"ऋग्वेदः सूक्तं १०.६६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७९:
अन्तरिक्षम् । स्वः । आ । पप्रुः । ऊतये । वशम् । देवासः । तन्वि । नि । ममृजुः ॥९
 
“देवासः देवा इन्द्रादयः “द्यावापृथिवी द्यावापृथिव्यौ “अभि अभिलक्ष्य “व्रता व्रतेन स्वेन कर्मणा “आपः । सुब्व्यत्ययः । अप उदकानि “ओषधीः च तथा “यज्ञिया यज्ञार्हान् “वनिनानि वने भवान् पलाशादीन् वृक्षान् “जनयन् उदपादयन् । किंच ते देवाः “स्वः सर्वम् “अन्तरिक्षम् “आ “पप्रुः तेजसापूरयन्ति । किमर्थम् । “ऊतये रक्षणाय शत्रुभ्यो बाधाभावाय । अपि च "वशं काम्यकाम्यमानम्। ' वशिरण्यरुपसंख्यानम् ' ( पा. सू. ३. ३. ५८. ३) इत्यकर्तरि कारकेऽप् । तं यज्ञं “तन्वि स्वशरीरे “नि “ममृजुः नितरां शुद्धमलंकृतं चक्रुः ॥
 
 
पङ्क्तिः १९३:
 
आपः । ओषधीः । प्र । तिरन्तु । नः । गिरः । भगः । रातिः । वाजिनः । यन्तु । मे । हवम् ॥१०
 
“दिवः द्युलोकस्य “धर्तारः धारयितारः “ऋभवः सत्येन भासमानाः "सुहस्ताः शोभनवजाद्यायुधयुक्तहस्ता देवास्तथा “महिषस्य महतः “तन्यतोः शब्दस्य । ‘ तनु विस्तारे । ‘ ऋतन्यञ्जि इति यतुच्प्रत्ययः । शब्दस्य कर्तारौ “वातापर्जन्या वातश्च पर्जन्यश्च तत्कार्याः “आपः “ओषधीः ओषधयश्च “नः अस्माकं “गिरः स्तुतीः “प्र “तिरन्तु प्रवर्धयन्तु । प्रपूर्वस्तिरतिर्वृद्ध्यर्थः । तथा “रातिः दाता “भगः भजनीयोऽर्यमा च “वाजिनः । ‘ अग्निर्वायुः सूर्यस्ते वै वाजिनः' (तै. ब्रा. १. ६. ३. ९) इति तैत्तिरीयब्राह्मणम् । एते देवाश्च “मे मदीयं “हवम् आह्वानं “यन्तु अभिगच्छन्तु ॥ ॥ १३ ॥
 
 
Line २०६ ⟶ २०८:
 
अहिः । बुध्न्यः । शृणवत् । वचांसि । मे । विश्वे । देवासः । उत । सूरयः । मम ॥११
 
“समुद्रः समुन्दनशीलः स्यन्दमानोदकः “सिन्धुः एतन्नामकः “अन्तरिक्षं द्यावापृथिव्योरन्तरा मध्ये क्षितमुषितं “रजः मध्यमलोकम् “अज “एकपात् । अजायमान एक एव पद्यते । एतत्संज्ञको देवः “अर्णवः उदकवान् “तनयित्नुः स्तनयित्नुर्मेघः “बुध्न्यः अन्तरिक्षे भवः “अहिः एतत्संज्ञक एते देवाः “मे मम “वचांसि वक्तव्यानि स्तोत्राणि “शृणवत् प्रत्येकं शृणोतु । “उत अपि च “सूरयः प्राज्ञाः “विश्वे “देवासः देवाः “मम स्तोत्राणि शृण्वन्तु ।।
 
 
Line २२० ⟶ २२४:
आदित्याः । रुद्राः । वसवः । सुऽदानवः । इमा । ब्रह्म । शस्यमानानि । जिन्वत ॥१२
 
हे देवाः “मनवः मनुष्या वयं “वः युष्मदीयाय “देववीतये । देवानां वीतिर्भक्षणं यस्मिन् स यज्ञः । तस्मै यज्ञाय “स्याम यज्ञकर्तारो भवेम । ततः “नः अस्मदीयं “यज्ञं “साधुया । सुपो याजादेशः । साधु कल्याणं “प्राञ्चं प्राचीनं “प्र “णयत प्रकृष्टाञ्चनं कुरुत । हे “आदित्याः हे "रुद्राः रुद्रपुत्रा मरुतः हे “सुदानवः शोभनदाना हे “वसवः “इमा इमानि “शस्यमानानि “ब्रह्म ब्रह्माणि स्तोत्राणि “जिन्वत प्रीणयत ॥
 
 
अप्तोर्यामेऽच्छावाकातिरिक्तोक्थस्य ' दैव्या होतारा ' इत्येषा परिधानीया । सूत्रितं च – उभा उ नूनं दैव्या होतारा प्रथमा पुरोहितेति परिधानीया ' ( आश्व. श्रौ. ९. ११) इति ॥
 
दैव्या॒ होता॑रा प्रथ॒मा पु॒रोहि॑त ऋ॒तस्य॒ पन्था॒मन्वे॑मि साधु॒या ।
Line २३२ ⟶ २४०:
 
क्षेत्रस्य । पतिम् । प्रतिऽवेशम् । ईमहे । विश्वान् । देवान् । अमृतान् । अप्रऽयुच्छतः ॥१३
 
“प्रथमा मुख्यौ “पुरोहिता पुरोहितौ पुरतो निहितौ “दैव्या देवसंबन्धिनौ “होतारा होतारावेतन्नामानौ अग्न्यादित्यौ “अन्वेमि हविर्भिरनुगच्छामि। ततः “ऋतस्य यज्ञस्य “पन्थां पन्थानं “साधुया कल्याणं विघ्नराहित्येन “अन्वेमि अनुगच्छामि । अनन्तरं “प्रतिवेशं समीपे वर्तमानं “क्षेत्रस्य “पतिं पालयितारमेतन्नामानम् “अमृतान् मरणधर्मरहितान् “अप्रयुच्छतः अप्रमाद्यतः “विश्वान् सर्वान् “देवान् च “ईमहे धनं याचामहे ॥
 
 
Line २४५ ⟶ २५५:
 
प्रीताःऽइव । ज्ञातयः । कामम् । आऽइत्य । अस्मे इति । देवासः । अव । धूनुत । वसु ॥१४
 
“ऋषिवत् पूर्वं ऋषय इव “देवान् “ईळानाः स्तुवन्तः “वसिष्ठासः वसिष्ठकुलजाता ऋषयः “पितृवत् वसिष्ठवत् “स्वस्तये अविनाशाय “वाचं स्तोत्रम् “अक्रत कुर्वन्ति । करोतेर्लुङि मन्त्रे घस इति च्लेर्लुक् । हे “देवासः देवाः यूयं “कामम् अस्मदभिलाषम् “एत्य आगत्य “अस्मे अस्मासु “वसु गवादिलक्षणं धनम् “अव “धूनुत अभिमुखं प्रेरयत । तत्र दृष्टान्तः । “प्रीताइव यथा प्रीताः संहृष्टाः। “ज्ञातयः बन्धवः स्वजनस्य धनं प्रेरयन्ति तद्वद्धविर्दानेन स्तुतिकरणेन च बन्धुष्वस्मासु धनं प्रेरयतेति भावः ॥
 
 
Line २५९ ⟶ २७१:
ते । नः । रासन्ताम् । उरुऽगायम् । अद्य । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥१५
 
एषा ऋक् पूर्वमेव व्याख्यायि ॥ ॥ १४ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६६" इत्यस्माद् प्रतिप्राप्तम्