"ऋग्वेदः सूक्तं १०.१४५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
 
{{सायणभाष्यम्|
' इमाम्' इति षडृचं सप्तदशं सूक्तमिन्द्राण्या आर्षम् । षष्ठी पङ्क्तिः शिष्टा अनुष्टुभः । अनेन सूक्तेन सपन्या बाधनं प्रतिपाद्यते । अत एतत्सूक्तजपादिना सपन्या विनाशो भवति । अतस्तद्देवताकमिदम् । तथा चानुक्रान्तम्---- ‘ इमामिन्द्राण्युपनिषत्सपत्नीबाधनमानुष्टुभं तु पङ्क्त्यन्तम् इति । अस्य सूक्तस्य विनियोगो भगवतापस्तम्बेन कस्मिंश्चित् सपत्नीघ्नप्रयोगविशेषे दर्शितः -- ‘ त्रिःसप्तैर्यवैः पाठां परिकिरति यदि वारुण्यसि वरुणात्त्वा निष्क्रीणामि यदि सौम्यसि सोमात्त्वा निष्क्रीणामीति । श्वोभूत उत्तरयोत्थाप्योत्तराभिस्तिसृभिरभिमन्त्र्योत्तरया प्रतिच्छन्नां हस्तयोराबध्य शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयादुपधानलिङ्गया। वश्यो भवति । सपत्नीबाधनं च ' ( आप. गृ. ९. ५. ८) इति । अयमर्थः । आद्यया पाठा नामौषधिः खातव्या । ततस्तिसृभिरोषधेरभि, मन्त्रणम् । षष्या्रबद्धा सौषधिर्यथा भर्तारं स्पृशति तथा तस्य भर्तुरालिङ्गनमिति ।।
 
 
इ॒मां ख॑ना॒म्योष॑धिं वी॒रुधं॒ बल॑वत्तमाम् ।
Line ३७ ⟶ ३९:
 
यया । सऽपत्नीम् । बाधते । यया । सम्ऽविन्दते । पतिम् ॥१
 
“इमामोषधिं पाठख्यां “वीरुधं लतारूपां “बलवत्तमां स्वकार्यकरणे अतिशयेन बलवतीं “खनामि उन्मूलयामि । “यया ओषध्या “सपत्नीम् । समान एकः पतिर्यस्याः सा सपत्नी । तामेषा वधूः “बाधते हिनस्ति । “यया च “पतिं भर्तारं “संविन्दते सम्यगसाधारण्येन लभते ॥
 
 
Line ५० ⟶ ५४:
 
सऽपत्नीम् । मे । परा । धम । पतिम् । मे । केवलम् । कुरु ॥२
 
हे “उत्तानपर्णे उत्तानान्यूर्ध्वमुखानि पर्णानि पत्राणि यस्यास्तादृशि हे “सुभगे सौभाग्यहेतुभूते हे “देवजूते देवेन स्रष्ट्रा प्रेरिते हे “सहस्वति अभिभवनवति ईदृशे हे पाठे “मे मम “सपत्नीं स्त्रियं “परा “धम परागमय । धमतिर्गतिकर्मा । “पतिं च “मे ममैव "केवलम् असाधारणं “कुरु ॥
 
 
Line ६३ ⟶ ६९:
 
अथ । सऽपत्नी । या । मम । अधरा । सा । अधराभ्यः ॥३
 
हे “उत्तरे उत्कृष्टतरे पाठे “अहम् “उत्तरा उत्कृष्टतरा भूयासम् । “उत्तराभ्यः लोके या उत्कृष्टतराः सन्ति ताभ्योऽप्यहम् "उत्तरा उत्कृष्टतरैव त्वत्र्ससादाद्भवेयम् । “अथ अनन्तरं “मम “या “सपत्नी “सा “अधराभ्यः निकृष्टाभ्योऽपि “अधरा निकृष्टतरा भवतु ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४५" इत्यस्माद् प्रतिप्राप्तम्