"ऋग्वेदः सूक्तं १.८५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७:
 
{{सायणभाष्यम्|
चतुर्दशेऽनुवाके नव सूक्तानि । तत्र ‘प्र ये' इति द्वादशर्चं प्रथमं सूक्तं गोतमस्यार्षम् । पञ्चमीद्वादश्यौ त्रिष्टुभौ । शिष्टा जगत्यः । मरुतो देवता । तथा चानुक्रान्तम्- प्र ये द्वादश मारुतं ह पञ्चम्यन्त्ये त्रिष्टुभौ ' इति । हशब्दप्रयोगादिदमादीनि चत्वारि सूक्तानि मरुद्देवत्यानि ॥ अभिप्लवषडहस्य चतुर्थेऽहनि आग्निमारुते एतत्सूक्तं मारुतनिविद्धानीयम् । सूत्रितं च - प्र ये शुम्भन्ते जनस्य गोपा इत्याग्निमारुतम् ' ( आश्व. श्रौ. ७. ७ ) इति ॥
 
 
प्र ये शुम्भ॑न्ते॒ जन॑यो॒ न सप्त॑यो॒ याम॑न्रु॒द्रस्य॑ सू॒नवः॑ सु॒दंस॑सः ।
Line ४९ ⟶ ५१:
 
रोदसी इति । हि । मरुतः । चक्रिरे । वृधे । मदन्ति । वीराः । विदथेषु । घृष्वयः ॥१
 
“ये “मरुतः “यामन् यामनि गमने निमित्तभूते सति “प्र “शुम्भन्ते प्रकर्षेण स्वकीयान्यङ्गानि अलंकुर्वन्ति “जनयो “न जाया इव । यथा योषितः स्वकीयान्यङ्गान्यलंकुर्वन्ति तद्वत् । कीदृशा मरुतः । “सप्तयः सर्पणशीलाः “रुद्रस्य “सूनवः । रोदयति सर्वमन्तकाले इति रुद्रः परमेश्वरः । तस्य पुत्राः । “सुदंससः शोभनकर्माणः । एतदेवोपपादयति । “हि यस्मात् मरुतः “रोदसी द्यावापृथिव्यौ “वृधे वृष्टिप्रदानादिना वर्धनाय “चक्रिरे कृतवन्तः । अतः सुदंसस इत्यर्थः । “वीराः विशेषेण शत्रुक्षेपणशीलाः “घृष्वयः घर्षणशीलाः । महीरुहशिलोच्चयादेर्भञ्जका इत्यर्थः । एवंभूतास्ते मरुतः “विदथेषु । विदन्त्येषु यष्टव्यतया देवानिति विदथा यज्ञाः। तेषु “मदन्ति सोमपानेन हृष्यन्ति ।। शुम्भन्ते । शुभ शुम्भ दीप्तौ' । भौवादिकः । जनयः । जायन्ते आस्वपत्यानीति जनयो जायाः। ‘ इन्सर्वधातुभ्यः इति इन्प्रत्ययः । यामन् । ‘ या प्रापणे ' । ‘ कृत्यल्युटो बहुलम्' इति बहुलवचनात् “ आतो मनिन्’ इति भावे मनिन् ।' सुपां सुलुक्° ' इति सप्तम्याः लुक् । सुदंससः । दंसः इति कर्मनाम । शोभनं दंसो येषाम् । सोर्मनसी अलोमोषसी ' इत्युत्तरपदाद्युदात्तत्वम् । चक्रिरे । ‘ हि च' इति निघातप्रतिषेधः । वृधे । “वृधु वृद्धौ । संपदादिलक्षणो भावे क्विप् । “सावेकाचः' इति विभक्तेरुदात्तत्वम् । मदन्ति । मदी हर्षे '। श्यनि प्राप्त व्यत्ययेन शप् । पादादित्वात् निघाताभावः । विदथेषु । ‘ विद ज्ञाने । ‘ रुविदिभ्यां कित्' इति अथप्रत्ययः । घृष्वयः । ‘ घृषु संघर्षे '। ‘ कृविघृष्वि° । इत्यादिना विन्प्रत्ययान्तो निपात्यते ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८५" इत्यस्माद् प्रतिप्राप्तम्