"ऋग्वेदः सूक्तं १०.१४९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २४:
 
{{सायणभाष्यम्|
‘ सविता यन्त्रैः ' इति पञ्चर्चमेकविंशं सूक्तं हिरण्यस्तूपपुत्रस्यार्चत आर्षं त्रैष्टुभं सवितृदेवत्यम्। अनुक्रान्तं च -- ‘सवितार्चन हैरण्यस्तूपः सावित्रम् ' इति । गतो विनियोगः ॥
 
 
स॒वि॒ता य॒न्त्रैः पृ॑थि॒वीम॑रम्णादस्कम्भ॒ने स॑वि॒ता द्याम॑दृंहत् ।
Line ३६ ⟶ ३८:
 
अश्वम्ऽइव । अधुक्षत् । धुनिम् । अन्तरिक्षम् । अतूर्ते । बद्धम् । सविता । समुद्रम् ॥१
 
“सविता सर्वस्व प्रसविता प्रेरको मध्यमस्थानो देवः सोऽयं ”यन्त्रैः यमनसाधनैर्वृष्टिप्रदानादिभिरुपायैर्वायवीयैः पाशैर्वा ”पृथिवीं प्रथितां भूमिम् ”अरम्णात् अरमयत् । सुखेनावस्थापयति । तथा स एव ”सविता “अस्कम्भने । पतनप्रतिबन्धकमालम्बनं स्कम्भनम् । तद्रहिते स्थले “द्यां द्युलोकमपि “अदृंहत् दृढीकृतवान् । यथाधो न पतति तथात्मीयैरेवोपायैरवस्थापितवानित्यर्थः । ”अश्वमिव “धुनिं कम्पयितव्यं कम्पयितारं वा ”अन्तरिक्षम् अन्तरा क्षान्तं मध्यमस्थानगतम् ”अतूर्ते केनाप्यहिंसितेऽत्वरमाणे वा नभसि वायवीयैः पाशैः “बद्धं ”समुद्रं मेघमयमेव “सविता “अधुक्षत् उदकानि दोग्धि । यद्वा । अन्तरिक्षमिति सप्तम्यर्थे प्रथमा । अतूर्तेऽन्तरिक्षे बद्धं समुदितारं धुनिं कम्पनीयं मेघमश्वमिवाधुक्षत् । सविता क्लेशयति । ‘ धुक्ष धिक्ष संदीपनक्लेशनजीवनेषु । यथा शिक्षकः सादी अश्वं क्लेशयत्येवं वर्षणाय मेघं क्लेशयतीत्यर्थः। अत्र निरुक्तं --- सविता यन्त्रैः पृथिवीमरमयदनारम्भणेऽन्तरिक्षे सविता द्यामदृंहदश्वमिवाधुक्षद्धुनिमन्तरिक्षे मेघं बद्धमतूर्ते बद्धमतूर्णं इति वात्वरमाण इति वा सविता समुदितारम् ' ( निरु. १०. ३२ ) इति ।।
 
 
Line ४९ ⟶ ५३:
 
अतः । भूः । अतः । आः । उत्थितम् । रजः । अतः । द्यावापृथिवी इति । अप्रथेताम् ॥२
 
“यत्र यस्मिन्नन्तरिक्षे ”समुद्रः समुन्दनशीलो मेघः “स्कभितः स्तम्भितो वायुपाशैर्बद्धः सन् “व्यौनत् विशेषेण भूमिमुनत्ति उदकैः क्लेदयति । ‘ उन्दी क्लेदने । अस्माच्छान्दसे लङि रूपमेतत् । हे “अपां ”नपात् मध्यमस्थान वैद्युताग्ने तव संबन्धी ”सविता प्रेरको देवः” तस्य तत्स्थानं ”वेद वेत्ति जानाति । ”अतः अस्मादेव सवितुः “भूः भूमिरासीत् । ”अतः एव “उत्थितम् ऊर्ध्वमवस्थितं “रजः अन्तरिक्षं च “आः आसीत् अजायत । अस्तेर्लङि ‘ बहुलं छन्दसि ' इतीडभावः । ‘ हल्ङ्याब्भ्यः' इति लोपः । ”अतः अस्मादेव सवितुः ”द्यावापृथिवी द्यावापृथिव्यौ ”अप्रथेतां विस्तीर्णेऽप्यभूताम् ।।
 
 
Line ६२ ⟶ ६८:
 
सुऽपर्णः । अङ्ग । सवितुः । गरुत्मान् । पूर्वः । जातः । सः । ऊं इति । अस्य । अनु । धर्म ॥३
 
"अन्यत् सवितृव्यतिरिक्तम् ”इदं देवतान्तरं ”पश्चा पश्चात् । ' पश्च पश्चा च च्छन्दसि । ( पा. सू. ५. ३. ३३ ) इति निपात्यते । सवितृप्रेरणानन्तरमेव “यजत्रं यष्टव्यम् ”अभवत् । केन साधनेन । ”अमर्त्यस्य मरणरहितस्य ”भुवनस्य लोकस्य स्वर्गाख्यस्य संबन्धिना “भूना भूतेन । स्वर्गं उत्पन्नेन सोमेनेत्यर्थः । यद्वा । अमर्त्यस्य भुवनस्य संबन्धीदं देवतान्तरं भूना भूम्ना बहुत्वेन युक्तं यष्टव्यमभवत् । कुत इत्यत आह । हे ”अङ्ग स्तोतः ”सुपर्णः शोभनपतनः ”गरुत्मान् सोमस्यापहर्ता तार्क्ष्यः ”सवितुः प्रेरकादस्माद्देवात् ”पूर्वः प्रथमभावी सन् “जातः । अतो हेतोः सुपर्णो गरुत्मान् ”अस्य सवितुः “धर्म धारणमनुसृत्य वर्तते । सवितृप्रेरणाधीनत्वात्सर्वंगतीनां सोमाहरणमपि तदधीनमिति सवितृप्रेरणानन्तरमेव सर्वे सोमयागाः प्रवर्तन्त इत्यर्थः । “उ इति पूरकः ॥
 
 
Line ७५ ⟶ ८३:
 
पतिःऽइव । जायाम् । अभि । नः । नि । एतु । धर्ता । दिवः । सविता । विश्वऽवारः ॥४
 
“गावइव यथारण्ये संचरन्तो गावः “ग्रामं शीघ्रमभिगच्छन्ति । ”युयुधिरिव यथा योद्धा युद्धार्थम् ”अश्वान् अभिगच्छति । ‘युध संप्रहारे । ‘आदृगमहनजन' इत्यत्र ‘उत्सर्गश्छन्दसि (पा. सू. ३.२. १७१.२ ) इति वचनात् किन्प्रत्ययः । छान्दसं सांहितिकमभ्यासदीर्घत्वम् । "सुमनाः
शोभनमनस्का "दुहाना दोग्ध्री बहुपयस्का "वाश्रेव हम्भारवात्मकं शब्दं कुर्वती गौर्यथात्मीयं "वत्सम् अभिगच्छति । "पतिरिव यथा भर्ता "जायां स्वभार्यां शीघ्रमभिगच्छति एवमेव "सविता "नः अस्मान् "नि अभि "एतु नितरामभिगच्छतु । कीदृशः । "दिवः द्युलोकस्य "धर्ता धारयिता
अवस्थापयिता वा अत एव "विश्ववारः सर्वैर्वरणीयः ।।
 
 
Line ८९ ⟶ १०१:
एव । त्वा । अर्चन् । अवसे । वन्दमानः । सोमस्यऽइव । अंशुम् । प्रति । जागर । अहम् ॥५
 
हे "सवितः प्रेरक "त्वा त्वाम् "आङ्गिरसः अङ्गिरसः पुत्रः "हिरण्यस्तूपः मम पिता "अस्मिन् "वाजे अन्ने निमित्तभूते सति "यथा "जुह्वे आहूतवान् "एव एवम् "अर्चन् एतत्संज्ञोऽहं "त्वा त्वाम् "अवसे अवनाय रक्षणार्थं "वन्दमानः स्तुवन् आह्वयामीति शेषः । आहूय च "सोमस्येवांशुं यथा सोमलतां प्रति यजमाना जाग्रति यागपर्यन्तं तद्रक्षणे प्रबुद्धा वर्तन्ते तथा "अहं त्वत्परिचर्यां "प्रति "जागर जागर्मि । जागर्तेर्णल्युत्तमैकवचने रूपम् । अत्र निरुक्तं - ' हिरण्यस्तूपो हिरण्मयस्तूपो हिरण्यमयः स्तूपोऽस्येति वा । स्तूपः स्त्यायतेः संघातः । सवितर्यथा त्वाङ्गिरसो जुह्वे वाजेऽन्नैऽस्मिन्नेवं त्वार्चन्नवनाय वन्दमानः सोमस्येवांशुं प्रतिजागर्म्यहम् ' ( निरु. १०. ३३) इति।।७।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४९" इत्यस्माद् प्रतिप्राप्तम्