"ऋग्वेदः सूक्तं १.८५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २०४:
आ । गच्छन्ति । ईम् । अवसा । चित्रऽभानवः । कामम् । विप्रस्य । तर्पयन्त । धामऽभिः ॥११
 
मरुतः “अवतम् उद्धृतं कूपं यस्यां दिशि ऋषिर्वसति “तया “दिशा “जिह्मं वक्रं तिर्यञ्चं नुनुद्रे प्रेरितवन्तः । एवं कूपं नीत्वा ऋष्याश्रमेऽवस्थाप्य “तृष्णजे तृषिताय “गोतमाय ऋषये तदर्थम् “उत्सं जलप्रवाहं कूपादुद्धत्य "असिञ्चन् आहावेऽवानयन्। एवं कृत्वा “ईम् एनं स्तोतारमृषिं “चित्रभानवः विचित्रदीप्तयस्ते मरुतः “अवसा ईदृशेन रक्षणेन सह “आ “गच्छन्ति तत्समीपं प्राप्नुवन्ति । प्राप्य च “विप्रस्य मेधाविनो गोतमस्य “कामम् अभिलाषं “धामभिः आयुषो धारकैरुदकैः “तर्पयन्त अतर्पयन् ॥ तया। न गोश्वन्साववर्ण° ' इति ‘सावेकाचः० ' इति प्राप्तस्य विभक्त्युदात्तस्य प्रतिषेधः । दिशा । ‘ सावेकाचः० ' इति विभक्तेरुदात्तत्वम् । तृष्णजे । ‘ ञितृषा पिपासायाम् । स्वपितृषोर्नजिङ्' (पा. सू. ३. २. १७२ )। प्रत्ययाद्युदात्तत्वम् । पदकारस्य शाकल्यस्य त्वयमभिप्रायः। अन्येष्वपि दृश्यते' इति दृशिग्रहणात् केवलादपि जनेर्डप्रत्ययः । तृष्णा जाता यस्य स तथोक्तः । ‘ ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्' इति ह्रस्वत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । धामभिः । दधातेः ‘आतो मनिन् ' इति मनिन् ।
 
 
मारुते पशौ ‘ या वः शर्म' इति हविषो याज्या । 'प्रदानानाम्' इति खण्डे सूत्रितम्-‘अरा इवेदचरमा अहेव या वः शर्म शशमानाय सन्ति ' ( आश्व. श्रौ. ३. ७ ) इति ॥
 
या व॒ः शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ ।
Line २१६ ⟶ २२०:
 
अस्मभ्यम् । तानि । मरुतः । वि । यन्त । रयिम् । नः । धत्त । वृषणः । सुऽवीरम् ॥१२
 
हे मरुतः “वः युष्माकं संबन्धीनि “या यानि "शर्म शर्माणि सुखानि गृहाणि वा । कीदृशानि ।। “त्रिधातूनि पृथिव्यादिषु त्रिषु स्थानेष्ववस्थितानि “शशमानाय युष्मान् स्तुतिभिर्भजमानाय दातुं संपादितानि । पूर्वोक्तलक्षणानि शर्माणि यानि “सन्ति यानि च “दाशुषे हविर्दत्तवते यजमानाय “अधि “यच्छत अधिकं प्रयच्छथ हे “मरुतः “तानि सर्वाणि शर्माणि “अस्मभ्यं “वि “यन्त विशेषेण प्रयच्छत । किंच हे “वृषणः कामानां वर्षितारो मरुतः “नः अस्मभ्यं “सुवीरं शोभनैर्वीरैः पुत्रादिभिर्युक्तं “रयिं धनं “धत्त दत्त ।। या । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । शर्म । सुपां सुलुक् ' इति जसो लुक् । शशमानाय । ‘शश प्लुतगतौ । ताच्छीलिकः चानश् । यच्छत । छान्दसे लङि ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । यन्त । यमेर्लोटि ‘ बहुलं छन्दसि' इति शपो लुक् । 'तप्तनप्तनथनाश्च ' इति तस्य तबादेशः । अतस्तस्य पित्त्वेन ङित्त्वाभावात् १ अनुदात्तोपदेश° " इत्यादिना अनुनासिकलोपो न भवति । वृषणः । ‘ वा षपूर्वस्य निगमे ' इति उपधादीर्घाभावः । सुवीरम् । बहुव्रीहौ ‘ वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् ॥ ॥ १० ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८५" इत्यस्माद् प्रतिप्राप्तम्