलक्षणं कर्म । शोभनस्तुतिकमित्यर्थः। “देववन्तं “बृहन्तं महान्तम् “उरुं विस्तीर्णं “गभीरम् असुरादिभिरगम्यं पृथुबुध्नं विस्तृतमूलं “श्रुतऋषिं श्रुता ऋषयो येन तादृशमृषीणां ख्यापयितारं प्रथितज्ञानं वा “उग्रम् उद्गूर्णबलमत एव “अभिमातिषाहम् अभिमातीनां शत्रूणामभिभवितारं हन्तारम् “अस्मभ्यं “चित्रं पूज्यं “वृषण वर्षकं पुत्रं “रयिं धनं च “दाः देहि । अथवा विशेषणविशेष्यभावः । उक्तलक्षणं पुत्राख्यं रयिं दाः ॥
 
 
Line ८० ⟶ ८८:
 
दस्युहनम् । पूःऽभिदम् । इन्द्र । सत्यम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥४
 
“सनद्वाजं लब्धान्नं विप्रवीरं मेधाविनं पुत्रं “तरुत्रं तारकं “धनस्पृतं धनानां पूरकं स्प्रष्टारं वा । स्पृणोतेः स्पृशतेर्वोत्तरपदम्। “शूशुवांसं वर्धमानं “सुदक्षं शोभनबलं “दस्युहनं शत्रूणां हन्तारं “पूर्भिदं शत्रूणां पुरां भेत्तारं “सत्यं सत्यकर्माणम् । शिष्टमुक्तम् ॥
 
 
Line ९३ ⟶ १०३:
 
भद्रऽव्रातम् । विप्रऽवीरम् । स्वःऽसाम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥५
 
“अश्वावन्तं बहुभिरश्वैरुपेतं “रथिनं रथवन्तं “वीरवन्तं वीरैः पुरुषैरुपेतं "सहस्रिणं सहस्रवन्तं “शतिनं शतवन्तम् । असंख्यातगवादियुक्तमित्यर्थः। “भद्रव्रातं भद्रगणं कल्याणसेवकैः परिवृतं “विप्रवीरं विप्रैर्वीरैश्चोपेतं "स्वर्षां सर्वस्य संभक्तारं “वाजं बलवन्तं हे "इन्द्र । शिष्टमुक्तम् ॥ ॥३॥
 
 
Line १०६ ⟶ ११८:
 
यः । आङ्गिरसः । नमसा । उपऽसद्यः । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥६
 
“सप्तगुं मां “मतिः स्तुतिदेवविषया “अच्छा “जिगाति अभिगच्छति । कीदृशं सप्तगुम् । “ऋतधीतिं सत्यकर्माणं “सुमेधां शोभनप्रज्ञं बृहस्पतिं बृहतो मन्त्रस्य स्वामिनम्। “यः सप्तगुः “आङ्गिरसः अङ्गिरोगोत्रोत्पन्नोऽहं “नमसा नमस्कारेण देवान् “उपसद्यः उपगतः । यद्वा । नमसान्नेनोपसद्य उपसदनीयः । देवैरनुग्राह्य इत्यर्थः । तादृशाय “अस्मभ्यं मह्यं “चित्रं “वृषणं "रयिं "दाः॥
 
 
Line ११९ ⟶ १३३:
 
हृदिऽस्पृशः । मनसा । वच्यमानाः । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥७
 
“वनीवानः वननवन्तः । ‘ छन्दसीवनिपौ ' इति मत्वर्थीयो वनिप् । “मम सप्तगोः “दूतासः दूतसदृशा दूता यथा भर्तुरभिमतार्थं प्रापणीयं प्रापयन्ति तद्वत्स्तुत्यान् गुणान् प्रापयन्तः “स्तोमा: स्तवाः “सुमतीः तस्येन्द्रस्यास्मद्विषया अनुकूला बुद्धीः "इयानाः याचमानाः “इन्द्रं चरन्ति प्राप्नुवन्ति । पुनश्च त एव विशेष्यन्ते । "हृदिस्पृशः हृदये स्पृशन्तः । स्तुत्यस्य प्रियभूता इत्यर्थः । ‘ हृद्द्युभ्यां ङेरुपसंख्यानम्' इति सप्तम्या अलुक् । “मनसा सत्त्वोद्रिक्तेन “वच्यमानाः उच्यमानाः । अस्मभ्यमित्यादि गतम् ॥
 
 
Line १३२ ⟶ १४८:
 
अभि । तत् । द्यावापृथिवी इति । गृणीताम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥८
 
हे “इन्द्र “त्वा त्वां “यत् वक्ष्यमाणं “यामि याचामि । वर्णलोपश्छान्दसः । याच्यमानं तत् “दद्धि देहि। ‘ दद दाने '। लोटि व्यत्ययेन परस्मैपदम्। 'बहुलं छन्दसि ' इति शपो लुक् । तदिति सामान्येन निर्दिष्टं विशेषयति । “बृहन्तं महान्तं “क्षयं निवासं “जनानाम् अन्येषाम् “असमम् असाधारणं देहि । त्वया दातव्यं “द्यावापृथिवी “अभि “गृणीताम् । अस्मभ्यमित्यादि गतम् ॥॥४॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४७" इत्यस्माद् प्रतिप्राप्तम्