"ऋग्वेदः सूक्तं १०.६६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४:
 
{{सायणभाष्यम्|
‘ देवान् हुवे ' इति पञ्चदशर्चं षष्ठं सूक्तम् । ऋष्याद्याः पूर्ववत् । “ देवान् हुवे ' इत्यनुक्रान्तम् । पृष्ठ्याभिप्लवषडहयोः पञ्चमेऽहनीदं वैश्वदेवनिविद्धानम् । सूत्रितं च -- इहेह व इति चतस्रो देवान् हुव ' इति वैश्वदेवम् ' (आश्व. श्रौ. ७, ५) इति ॥
 
 
दे॒वान्हु॑वे बृ॒हच्छ्र॑वसः स्व॒स्तये॑ ज्योति॒ष्कृतो॑ अध्व॒रस्य॒ प्रचे॑तसः ।
 
Line ५५ ⟶ ५८:
 
ये । ववृधुः । प्रऽतरम् । विश्वऽवेदसः । इन्द्रऽज्येष्ठासः । अमृताः । ऋतऽवृधः ॥१
 
"बृहच्छ्रवसः प्रभूतान्नान् “ज्योतिष्कृतः आदित्याख्यस्य तेजसः कर्तॄन् “प्रचेतसः प्रकृष्टज्ञानांस्तान् “देवान् “अध्वरस्य अस्य यज्ञस्य “स्वस्तये अविनाशाय निर्विघ्नेन यज्ञपरिसमाप्तये “हुवे आह्वयामि । “विश्ववेदसः सर्वधनाः “इन्द्रज्येष्ठासः। इन्द्रो ज्येष्ठः प्रधानो येषाम् । इन्द्रनेतृका इत्यर्थः । “अमृताः मरणधर्मरहिताः “ऋतावृधः यज्ञेन प्रवृद्धाः "ये देवाः “प्रतरम् अत्यन्तं “ववृधुः वर्धन्ते ॥
 
 
Line ६८ ⟶ ७३:
 
मरुत्ऽगणे । वृजने । मन्म । धीमहि । माघोने । यज्ञम् । जनयन्त । सूरयः ॥२
 
“इन्द्रप्रसूताः इन्द्रेण तत्तत्कार्येषु प्रेरिताः “वरुणप्रशिष्टाः वरुणेनानुशिष्टा अनुमोदिताः “ये मरुतः “ज्योतिषः द्योतमानस्य “सूर्यस्य स्वस्वकर्मणि सर्वस्य प्रेरकस्यामुष्यादित्यस्य “भागं भजनीयं लोकम् “आनशुः आनशिरे व्याप्तवन्तः । सूर्यमधिष्ठाय वर्तन्त इत्यर्थः । “वृजने शत्रूणां छेदके “माघोने मघवत इन्द्रस्य संबन्धिनि “मरुद्गणे तेषां मरुतां गणे “मन्म मननीयं स्तोत्रं “धीमहि दध्मः । कुर्मः। किंच “सूरयः प्राज्ञा यजमानास्तन्निमित्तमेव “यज्ञं “जनयन्त जनयन्ति । तेषां हविष्प्रदानाय कुर्वन्ति ।।
 
 
Line ८१ ⟶ ८८:
 
रुद्रः । रुद्रेभिः । देवः । मृळयाति । नः । त्वष्टा । नः । ग्नाभिः । सुविताय । जिन्वतु ॥३
 
“वसुभिः एतन्नामकैरष्टभिर्देवैः सहितः “इन्द्रः “नः अस्मदीयं “गयम्। गृहनामैतत् । प्राप्तव्यं गायते शब्द्यतेऽत्रेति वा गयं गृहम् । “परि “पातु परिरक्षतु । तथा “अदितिः देवमाता “आदित्यैः देवैः सह “नः अस्मभ्यं “शर्म सुखं प्रयच्छतु । किंवा “देवः दीप्यमानः “रुद्रो “रुद्रेभिः स्वपुत्रैः मरुद्भिः सह “नः अस्मान् “मृळयति सुखयतु । मृड सुखने ' । लेट्याडागमः । अपि वा “त्वष्टा प्रजापतिः “ग्नाभिः देवपत्नीभिश्छन्दोभिः “सुविताय सुष्ठु प्राप्तव्यायाभ्युदयाय “नः अस्मान् “जिन्वतु प्रीणयतु ॥
 
 
Line ९४ ⟶ १०३:
 
देवान् । आदित्यान् । अवसे । हवामहे । वसून् । रुद्रान् । सवितारम् । सुऽदंससम् ॥४
 
“अदितिर्द्यावापृथिवी द्यावापृथिव्यौ “महत् महान् “ऋतं सत्यभूतोऽग्निः “इन्द्राविष्णू “मरुतः च “बृहत् परिवृढः “स्वः आदित्यः एते देवाः सर्वत्र स्वमहिम्ना वर्तन्ते । एतान् “देवान् आदित्यादीन् “सुदंससं सुकर्माणं “सवितारम् एतन्नामानं च “अवसे रक्षणाय “हवामहे वयमाह्वयामहे ।।
 
 
Line १०७ ⟶ ११८:
 
ब्रह्मऽकृतः । अमृताः । विश्वऽवेदसः । शर्म । नः । यंसन् । त्रिऽवरूथम् । अंहसः ॥५
 
“धीभिः प्रज्ञाभिर्युक्तः “सरस्वान् एतन्नामा “धृतव्रतः धृतकर्मा “वरुणः च “पूषा “महिमा महत्त्वेन युक्तः “विष्णुः च “वायुः “अश्विना अश्विनौ “ब्रह्मकृतः कर्मकृतः स्तोतॄणामन्नदातारो वा “विश्ववेदसः सर्वधना व्याप्तज्ञाना वा “अंहसः पापरूपाणां शत्रूणां हन्तार: “अमृताः एते देवाः “नः अस्मभ्यं “त्रिवरूथं त्रिष्कम्भं त्रिकक्ष्यं “शर्म गृहम् । यद्वा । त्रिवरूथम् । द्रोणाधवनीयपृतभृत्संज्ञकानि त्रीणि पात्राणि यत्र व्रियन्ते संभज्यन्ते तद्यज्ञसाधनं गृहम् । “यंसन् प्रयच्छन्तु । यच्छतेर्लेटि सिप्यडागमः ॥ ॥ १२ ॥
 
 
Line १२० ⟶ १३३:
 
वृषणा । द्यावापृथिवी इति । ऋतवरी इत्यृतऽवरी । वृषा । पर्जन्यः । वृषणः । वृषऽस्तुभः ॥६
 
“यज्ञः एषोऽस्मदीयः “वृषा कामानां वर्षितास्तु । तथा “यज्ञियाः यज्ञार्हा देवाश्च “वृषणः “सन्तु । किंच “देवाः स्तुतिकारिण ऋत्विजः “वृषणः धनवर्षणे कारणानि सन्तु साधुस्तुतिकरणेन । तथा “हविष्कृतः हविषां कर्तारोऽध्वर्वाः दयः “वृषणः अव्यग्रतया मन्त्रसाहित्येन च हविष्प्रदानेन । अपि च “ऋतावरी यज्ञवत्यौ “द्यावापृथिवी द्यावापृथिव्यौ “वृषणा हविरुत्पादनेन कामानां वर्षयित्र्यौ भवताम् । तथा “पर्जन्यः इन्द्रः “वृषा अपां वर्षिता भवतु। “वृषस्तुभः वर्षणशीलस्तुतिभिर्देवान् स्तुवन्तः सर्व ऋत्विजः “वृषणः भवन्तु ॥
 
 
Line १३३ ⟶ १४८:
 
यौ । ईजिरे । वृषणः । देवऽयज्यया । ता । नः । शर्म । त्रिऽवरूथम् । वि । यंसतः ॥७
 
वृषणा वर्षणशीलौ “पुरुप्रशस्ता बहुभिः प्रशस्तौ “अग्नीषोमा अग्नीषोमौ “वाजसातये अन्नलाभाय “उप “ब्रुवे अहमुपस्तौमि । पुनः “वृषणौ इति आदरार्थम् । "यौ देवौ “वृषणः ऋत्विजः “देवयज्यया । देवा इज्यन्तेऽत्रेति देवयज्या यज्ञः । ‘ छन्दसि निष्टर्क्य ' इति निपातितः । तेन “ईजिरे यजन्ते हविर्भिः पूजयन्ति “ता तौ प्रसिद्धौ “नः अस्मभ्यं “त्रिवरूथं त्रिष्कम्भं “शर्म गृहं “वि “यंसतः विशेषेण प्रयच्छताम् ॥
 
 
Line १४६ ⟶ १६३:
 
अग्निऽहोतारः । ऋतऽसापः । अद्रुहः । अपः । असृजन् । अनु । वृत्रऽतूर्ये ॥८
 
“धृतव्रताः धृतकर्माणो जात्या “क्षत्रियाः । यद्वा । क्षत्रं बलं तदर्हाः । “यज्ञनिष्कृतः । यज्ञं प्रति निर्गमनं यज्ञनिः । तस्य कर्तारः “बृहद्दिवाः महातेजस्काः “अध्वराणां रक्षोभिरहिंसितानां यज्ञानाम् “अभिश्रियः अभिसेवकाः “अग्निहोतारः अग्निर्होता आह्वाता येषां तादृशाः “ऋतसापः। ‘ षप समवाये ' । सत्यभाजः अत एव “अद्रुहः केषांचिदप्यद्रोग्धारः । यद्वा । द्रुहेः कर्मण्यौणादिकः क्विप् । कैश्चिदप्यहिंस्याः । एवंप्रभावा देवा: वृत्रतूर्ये । वृत्रस्तूर्यते हिंस्यतेऽत्रेति वृत्रतूर्यः संग्रामः । तस्मिन् अपामावरकशत्रुवधे “अपः उदकानि “अन्वसृजन् अन्वसारयन् ॥
 
 
Line १५९ ⟶ १७८:
 
अन्तरिक्षम् । स्वः । आ । पप्रुः । ऊतये । वशम् । देवासः । तन्वि । नि । ममृजुः ॥९
 
“देवासः देवा इन्द्रादयः “द्यावापृथिवी द्यावापृथिव्यौ “अभि अभिलक्ष्य “व्रता व्रतेन स्वेन कर्मणा “आपः । सुब्व्यत्ययः । अप उदकानि “ओषधीः च तथा “यज्ञिया यज्ञार्हान् “वनिनानि वने भवान् पलाशादीन् वृक्षान् “जनयन् उदपादयन् । किंच ते देवाः “स्वः सर्वम् “अन्तरिक्षम् “आ “पप्रुः तेजसापूरयन्ति । किमर्थम् । “ऊतये रक्षणाय शत्रुभ्यो बाधाभावाय । अपि च "वशं काम्य
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६६" इत्यस्माद् प्रतिप्राप्तम्