"ऋग्वेदः सूक्तं १०.९३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४३:
 
{{सायणभाष्यम्|
‘महि' इति पञ्चदशर्चं तृतीयं सूक्तम् । तान्वो नाम पृथोः पुत्र ऋषिः । द्वितीयातृतीये त्रयोदशी चेति तिस्रोऽनुष्टुभः। नवम्यक्षरसंख्यया पङ्क्तिर्न पादैः । एकादशी न्यङ्कुसारिण्यष्टकद्वादशकद्व्यष्टकवती । पञ्चदशी पुरस्ताद्बृहत्याद्यद्वादशकत्र्यष्टका । शिष्टा नव प्रस्तारपङ्क्तिच्छन्दस्काः । आद्यौ जागतौ द्वौ गायत्रौ सा प्रस्तारपङ्तिःिष । विश्वे देवा देवता। तथा चानुक्रान्तं - महि तान्वः पार्थः प्रस्तारपाङ्क्तं पुरस्ताद्बृहत्यन्तं त्रयोदश्युपाद्ये चानुष्टुभो नवम्यक्षरैः पङ्क्तिरेकादशी न्यङ्कुसारिणी' इति । गतो विनियोगः ॥
 
 
महि॑ द्यावापृथिवी भूतमु॒र्वी नारी॑ य॒ह्वी न रोद॑सी॒ सदं॑ नः ।
Line ५५ ⟶ ५७:
 
तेभिः । नः । पातम् । सह्यसः । एभिः । नः । पातम् । शूषणि ॥१
 
हे “द्यावापृथिवी द्यावापृथिव्यौ युवा “महि अत्यन्तं यथा भवति तथा “उर्वी विस्तीर्णे “भूतं भवतम् । किंच “यह्वी महत्यौ “रोदसी द्यावापृथिव्यौ “नारी “न स्त्रियाविव “नः अस्माकं “सदं सदा भवतम् । किंच युवां “शूषणि “नः अस्माकं शत्रुबले युष्मदीयैः “एभिः पालनैः “पातं रक्षतम् । किंच युष्मदीयैः “तेभिः तैः पालनैः “नः अस्माकं “सह्यसः अतिशयेनास्मानभिभवितुः शत्रोरपि “पातं रक्षतम् ॥
 
 
Line ६८ ⟶ ७२:
 
यः । सुम्नैः । दीर्घश्रुत्ऽतमः । आऽविवासाति । एनान् ॥२
 
“स “मर्त्यः मनुष्यः “यज्ञेयज्ञे सर्वेषु यज्ञेषु “देवान् सर्वान् “सपर्यति परिचरति “यः “दीर्घश्रुत्तमः अतिशयेन दीर्घस्य बहोः शास्त्रस्य श्रोता यो मनुष्यः "सुम्नैः सुखकरैर्हविर्भिः “एनान् देवान् “आविवासाति परिचरति । असुखकरैर्हविर्भिः कृतमपि कर्म समर्थं न भवतीत्यर्थः ॥
 
 
Line ८१ ⟶ ८७:
 
विश्वे । हि । विश्वऽमहसः । विश्वे । यज्ञेषु । यज्ञियाः ॥३
 
हे “विश्वेषामिरज्यवः भुवनानामीश्वराः "देवानां द्योतनादिगुणयुक्तानां भवतां “महः महत् “वाः वरणीयं धनं विद्यत इति शेषः । तदस्मभ्यं दत्तेति भावः । किंच "विश्वे सर्वे यूयं “विश्वमहसः व्याप्ततेजस्काः । किंच “विश्वे यूयं “यज्ञेषु “यज्ञियाः यष्टव्याः ॥
 
 
Line ९४ ⟶ १०२:
 
कत् । रुद्रः । नृणाम् । स्तुतः । मरुतः । पूषणः । भगः ॥४
 
“अर्यमा देवः “मित्रः च “परिज्मा सर्वतोगामी सर्वत्राप्रतिहतगतिः “वरुणः अन्यो देवजनश्चर्त्विग्भिः “स्तुतः “रुद्रः च “पूषणः सर्वस्य पोषयितारो “मरुतः च “भगः च एते देवाः “मन्द्राः सर्वैः स्तुत्याः सन्तः “नृणां मनुष्याणां “कत् सुखं प्रयच्छतेति शेषः । “ते सर्वे “अमृतस्य अमृतसदृशस्य हविषः “राजानः “घ ईश्वराः खलु ॥
 
 
Line १०७ ⟶ ११७:
 
सचा । यत् । सादि । एषाम् । अहिः । बुध्नेषु । बुध्न्यः ॥५
 
“उत अपि च हे “वृषण्वसू वर्षणधनावश्विनौ युवाम् “अपाम् उदकानां संबन्धिनौ “सधन्या सधन्यौ समानधनौ “सूर्यमासा सूर्याचन्द्रमसौ “बुध्नेषु अन्तरिक्षेषु निवासस्थानेषु मेघेषु “यत् यः “अहिर्बुध्न्यः देवः “सादि सीदति तिष्ठति “एषाम् एभिः “सचा सह युवां “नक्तं रात्रावहनि चोरुष्यतमिति वक्ष्यमाणेन संबन्धः ॥ ॥ २६ ॥
 
 
Line १२० ⟶ १३२:
 
महः । सः । रायः । आ । ईषते । अति । धन्वऽइव । दुःऽइता ॥६
 
“उत अपि च “शुभस्पती शुभस्योदकस्य पती “अश्विना अश्विनौ “देवौ “नः अस्मान् “धामभिः आत्मीयैः शरीरैः “उरुष्यतां रक्षताम् । किंच “मित्रावरुणौ आत्मीयैः शरीरैरुरुष्यतां रक्षताम् । यं यजमानं पुरुषममी देवा रक्षन्ति “सः “महः महान्ति “रायः धनानि “एषते आभिमुख्येन गच्छति प्राप्नोति । किंच “दुरिता दुरितानि शीघ्रम् “अति अतिगन्तातिक्रान्ता च भवति । तत्र दृष्टान्तः । “धन्वेव । यथा पथिको निरुदकान् देशानतिक्रामति तद्वदित्यर्थः ॥
 
 
Line १३३ ⟶ १४७:
 
ऋभुः । वाजः । ऋभुक्षणः । परिऽज्मा । विश्वऽवेदसः ॥७
 
“उत “चित् अपि च "रुद्रा रुद्रपुत्रौ “अश्विना अश्विनौ “नः अस्मान् “मृळतां सुखयताम् । किंच “रथस्पतिः रथस्य पतिः पूषा “ऋभुः “वाजः अन्नवान् “भगः च “परिज्मा परितो गन्ता वायुश्चेति “विश्वे सर्वे “देवासः देवाः सुखयन्तु । हे “विश्ववेदसः विश्ववेदाः सर्वप्रज्ञाः सर्वधना वा हे "ऋभुक्षणः महान्तो ब्रह्मादयो देवा यूयं सुखयत ॥
 
 
Line १४६ ⟶ १६२:
 
दुस्तरम् । यस्य । साम । चित् । ऋधक् । यज्ञः । न । मानुषः ॥८
 
“ऋभुक्षाः महानिन्द्रः “ऋभुः यज्ञेन भाति । किंच “विधतः त्वां परिचरतो यजमानस्य “मदः हर्षोऽपि “ऋभुः यज्ञेन भाति । हे इन्द्र “आ “जूजुवानस्य यागं प्रति शीघ्रमागच्छतः “ते तव “हरी अश्वावपि “वाजिना वाजिनौ बलवन्तौ । किंच “यस्य इन्द्रस्य संबन्धि “साम “चित् गीयमानं सामापि “दुष्टरं रक्षोभिरप्रापणीयम् । एषः “यज्ञः “मानुषः मनुष्यसाधारणः “न किंच “ऋधक् पृथक् । दिव्य इत्यर्थः ॥
 
 
Line १५९ ⟶ १७७:
 
सहो इति । नः । इन्द्रः । वह्निऽभिः । नि । एषाम् । चर्षणीनाम् । चक्रम् । रश्मिम् । न । योयुवे ॥९
 
हे “सवितः प्रेरक “नः अस्मान् “अह्रयः अनवनतवदनानलज्जितान् “कृधि कुरु। किंच “सः त्वं “मघोनां धनवतां यजमानानां संबन्धिभिर्ऋत्विग्भिः “स्तुषे स्तूयसे । “इन्द्रः “वह्निभिः वोढृभिः मरुद्भिः सह “सहः बलं “चर्षणीनां मनुष्याणां “नः अस्माकं “नि “योयुवे भृशं निमिश्रयतु । तत्र दृष्टान्तः । “चक्रं रथस्य चक्रं “रश्मिं “न । यथा रश्मिं चक्रादिकं तद्वदित्यर्थः ॥
 
 
Line १७२ ⟶ १९२:
 
पृक्षम् । वाजस्य । सातये । पृक्षम् । राया । उत । तुर्वणे ॥१०
 
हे “द्यावापृथिवी द्यावापृथिव्यौ युवाम् “अस्मे अस्माकं संबन्धिषु “एषु “धीरेषु पुत्रेषु “विश्वचर्षणि सर्वमनुष्योपेतं “महत् “श्रवः यशः “आ “धातम् आधत्तं दत्तम्। किंच “वाजस्य बलस्य “सातये संभजनाय “पृक्षं पालकमन्नं दत्तम् । “उत अपि च “तुर्वणे शत्रूणां तरणाय “राया धनेन सह “पृक्षम् अन्नं दत्तम् ॥ ॥ २७ ॥
 
 
Line १८५ ⟶ २०७:
 
मेदताम् । वेदता । वसो इति ॥११
 
हे वसो वासयितः “सहसावन् बलवन् “इन्द्र “अस्मयुः अस्मान्कामयमानः “त्वं “कूचित् क्वचिदपि “सन्तं स्थितम् “एतम् इमं “शंसं स्तोतारम् “अभिष्टये अभिलषितसिद्ध्यर्थमपि च “अभिष्टये यागार्थं “सदा सर्वदा “पाहि रक्ष । किंच “वेदता त्वदीयेन प्रज्ञानेन स्तोतारं मां “मेदतां बुध्यस्व ॥
 
 
Line १९८ ⟶ २२२:
 
सम्ऽवननम् । न । अश्व्यम् । तष्टाऽइव । अनपऽच्युतम् ॥१२
 
“नृणां नेतॄणां देवशत्रूणां “संवननं “न संभजनं सम्यग्हिंसनमिवावस्थितं “मे मदीयम् “एतम् इदं “स्तोमं स्तोत्रं “ववृधन्त ऋत्विजो वर्धयन्तु । तत्र दृष्टान्तः । “सूर्ये द्युतद्यामानं दीप्तगमनं “तना “न विस्तृतान् रश्मीन् वर्धयन्ति तद्वदित्यर्थः । “अनपच्युतं च्युतिरहितम् “अश्व्यम् अश्वार्हं रथं “तष्टेव यथा वर्धकी रथिष्वागतेषु संस्कृतं रथं संस्कारस्थानात्प्रेरयति तद्वदित्यर्थः ॥
 
 
Line २११ ⟶ २३७:
 
नेमऽधिता । न । पौंस्या । वृथाऽइव । विष्टऽअन्ता ॥१३
 
“येषां देवानां स्वभूतेन “राया अस्मभ्यं दातव्येन धनेन “युक्ता स्तुतिः आववर्त तेषां “एषाम् अर्थाय “हिरण्ययी हिरण्मयी हिरण्यालंकारवत् प्रीतिकरास्मन्मुखात् पुनःपुनरावर्तत इत्यर्थः । तत्र दृष्टान्तः । ”पौंस्या पौंस्यानि बलानि “नेमधिता “न नेमधितौ संग्रामे “विष्टान्ता व्याप्तावसाना “वृथेव यथा घटिकायन्त्रमाला तद्वदित्यर्थः ॥
 
 
Line २२४ ⟶ २५२:
 
ये । युक्त्वाय । पञ्च । शता । अस्मऽयु । पथा । विऽश्रावि । एषाम् ॥१४
 
“ये देवाः “पञ्च “शता शतानि रथान् “युक्त्वाय अश्वैर्युक्त्वा "अस्मयु अस्मत्कामाः सन्तः “पथा यज्ञमार्गेण गच्छन्ति तेषाम् “एषां देवानां “विश्रावि देवानां लोके वा विशेषेण श्रावकगुणयुक्तं “तत् स्तोत्रं “दुःशीमे दुःशीमनाम्नि “पृथवाने । पृथवानः पृथिः । तस्मिन् “वेने च "असुरे बलवति “रामे चैतेषु राजसु “प्र “वोचं प्रब्रवीमि । प्रख्यापयामीत्यर्थः । “मघवत्सु अन्येषु धनवत्सु च प्रख्यापयामीत्यर्थः ॥
अधीक्वत्र सप्ततिं च सप्त च ।
 
 
Line २३७ ⟶ २६८:
 
सद्यः । दिदिष्ट । तान्वः । सद्यः । दिदिष्ट । पार्थ्यः । सद्यः । दिदिष्ट । मायवः ॥१५
 
“अत्र एषु राजसु “तान्वः नामर्षिः गवां “सप्त “च सप्ततिं “च “नु क्षिप्रं “सद्यः “इत् सद्य एव “अधि “दिदिष्ट । अधिपूर्वो दिशिर्याचनार्थः । ययाचे । किंच पार्थो नाम युवनाश्वनामकस्य कुले पृथोः पुत्रः कश्चित् “सद्यः एव गवां सप्तसप्ततिमधि “दिदिष्ट । किंच “मायवः अपि “सद्यः एवाधि “दिदिष्ट ॥ ॥ २८ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९३" इत्यस्माद् प्रतिप्राप्तम्