"ऋग्वेदः सूक्तं १०.५६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
 
{{सायणभाष्यम्|
‘ इदं ते ' इति सप्तर्चं चतुर्दशं सूक्तम् । वामदेवपुत्रो बृहदुक्थ ऋषिः । चतुर्थीपञ्चमीषष्ठ्यो जगत्यः । आदितस्तिस्रः सप्तमी च त्रिष्टुभः । विश्वे देवा देवता । तथा चानुक्रान्तम् - इदं ते सप्त वैश्वदेवं तु चतुर्थ्याद्यास्तिस्रो जगत्य: ' इति । गतः सूक्तविनियोगः । आहवनीये वाय्वादिकारणेनायतनान्निष्क्रम्य शम्यापरासादर्वाचीने देशे दीप्यमाने सति तमग्निमनया पुनरायतने संवपेत् । सूत्रितं च - ‘ आहवनीयमवदीप्यमानमर्वाक् शम्यापरासादिदं त एकं पर ऊ त एकमिति संवपेत् । (आश्व. श्रौ. ३. १०) इति ॥
 
 
इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ सं वि॑शस्व ।
Line ४० ⟶ ४२:
 
सम्ऽवेशने । तन्वः । चारुः । एधि । प्रियः । देवानाम् । परमे । जनित्रे ॥१
 
एतदादिभिर्बृहदुक्थो वाजिनं नाम स्वपुत्रं मृतं वदति । हे मृत पुत्र “ते तव “इदम् । उपरि ज्योतिषेति वक्ष्यमाणत्वादत्रेदंशब्देन ज्योतिरभिधीयते । इदं ज्योतिरग्न्याख्यम् “एकम् एकोंऽशः । अतस्तमग्निं तव देहगताग्न्यंशेन बाह्यमग्निं “सं “विशस्व संगच्छस्व । तथा “पर “उ अन्योऽपि “ते तत्र “एकं वाय्वावाख्योंऽशः ते तव प्राणवाय्वाख्येनांशेन से विशस्व । शरीराग्निप्राणवाय्वोर्बाह्याग्निवाय्वो श्चैकत्वादंशत्वमिति भावः । तथा “तृतीयेन “ज्योतिषा आदित्याख्येन तेजसा तवात्मना सं विशस्व । सूर्यगतात्मचैतन्यदेहगतात्मचैतन्ययोरभेदादंशत्वम् । तत् योऽहं सोऽसौ योऽसौ सोऽहं ‘ सूर्य आत्मा जगतस्तस्थुषश्च ' ( ऋ. सं. १.११५.१ ) इति श्रुतेरात्मनः सूर्यप्रवेशो युक्तः । “तन्वः तन्वा: “संवेशने तस्मिन्सूर्ये संविश्य “चारुरेधि कल्याणो भव । कीदृशस्त्वम् । “प्रियः तेन सह प्रीयमाणः । कीदृशे तस्मिन् ।"देवानां “परमे उत्तमे “जनित्रे जनके। देवानां ह्येतत्परमं जनित्रं यत्सूर्यः' इति हि श्रुतिः ॥
 
 
Line ५३ ⟶ ५७:
 
अह्रुतः । महः । धरुणाय । देवान् । दिविऽइव । ज्योतिः । स्वम् । आ । मिमीयाः ॥२
 
हे “वाजिन् एतन्नामक पुत्र “ते तव “तन्वं शरीरं "नयन्ती स्वशरीरं प्रापयन्ती “तनूः इयं पृथिवी । उभयोरपि पार्थिवत्वात्तव शरीरस्य पृथिवीप्राप्तौ सत्यां तस्यास्तव शरीरनयनं युक्तम् । तादृशी पृथिवी “वामं वननीयं धनम् “अस्मभ्यं “धातु दधातु “शर्म च सुखं “तुभ्यं धातु दधातु । स त्वम् “अह्रुतः अनवपतितः सन् “महः महतः "देवान् तव कारणभूतान् “दिवीव “ज्योतिः द्युलोके वर्तमानं सूर्यं च । इवशब्दश्चार्थे निपातानामनेकार्थत्वात् । तं च “स्वं तव स्वभूतम् “आ “मिमीयाः आविश ॥
 
 
Line ६६ ⟶ ७२:
 
सुवितः । धर्म । प्रथमा । अनु । सत्या । सुवितः । देवान् । सुवितः । अनु । पत्म ॥३
 
हे पुत्र त्वं “वाजिनेन अन्नरसेन बलेन वा “वाज्यसि तद्वान् भवसि । कीदृशस्त्वम् । “सुवेनीः सुष्ठु कान्तः । वी गत्यादिषु । तादृशस्त्वं “सुवितः सुष्ठु प्रेरितस्त्वं “स्तोमं पूर्वं त्वया कृतं स्तोत्रं तदभिमानिदेवम् “अनु “गाः अन्वगा: अनुगच्छ । तथा “सुवितो “दिवं गाः । तथा “सुवितो “धर्मं त्वया संपादितानि धर्माण्यनुगच्छ । कीदृशानि । “प्रथमा मुख्यानि “सत्या सत्यफलानि । तथा “सुवितो “देवान् इन्द्रादीन् । तथा “सुवितः "पत्म पतज्ज्योतिरादित्याख्यम् “अनु गाः ॥
 
 
Line ७९ ⟶ ८७:
 
सम् । अविव्यचुः । उत । यानि । अत्विषुः । आ । एषाम् । तनूषु । नि । विविशुः । पुनरिति ॥४
 
“पितरश्चन अस्मत्पितरोऽप्यङ्गिरसः “एषां देवानां “महिम्नः महत्व्“स्य “ईशिरे ईश्वरा अभवन् । ते “देवाः “अपि देवत्वं प्राप्ता अङ्गिरसः “देवेषु इन्द्रादिषु “क्रतुं संकल्पम् “अदधुः धृतवन्तः । "उत अपि च “यानि तेजांसि “अत्विषुः दीप्यन्ते तानि “समविव्यचुः संगता आसन् । “एषां देवानां “तनूषु शरीरेषु “नि “विविशुः निविशन्ति पितरोऽङ्गिरसः । अतस्त्वमपि तथा कुर्वित्यर्थः ॥
 
 
Line ९२ ⟶ १०२:
 
तनूषु । विश्वा । भुवना । नि । येमिरे । प्र । असारयन्त । पुरुध । प्रऽजाः । अनु ॥५
 
मदीयाः पितरः “सहोभिः बलैः स्वीयैः “विश्वं सर्वं “रजः लोकम् । ‘लोका रजांस्युच्यन्ते । इति निरुक्तम् । “पूर्वा पूर्वाणि “धामानि स्थानानि “अमिता अन्यैरमितानि “मिमानाः परिच्छिन्दन्तः “परि “चक्रमुः पर्यक्रामन् । किंच तथा कुर्वन्तः “विश्वा सर्वाणि “भुवना भूतजातानि “नि “येमिरे नियमितवन्तः । किंच “पुरुध पुरुधा बहुप्रकारं “प्रजा “अनु ज्योतींष्युदकानि वा “प्रासारयन्त प्रसारितवन्तः । अस्मपितरः पूर्वेऽङ्गिरसः स्वसामर्थ्येन सर्वं लोकं व्याप्य पुरातनानि ग्रहनक्षत्रादीनि परिच्छिद्य सर्वभूतानि नियम्य प्रजा अनूदकानि तेजांसि वा प्रसारितवन्त इत्यर्थः । अतस्त्वमप्येवं कुर्विति भावः ।।
 
 
Line १०५ ⟶ ११७:
 
स्वाम् । प्रऽजाम् । पितरः । पित्र्यम् । सहः । आ । अवरेषु । अदधुः । तन्तुम् । आऽततम् ॥६
 
"सूनवः आदित्यस्य पुत्रा देवा अङ्गिरसः । ‘ देवानां ह्येतत्परमं जनित्रं यत्सूर्यः' इति प्रदर्शितत्वादादित्यस्य सूनव इति गम्यते । “असुरं बलवन्तं “स्वर्विदं सर्वज्ञं स्वर्गस्य लम्भकं वादित्यं “तृतीयेन “कर्मणा प्रजोत्पत्त्याख्येन। ‘ ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' (तै. सं. ६. ३. १०. ५ ) इति श्रुतेः प्रजोत्पादनस्य तृतीयकर्मत्वम् । तेन आदित्यं “द्विधा “आस्थापयन्त द्विप्रकारमास्थापयन्ति । उदितं चास्तमितं च कुर्वन्ति ।' उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन्' (तै. सं. १. १. १३. १ ) इति मन्त्रस्य ब्राह्मणे ' असौ वा अदित्य उद्यनुद्ग्राभ एष निम्रोचन्निग्राभः' (तै. सं. ५. ४. ६. ६ ) इति श्रुतत्वाद्देवानामादिस्यस्य द्विःस्थापनमुदयास्तमयकरणमिति गम्यते । किंच “पितरः मदीया अङ्गिरसः “स्वां “प्रजाम् । उत्पाद्येति शेषः । “पित्र्यं “सहः पितुरादित्यस्य संबन्धिनमपराभिभवक्षमं बलम् ”अवरेषु “आ “दधुः निकृष्टेषु स्वप्रजाभूतेषु मनुष्येषु स्थापितवन्तः । यथा पित्र्यं धनं सम्यक् परिरक्ष्य स्वपुत्रेभ्यः प्रयच्छन्ति तद्वत्पितुरादित्यस्य प्रकाशादिबलं मनुष्येषु न्यदधुरित्यर्थः । किंच “तन्तुं प्रजाम् “आततं विततं कृतवन्त इति शेषः । पुत्रपौत्रादिरूपेणानवच्छिन्नां प्रजामित्यर्थः । ‘ अयं ह्यातततन्तुर्यत्प्रजाः' इति ब्राह्मणं ‘ प्रजातन्तुं मा व्यवच्छेत्सीः ' ( तै. आ. ७. ११. १ ) इति च । तन्तुं तन्वन्' ( ऋ. सं. १०. ५३. ६ ) इत्यस्य ब्राह्मणं ‘ प्रजा वै तन्तुः' ( ऐ. ब्रा. ३. ३८ ) इति ॥
 
 
Line ११९ ⟶ १३३:
स्वाम् । प्रऽजाम् । बृहत्ऽउक्थः । महिऽत्वा । आ । अवरेषु । अदधात् । आ । परेषु ॥७
 
“नावा “न उदकोत्तरणसाधनेनेव “क्षोदः उदकं यथा मनुष्या नावोदकमतितरन्ति यथा वा “स्वस्तिभिः क्षेमैः “विश्वा सर्वाणि “दुर्गाणि दुःखेन गन्तव्यान्यतितरन्ति तद्वत् “बृहदुक्थः “स्वां “प्रजां वाजिनं मृतं पुत्रं “महित्वा स्वमहत्त्वेन “अवरेषु अग्न्यादिषु “आ “अदधात् कृतवान् । तदा “परेषु दिव्येषु सूर्यादिष्वादधात् । एवमृषिर्ब्रूते स्वयमेव वा स्वात्मानं परोक्षेणाह ॥ ॥ १८ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५६" इत्यस्माद् प्रतिप्राप्तम्