"ऋग्वेदः सूक्तं १०.७८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २९:
 
{{सायणभाष्यम्|
‘विप्रासः' इत्यष्टर्चं दशमं सूक्तम् । पञ्चम्याद्यास्तिस्रो द्वितीया चेति चतस्रो जगत्यः । शिष्टाश्चतस्रस्त्रिष्टुभः । पूर्ववदृषिदेवते । तथा चानुक्रान्तं -- विप्रासो द्वितीया पञ्चम्याद्याश्च तिस्रो जगत्यः इति । गतो विनियोगः ॥
 
 
विप्रा॑सो॒ न मन्म॑भिः स्वा॒ध्यो॑ देवा॒व्यो॒३॒॑ न य॒ज्ञैः स्वप्न॑सः ।
Line ४१ ⟶ ४३:
 
राजानः । न । चित्राः । सुऽसन्दृशः । क्षितीनाम् । न । मर्याः । अरेपसः ॥१
 
“विप्रासो “न विप्रा ब्राह्मणा इव ते यथा “मन्मभिः स्तुतिभिः “स्वाध्यः शोभनाध्याना भवन्ति एवं मरुतोऽप्यस्मदीयैर्मन्मभिर्मननीयैः स्तोत्रैः स्वाध्यः सुमनसो भवन्ति । अथवा । मन्मभिः स्तोत्रैर्युक्ता विप्रासो न मेधाविनः स्तोतार इव स्वाध्यो यज्ञे यजमाने वा सुध्याना इत्यर्थः । तथा “यज्ञैः यागैः “देवाव्यो “न देवानां तर्पयितारो यजमाना इव “स्वप्नसः । अप्न इति कर्मनाम । शोभनकर्माणः । ते यथा कर्मसु व्यापृता भवन्ति तद्वद्वृष्टिप्रदानादिकर्मसु व्यापृता इत्यर्थः । “राजानो “न मूर्धाभिषिक्ताः क्षितिपतय इव “चित्राः चायनीयाः पूजनीयाः । यद्वा चित्राभरणः । तथा “सुसंदृशः सुष्ठु दर्शनीयाः । तथा “क्षितीनां निवासानां स्वामिनः “मर्याः “न मनुष्या इव “अरेपसः अपापाः । यथा प्रतिग्रहार्थमन्यत्रागत्वा स्वगृह एवानुतिष्ठन्तो निर्दोषा भवन्ति तादृशा इत्यर्थः । ईदृशाः शोभन्त इत्यर्थः ॥
 
 
Line ५४ ⟶ ५८:
 
प्रऽज्ञातारः । न । ज्येष्ठाः । सुऽनीतयः । सुऽशर्माणः । न । सोमाः । ऋतम् । यते ॥२
 
हे मरुतः “अग्निर्न अग्निरिव स यथा “भ्राजसा तेजसा शोभते तद्वद्भ्राजसा युक्ताः किंच “रुक्मवक्षसः रुक्मालंकृतवक्षस्का: “वातासो “न प्रत्यक्षवाता इव “स्वयुजः स्वयं युज्यमाना: “सद्यऊतयः सद्योगमनाः “प्रज्ञातारो “न प्रकर्षेण ज्ञातारो ज्ञानिन इव “ज्येष्ठाः पूज्याः “सुनीतयः सुनयनाः “सुशर्माणो “न “सोमाः सुसुखाः सोमा इव ते यूयम् “ऋतं “यते यज्ञं गच्छते यजमानाय गच्छतेति ॥
 
 
Line ६७ ⟶ ७३:
 
वर्मण्ऽवन्तः । न । योधाः । शिमीऽवन्तः । पितॄणाम् । न । शंसाः । सुऽरातयः ॥३
 
“ये मरुतः “वातासो “न वायव इव “धुनयः शत्रूणां कम्पयितारः जिगत्नवः गमनशीलाः । अत्र मारुते सूक्ते मरुतामेव दृष्टान्तकथनं संचरणस्वभाववायुपदार्थ तदभिमानिदेवताभेदेनाविरुद्धम् । तथा “अग्नीनां “न “जिह्वाः अग्नीनां ज्वाला इव “विरोकिणः विरोचनशीलमुखाः । तथा “वर्मण्वन्तो “न “योधाः कवचिनो योद्धार इव “शिमीवन्तः शौर्यकर्मवन्तः । तथा “पितॄणां “न “शंसाः पितॄणां जनकाना शंसा वाच इव "सुरातयः सुदानाः । एवंमहानुभावा एते मरुतोऽस्मद्यज्ञमागच्छन्तु ॥
 
 
Line ८० ⟶ ८८:
 
वरेऽयवः । न । मर्याः । घृतऽप्रुषः । अभिऽस्वर्तारः । अर्कम् । न । सुऽस्तुभः ॥४
 
“रथानां “न रथचक्राणामिव “अराः ते यथा बहवोऽपि “सनाभयः समाननाभयो भवन्ति तद्वत् "ये परस्परं सनाभयः समानबन्धना एकस्मिन्नेवान्तरिक्षे वर्तमानाः । परस्परं बन्धुभूता इत्यर्थः । “जिगीवांसो “न “शूराः जयशीलाः शूरा इव “अभिद्यवः अभिगतदीप्तयः किंच “वरेयवो “न “मर्याः वृतं वरं परस्मै प्रदातुमिच्छन्तो मनुष्या इव “घृतप्रुषः उदकसेक्तारः । उदकपूर्वं हि वराणि वसूनि दीयन्ते नियमेन । वृष्ट्युदकप्रदा इत्यर्थः । किंच अभिस्वर्तारः “अर्कं “न अर्कमर्चनीयं स्तोत्रमभिस्वर्तारोऽभितः शब्दयितारो बन्दिन इव "सुष्टुभः सुशब्दाः ॥
 
 
Line ९३ ⟶ १०३:
 
आपः । न । निम्नैः । उदऽभिः । जिगत्नवः । विश्वऽरूपाः । अङ्गिरसः । न । सामऽभिः ॥५
 
“ये मरुतः “अश्वासो “न अश्वा इव “ज्येष्ठासः ज्येष्ठाः प्रशस्यतमाः “आशवः शीघ्रगमनाः । तथा “दिधिषवो “न वसूनां धारका इव “रथ्यः रथस्वामिनः “सुदानवः सुदानाः । तथा “आपो “न आप इव “निम्नैः प्रवणगैः “उदभिः उदकैः सह “जिगत्नवः गमनशीलाः । तथा “विश्वरूपाः नानारूपाः “सामभिः युक्ताः “अङ्गिरसो “न अङ्गिरस इव । सर्वदा सामगा इत्यर्थः ॥ ॥ १२ ॥
 
 
Line १०६ ⟶ ११८:
 
शिशूलाः । न । क्रीळयः । सुऽमातरः । महाऽग्रामः । न । यामन् । उत । त्विषा ॥६
 
“सूरयः उदकस्य प्रेरकाः “ग्रावाणो “न मेघा इव “सिन्धुमातरः नदीनिर्मातारः । आदर्दिरासः आदरणशीलानि “अद्रयो “न वज्राद्यायुधानीव “विश्वहा सर्वदा शत्रूणां हन्तार इत्यर्थः । यद्वा । सर्वदा अद्रयो न वज्रा इव शत्रूणामादर्दिरास आदरणशीलाः । “सुमातरः शोभनमातृकाः “शिशूला “न शिशव इव “क्रीळयः विहर्तारः। “उत अपि च “महाग्रामो “न महाञ्जनसंघ इव “यामन् यामनि गमने “त्विषा दीप्त्या युक्ता भवन्ति । तेऽस्मद्यज्ञमागच्छन्तु ॥
 
 
Line ११९ ⟶ १३३:
 
सिन्धवः । न । ययियः । भ्राजत्ऽऋष्टयः । पराऽवतः । न । योजनानि । ममिरे ॥७
 
ये मरुतः “उषसां “न “केतवः उषसां रश्मय इव “अध्वरश्रियः यज्ञस्याश्रयितारो भवन्ति । तथा “शुभंयवो “न कल्याणकामा वरा इव “अञ्जिभिः आभरणैः “व्यश्वितन् दीप्यन्ते । ‘ श्विता वणें । लङि रूपम् । तथा “सिन्धवो “न नद्य इव “ययियः गमनशीलाः “भ्राजदृष्टयः दीप्यमानायुधाः “परावतो “न दूराध्वनीना वडवा इव “योजनानि दूरदेशान् “ममिरे परिच्छिन्दन्ति । तेऽस्मद्यज्ञमागच्छन्त्विति ॥
 
 
Line १३२ ⟶ १४८:
 
अधि । स्तोत्रस्य । सख्यस्य । गात । सनात् । हि । वः । रत्नऽधेयानि । सन्ति ॥८
 
अनया स्तुतिमुपसंहरति । हे “मरुतः “देवाः “ववृधानाः स्तुत्या वर्धमाना यूयं “स्तोतॄन् “नः अस्मान् “सुभागान् सुधनान् “कृणुत कुरुत । तथा “सुरत्नान् शोभनरत्नान् कृणुत । यद्वा । सुरत्नान् शोभनरमणीयस्तोत्रानस्मानिति संबन्धनीयम् । किंच यूयं “सख्यस्य “स्तोत्रस्य सखिभूतं स्तोत्रम् “अधि “गात अधिगच्छत । “वः युष्माकं “रत्नधेयानि रत्नदानानि अस्मद्विषयाणि "सनाद्धि चिरकालादारभ्य खलु “सन्ति ॥ ॥ १३ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७८" इत्यस्माद् प्रतिप्राप्तम्