"ऋग्वेदः सूक्तं १.३८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४३:
 
{{सायणभाष्यम्|
‘कद्ध नूनम् ' इति पञ्चदशर्चं तृतीयं सूक्तम् । घोरपुत्रः कण्व ऋषिः, ‘ ऋषिश्चान्यस्मात् ' इति परिभाषितत्वात् । पूर्वसूक्ते मारुतं हि ' इत्युक्तत्वादिदमपि मरुद्देवताकम् । ‘गायत्रं तु ' इत्युक्तत्वात् गायत्रीच्छन्दस्कम् । कद्ध' इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥
 
 
कद्ध॑ नू॒नं क॑धप्रियः पि॒ता पु॒त्रं न हस्त॑योः ।
Line ५५ ⟶ ५७:
 
दधिध्वे । वृक्तऽबर्हिषः ॥१
 
हे मरुतः "कद्ध कदा खलु “नूनम् अवश्यं हस्तयोः “दधिध्वे यूयमस्मान् हस्ते धारयथ । तत्र दृष्टान्तः। “पिता “पुत्रं “न “हस्तयोः । यथा लोके पिता हस्तयोः स्वकीयं पुत्रं धारयति तद्वत् । कीदृशा मरुतः । "कधप्रियः स्तुतिप्रीताः “वृक्तबर्हिषः । वृक्तं छिन्नं बर्हिर्दर्भो येषां मरुतां यजमानाय ते मरुतः तथाविधाः ॥ कत् कदा । ‘ द्वौ चापरौ वर्णविकारनाशौ' (का.६.३.१०९) इत्युक्तत्वात् आकारलोपः । कधप्रियः । कथा स्तुतिः । तया प्रीणन्तीति कधप्रियः । ‘ प्रीञ् प्रीतौ ' । क्विप् । पूर्वपदस्य ' ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् ' (पा. सू. ६. ३.६३ ) इति ह्रस्वत्वम् । धकारश्छान्दसः। आमन्त्रितनिघातः । दधिध्वे । दधातेः “ छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लिट् । क्रादिनियमातु इट् । प्रत्ययस्वरः वृक्तबर्हिषः । आमन्त्रितनिघातः ॥
 
 
Line ६८ ⟶ ७२:
 
क्व । वः । गावः । न । रण्यन्ति ॥२
 
‘ हे मरुतः "नूनम् इदानीं “क्व यूयं कुत्र स्थिताः । "कत् कदा “वः युष्माकम् “अर्थम् अरणं देवयजनदेशे गमनम्। विलम्बं मा कुरुतेत्यर्थः। "दिवः “गन्त द्युलोकाद्गच्छत । “पृथिव्याः “न गन्त भूलोकान्मा गच्छत । "वः युष्मान् “क्व “रण्यन्ति । देवयजनरूपायाः पृथिव्या अन्यत्र कुत्र शब्दयन्ति । यजमानाः स्तुवन्ति । तत्र दृष्टान्तः । “गावो “न । यथा गावो रणन्ति शब्दयन्ति तद्वत् ॥ क्व । किंशब्दात् सप्तम्यन्तात् ' किमोऽत् ' (पा. सू. ५. ३. १२) इति अत्प्रत्ययः। ‘ क्वाति' (पा. सू. ७. २. १०५) इति किमः क्वादेशः । ‘ तित्स्वरितः' इति स्वरितत्वम् । अर्थम् । ‘ऋ गतौ । ‘ उषिकुषिगार्तिभ्यस्थन् ' ( उ. सू. २. १६१ ) इति भावे थन् । नित्त्वादाद्युदात्तत्वम् । गन्त । गमेर्लोटि बहुलं छन्दसि' इति शपो लुक् । थादेशस्य तस्य ‘ तप्तनप्तनथनाश्च ' इति तबादेशः। अत एव ङित्त्वाभावात् ‘ अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपो न भवति । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घत्वम् । दिवः । ‘ ऊडिदम्० इति विभक्तेरुदात्तत्वम् । पृथिव्याः । उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् । रण्यन्ति । रणतिः शब्दार्थः । व्यत्ययेन श्यन् ॥
 
 
Line ८१ ⟶ ८७:
 
क्वो इति । विश्वानि । सौभगा ॥३
 
हे “मरुतः “वः युष्माकं संबन्धीनि "नव्यांसि नवतराणि "सुम्ना प्रजापशुरूपाणि धनानि ‘प्रजा वै पशवः सुम्नम् ' ( तै. सं. ५. ४. ६. ६ ) इति श्रुत्यन्तरात् । “क्व कुत्र वर्तन्ते । तथा “सुविता शोभनानि प्राप्याणि मणिमुक्तादीनि भवदीयानि "क्व कुत्र वर्तन्ते । "विश्वानि सर्वाणि "सौभगा सौभाग्यरूपाणि गजाश्वादीनि “क्वो कुत्र वा वर्तन्ते । भवदीयैः सुम्नादिभिः सर्वैः सहागन्तव्यमित्यर्थः ॥ सुम्ना । ‘ शेश्छन्दसि बहुलम् ' इति शेर्लोपः । नव्यांसि । नवशब्दात् ईयसुनि ईकारलोपश्छान्दसः । सुविता । सुष्ठु इतानि सुवितानि । ‘ तन्वादीनां छन्दसि बहुलमुपसंख्यानम् ' ( पा. सू. ६. ४. ७७. १ ) इति उवङादेशः । सौभगा। ‘सुभगान्मन्त्रे' (पा. सू. ५. १. १२९ ग.) इति तस्य भावः इत्यर्थे अन् । पूर्ववत् शेर्लोपः ॥
 
 
Line ९४ ⟶ १०२:
 
स्तोता । वः । अमृतः । स्यात् ॥४
 
हे पृश्निनामकधेनुपुत्राः मरुतः “यूयं यद्यपि “मर्तासः मनुष्याः “स्यातन भवेत तथापि “धवः युष्माकं “स्तोता यजमानः “अमृतः “स्यात् देवो भवेत् ॥ पृश्निमातरः । पृश्निर्माता येषां ते । समासान्तविधेरनित्यत्वात् ‘नद्यृतश्च ' ( पा. सू. ५. ४. १५३ ) इति कबभावः । मर्तासः । ‘ असि हसि ' इत्यादिना म्रियतेः तन्प्रत्ययः । आजसेरसुक्'। स्यातन। अस्तेर्लिङि तस्य ‘तप्तनप्तनथनाश्च इति तनादेशः । यासुट उदात्तत्वम् । अमृतः । ‘ नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् ॥
 
 
Line १०७ ⟶ ११७:
 
पथा । यमस्य । गात् । उप ॥५
 
हे मरुतः “वः युष्माकं “जरिता स्तोता “अजोष्यः असेव्यः “मा “भूत् । तत्र दृष्टान्तः । “मृगो “न “यवसे । यथा तृणे भक्षणीये मृगः कदाचिदप्यसेव्यो न भवति किंतु सर्वदा तृणं भक्षयति तद्वत् । किं च स स्तोता “यमस्य “पथा यमलोकसंबन्धिमार्गेण मा “उप “गात् मा गच्छतु । तस्य मरणं मा भूदित्यर्थः ॥ जरिता । ‘जॄष् वयोहानौ' । स्तुतिकर्मेति ( निरु. १०.८ ) यास्कः । तृचि इडागमः। चित्त्वादन्तोदात्तत्वम् । भूत् । लुङि ‘ गातिस्था° ' इति सिचो लुक् । ' न माङ्योगे ' इति अडभावः । अजोष्यः। ‘जुषी प्रीतिसेवनयोः । ‘ ऋहलोर्ण्यत्' इति कर्मणि ण्यत्। नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । पथा । तृतीयैकवचने ‘ भस्य टेर्लोपः' (पा. सू. ७. १. ८८) इति टिलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । गात् । एतेर्लुङि • इणो गा लुङि' (पा. सू. २, ४, ४५ ) इति गादेशः । ‘ गातिस्था° ' इति सिचो लुक् । पूर्ववत् अडभावः ॥ ॥ १५ ॥
 
 
Line १२० ⟶ १३२:
 
पदीष्ट । तृष्णया । सह ॥६
 
हे मरुतः “नः अस्मान् “निऋतिः रक्षोजातिदेवता “मो “षु “वधीत् सर्वथा वधं मा कार्षीत्। कीदृशी । “परापरा उत्कृष्टादप्युत्कृष्टा अतिबलेत्यर्थः । अत एव “दुर्हणा केनापि हन्तुं दुःशक्या' । सा निर्ऋतिः “तृष्णया “सह “पदीष्ट पततु । अस्मदीया तृष्णा बाधिका निर्ऋतिश्च विनश्यत्वित्यर्थः ॥ मो षु णः । ‘ सुञः' इति षत्वम् । नश्च धातुस्थोरुषुभ्यः' इति णत्वम् । दुर्हणा । ‘ ईषद्दुःसुषु । इत्यादिना हन्तेः कर्मणि खल्। लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम्। वधीत् । लुङि हन्तेः “लुङि च । (पा.सू. ३. ४. ४३) इति वधादेशः । सिचि इडागमः। वधादेशस्य अदन्तत्वात् ' एकाच उपदेशे । इति इट्प्रतिषेधो न भवति । अतो लोपे सति तस्य स्थानिवत्त्वात् ‘अतो हलादेः ' (पा. सू. ७. २. ७) इति वृद्ध्यभावः । ‘इट ईटि' (पा. सू. ८.२.२८) इति सिचो लोपः । पदीष्ट । ‘पद गतौ । आशीर्लिंङि छन्दस्युभयथा ' इति सार्वधातुकत्वात् सलोपः । आर्धधातुकत्वात् सुडागमः । प्रत्ययस्वरः । तृष्णया । ‘ ञितृषा पिपासायाम्'। ‘तृषिशुषिरसिभ्यः किच्च' ( उ. सू. ३. २९२ ) इति नप्रत्ययः। ‘ नित्' इत्यनुवृत्तेराद्युदात्तत्वम् ॥
 
 
Line १३४ ⟶ १४८:
मिहम् । कृण्वन्ति । अवाताम् ॥७
 
“धन्वञ्चित् मरुदेशेऽपि “रुद्रियासः रुद्रेण पालितत्वात् तदीया मरुतः "आ सर्वतः "अवातां वायुरहितां “मिहं वृष्टिं “कृण्वन्ति कुर्वन्ति तदेतत् “सत्यम् । कीदृशा रुद्रियासः। “त्वेषाः दीप्ताः “अमवन्तः बलवन्तः । मरुतां रुद्रपालनमाख्यानेषु प्रसिद्धम् ॥ धन्वन् । ‘ रिवि रवि धवि गत्यर्थाः । इदित्त्वात् नुम् । ‘कनिन्युवृषितक्षि° ' इत्यादिना कनिन् । नित्त्वादाद्युदात्तत्वम् । सुपां सुलुक्° ' इति सप्तम्या लुक् । रुद्रियासः। रुद्रस्येमे रुद्रियाः। तस्येदम्' इत्यर्थे घः। “आजसेरसुक्' । मिहम् । मिह सेचने'। ‘ क्विप् च ' इति क्विप् । कृण्वन्ति । कृवि हिंसाकरणयोश्च । ‘ धिन्विकृण्व्योर च' इति उप्रत्ययः; तत्संनियोगेन वकारस्य च अकारादेशः । अतो लोपेन लुप्तस्य स्थानिवद्भावात् लघूपधगुणाभावः ॥
 
 
कारीर्यां ‘ मारुतं सप्तकपालम् ' इत्यस्य हविषः ‘ वाश्रेव विद्युत् ' इत्येषानुवाक्या । ‘ वर्षकामेष्टिः' इति खण्डे सूत्रितं - वाश्रेव विद्युन्मिमाति पर्वतश्चिन्महि वृद्धो बिभाय' ( आश्व. श्रौ. २. १३ ) इति ॥
 
वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सं न मा॒ता सि॑षक्ति ।
Line १४६ ⟶ १६४:
 
यत् । एषाम् । वृष्टिः । असर्जि ॥८
 
“वाश्रेव शब्दयुक्ता प्रस्नुतस्तनवती धेनुरिव “विद्युत् मेघस्था दृश्यमाना सती “मिमाति शब्दं करोति । विद्युद्वेलायां हि मेघगर्जनं प्रसिद्धम् । “माता धेनुः "वत्सं “न वत्समिव “सिषक्ति इयं विद्युत् मरुतः सेवते । सिषक्तिः सेवनार्थः। ‘ सिषक्तु सचत इति सेवमानस्य' ( निरु. ३. २१ ) इति यास्केनोक्तत्वात् । “यत् यस्मात् कारणात् “एषां मरुतां संबन्धिनी “वृष्टिरसर्जि गर्जनसहिते विद्युत्काले वृष्टा भवति, तस्मात् विद्युतो मरुत्सेवनमुपपन्नम् ॥ वाश्रेव । ‘वाशृ शब्दे'। 'स्फायितञ्चि° ' इत्यादिना रक् । मिमाति । ' माङ् मानै शब्दे च ' । व्यत्ययेन परस्मैपदम् । जुहोत्यादित्वात् श्लुः । ‘ भृञामित् ' ( पा. सू. ७. ४. ७६ ) इति अभ्यासस्य इत्वम् । सिषक्ति। ‘ षच समवाये'। लटि बहुलं छन्दसि ' इति शपः लुः । ‘ बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । असर्जि । ‘ सृज विसर्गे ' । कर्मणि लुङ् ।' चिण् भावकर्मणोः ' (पा. सू. ३. १. ६६) इति चिण् ।' चिणो लुक्' (पा. सू. ६. ४. १०४ ) इति तशब्दस्य लुक् । गुणः । अडागम उदात्तः । यद्वृत्तयोगादनिघातः ॥
 
 
Line १५९ ⟶ १७९:
 
यत् । पृथिवीम् । विऽउन्दन्ति ॥९
 
ते मरुतः "उदवाहेन उदकधारिणा “पर्जन्येन मेघेन सूर्यमाच्छाद्य “दिवा “चित् अहन्यपि “तमः “कृण्वन्ति अन्धकारं कुर्वन्ति । “यत् यदा पृथिवीं भूमिं “व्युन्दन्ति विशेषेण क्लेदयन्ति तदानीमतिवृष्टिकाले तमः कुर्वन्तीति पूर्वत्रान्वयः ॥ उदवाहेन । उदकानि वहतीति उदवाहः । कर्मण्यण्' । मेघविशेषस्येयं संज्ञा ।' उदकस्योदः संज्ञायाम् ' ( पा. सू. ६. ३. ५७ ) इति उदकशब्दस्य उदभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । व्युन्दन्ति ।' उन्दी क्लेदने' । रुधादित्वात् श्नम् । ‘ श्नान्नलोपः ' (पा. सू. ६. ४. २३) इति नलोपः । यद्वृत्तयोगादनिघातः ॥
 
 
Line १७२ ⟶ १९४:
 
अरेजन्त । प्र । मानुषाः ॥१०
 
“मरुतां संबन्धिनः “स्वनात् "अध ध्वनेर्गजनरूपादनन्तरं “पार्थिवं पृथिवीसंबन्धि “विश्वं “सद्म सर्वं गृहम् “आ समन्तात् अरेजत इति शेषः । तथा “मानुषाः गृहवर्तिनो मनुष्या अपि “प्र “अरेजन्त प्रकर्षेण कम्पितवन्तः ॥ अध । छान्दसं धत्वम् । सद्म । ‘ षद्लृ विशरणगत्यवसादनेषु ' । अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । पार्थिवम् । पृथिव्याः संबन्धि। ‘पृथिव्या ञाञौ' (पा. सू. ४. १. ८५. २) इति प्राग्दीव्यतीयः अञ्प्रत्ययः । ञित्वादाद्युदात्तत्वम् । अरेजन्त । ‘रेजृ कम्पने '॥ ॥१६॥
 
 
Line १८५ ⟶ २०९:
 
यात । ईम् । अखिद्रयामऽभिः ॥११
 
हे "मरुतः यूयं “वीळुपाणिभिः दृढहस्तैः सहिताः सन्तः "रोधस्वतीरनु कूलयुक्ता नदीरनुलक्ष्य “अखिद्रयामभिः अच्छिन्नगमनैः “याते गच्छतैव ॥ मरुतः । आमन्त्रिताद्युदात्तत्वम् । वीळुपाणिभिः । वीडु इति बलनाम, ‘वीळु च्यौत्नम्' (नि. २.९. १४) इति तन्नामसु पाठात् । तेन च तद्वान् लक्ष्यते । वीळवश्च ते पाणयश्च । “समासस्य' इत्यन्तोदात्तत्वम् । रोधस्वतीः । ‘रुधिर् आवरणे'। रुणद्धि स्रोतः इति रोधः कूलम् । ‘रोधः कूलं निरुणद्धि स्रोतः' (निरु. ६. १ ) इत्युक्तत्वात् । असुनो नित्त्वादाद्युदात्तत्वम् । तद्युक्ता रोधस्वत्यः । मादुपधायाः' इति मतुपो वत्वम् । 'उगितश्च' इति ङीप् । मतुब्ङीपोः पित्त्वादनुदात्तत्वे असुनः स्वर एव शिष्यते । यात । ' या प्रापणे '। अदादित्वात् शपो लुक् । ईम् । ‘ चादयोऽनुदात्ताः' इत्यनुदात्तत्वम् । गुणे ‘ एकादेश उदात्तेनोदात्तः' इत्युदात्तत्वम् । अखिद्रयामभिः । ‘ खिद दैन्ये' । 'स्फायितञ्चि°' इत्यादिना रक् । खिद्रं यान्तीति खिद्रयामानः । न खिद्रयामानः अखिद्रयामानः । तैः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
 
 
Line १९८ ⟶ २२४:
 
सुऽसंस्कृताः । अभीशवः ॥१२
 
हे मरुतः “एषां “वः युष्माकं "नेमयः रथचक्रवलयाः “स्थिराः सन्तु । तथा “रथा “अश्वासः अश्वाश्च स्थिराः सन्तु । “अभीशवः अङ्गुलयः, ‘ अभीशवः दीधितयः' ( नि. २. ५. २०) इति तन्नामसु पाठात् । “सुसंस्कृताः अश्वबन्धनरज्जुपरिग्रहणे स्वलंकृताः सावधानाः सन्तु ॥ सुसंस्कृताः । संपूर्वात् करोतेः कर्मणि क्तः । ‘ संपर्युपेभ्यः° ' ( पा. सू. ६. १. १३७ ) इति सुट्। पुनः सुशब्देन प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अभीशवः । अभिपूर्वात् अश्नोतेः ‘ कृवापाजि° । इत्यादिना उण् । वर्णव्यत्ययेन आकारस्य इकारः । उक्तं च - ‘ वर्णागमो वर्णविपर्ययश्च ' ( का. ६.३. १०९ ) इति । ‘ अभीशवोऽभ्यश्नुवते कर्माणि ' ( निरु. ३. ९ ) इति निरुक्तम् ॥
 
 
Line २११ ⟶ २३९:
 
अग्निम् । मित्रम् । न । दर्शतम् ॥१३
 
हे ऋत्विक्समूह "तना तनया देवतास्वरूपं प्रकाशयन्त्या "गिरा वाचा "ब्रह्मणस्पतिं मन्त्रस्य हविर्लक्षणस्यान्नस्य वा पालकं मरुद्गणम् “अग्निं “दर्शतं दर्शनीयं “मित्रं “न मित्रमपि "जरायै स्तोतुम् "अच्छ आभिमुख्येन “वद ब्रूहि ॥ अच्छ।' निपातस्य च ' इति संहितायां दीर्घत्वम्। वद । ‘द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः । तना। तनु विस्तारे'। तनोति देवतामाहात्म्यं विस्तारयतीति तना । पचाद्यच् । वृषादित्वादाद्युदात्तत्वम् । तृतीयाया डादेशः। गिरा। ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । ब्रह्मणः । षष्ठ्याः पतिपुत्र' इति सहितायां सत्वम् ॥
 
 
Line २२४ ⟶ २५४:
 
गाय । गायत्रम् । उक्थ्यम् ॥१४
 
हे ऋत्विक्समूह “आस्ये स्वकीयमुखे “श्लोकं स्तोत्रं "मिमीहि निर्मितं कुरु । तं च श्लोकं “ततनः विस्तारय । तत्र दृष्टान्तः। “पर्जन्यइव । यथा मेघो वृष्टिं विस्तारयति तद्वत् । “उक्थ्यं शस्त्रयोग्यं “गायत्रं गायत्रीच्छन्दस्कं सूक्तं “गाय पठ॥ मिमीहि । 'माङ् माने। जौहोत्यादिकः । व्यत्ययेन परस्मैपदम् । ‘भृञामित्' इति अभ्यासस्य इत्वम् । आस्ये । “असु क्षेपणे ' । अस्यते क्षिप्यतेऽस्मिन्निति आस्यम् । ‘ कृत्यल्युटो बहुलम् ' ( पा. सू. ३. ३. ११३ ) इत्यधिकरणे ण्यत् । ‘ तित्स्वरितम् । इति स्वरितत्वम् । ततनः । ‘ तनु विस्तारे'। लेटि सिपि • बहुलं छन्दसि' इति विकरणस्य श्लुः । ‘लेटोऽडाटौ' इति अडागमः । इतश्च लोपः' इति इकारलोपः । गायत्रम् । गायत्र्याः संबन्धि । ‘ तस्येदम् ' इति अण् । यद्वा । गायतस्त्रायते इति गायत्रम् । आतोऽनुपसर्गे कः ॥
 
 
Line २३८ ⟶ २७०:
अस्मे इति । वृद्धाः । असन् । इह ॥१५
 
हे ऋत्विक्संघ “मारुतं मरुत्संबन्धिनं “गणं समूहं “वन्दस्व नमस्कुरु स्तुहि वा । कीदृशं गणम् । “त्वेषं दीप्तं “पनस्युं स्तुतियोग्यम् “अर्किणम् अर्चनोपेतम्। “अस्मे अस्माकम् “इह अस्मिन् कर्मणि "वृद्धा “असन् मरुतः प्रवृद्धा भवन्तु ॥ वन्दस्व । वदि अभिवादनस्तुत्योः' । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । पनस्युम् । ‘पन च ' इति स्तुत्यर्थो धातुः । असुन्। पनः स्तोत्रमात्मन इच्छतीति पनस्युः । सुप आत्मनः क्यच् ।“क्याच्छन्दसि' इति उप्रत्ययः। अर्किणम् । ऋच स्तुतौ ।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३८" इत्यस्माद् प्रतिप्राप्तम्