"ऋग्वेदः सूक्तं १.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
 
{{सायणभाष्यम्|
‘ ऋजुनीती ' इति नवर्चं षष्ठं सूक्तं गोतमस्यार्षम् । अत्रानुक्रम्यते-- ऋजुनीती नव गायत्रमन्त्यानुष्टुप् ' इति । पूर्वत्र ‘ वैश्वदेवं तु ' इत्युक्तत्वात् तुह्यादिपरिभाषया इदमपि सूक्तं बहुदेवताकम् । सूक्तविनियोगो लैङ्गिकः । चातुर्विंशिकेऽहनि प्रातःसवने मैत्रावरुणस्य ऋजुनीती नः' इत्येषा आरम्भणीया । ‘ चतुर्विंशे ' इति खण्डे सूत्रितम् - ऋजुनीती नो वरुण इन्द्रं वो विश्वतस्परि' (आश्व. श्रौ. ७. २ ) इति । अहर्गणेषु द्वितीयादिष्वहःस्वप्येषारम्भणीया शंसनीया । सूत्रितं च - आरम्भणीयाः पर्यासान्कद्वतोऽहरहः शस्यानीति होत्रका द्वितीयादिष्वेव ' ( आश्व. श्रौ. ७. १ ) इति ।।
 
 
ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान् ।
Line ४३ ⟶ ४५:
 
अर्यमा । देवैः । सऽजोषाः ॥१
 
अहरभिमानी देवः “मित्रः, “वरूणः रात्र्यभिमानी। मित्रश्च वरुणश्च “विद्वान् नेतव्यमुत्तमं स्थानं जानन् “नः अस्मान् “ऋजुनीती ऋजुनीत्या ऋजुनयनेन कौटिल्यरहितेन गमनेन “नयतु अभिमतं फलं प्रापयतु । तथा “देवैः अन्यैरिन्द्रादिभिः “सजोषाः समानप्रीतिः “अर्यमा अहोरात्रविभागस्य कर्ता सूर्यश्चास्मानृजुगमनेनाभिमतं स्थानं प्रापयतु ॥ ऋजुनीती । ‘ सुपां सुलुक्°' इति तृतीयायाः पूर्वसवर्णदीर्घत्वम् ।
 
 
Line ५६ ⟶ ६०:
 
व्रता । रक्षन्ते । विश्वाहा ॥२
 
“ते “हि पूर्वोक्ता मित्रादयः “वस्वः वसुनो धनस्य “वसवानाः वासका आच्छादयितारः सर्वं जगद्धनेनाच्छादयन्तीत्यर्थः । अतः “ते मित्रादयः “अप्रमूराः अप्रमूर्च्छिता अमूढाः प्राज्ञाः सन्तः “महोभिः आत्मीयैस्तेजोभिः “विश्वाहा सर्वाण्यहानि । अत्यन्तसंयोगे द्वितीया । सर्वेष्वप्यहःसु “व्रता व्रतानि जगन्निर्वाहरूपाणि स्वकीयानि कर्माणि “रक्षन्ते पालयन्ति ॥ वस्वः । आगमानुशासनस्य अनित्यत्वात् नुमभावे ‘ जसादिषु च्छन्दसि वावचनम् ' इति : घेर्ङिति' इति गुणस्य विकल्पनादभावे यणादेशः । वसवानाः । ‘ वस आच्छादने । अस्मात् अन्तर्भावितण्यर्थात् लटः शानच् । ‘ बहुलं छन्दसि ' इति शपो लुगभावः । वर्णव्यापत्त्या मकारस्य वकारः । अप्रमूराः । ‘ मुर्छा मोहसमुच्छ्राययोः ' । अस्मात् संपदादिलक्षणो भावे क्विप् । राल्लोपः' इति छकारलोपः । प्रकृष्टा मूः प्रमूः । ततो मत्वर्थीयो रः । ‘ रो रि ' ( पा. सू. ८. ३. १४ ) इति रेफलोपः। न प्रमूरा अप्रमूराः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । रक्षन्ते । ‘ रक्ष पालने । व्यत्ययेन तङ् ॥
 
 
Line ६९ ⟶ ७५:
 
बाधमानाः । अप । द्विषः ॥३
 
“अमृताः अमरणधर्माणः “ते विश्वे देवाः “मर्त्येभ्यः मरणधर्मभ्यः “अस्मभ्यम् अनुष्ठातृभ्यः “शर्म अमृतलक्षणं सुखं "यंसन् यच्छन्तु प्रयच्छन्तु । किं कुर्वन्तः । “द्विषः अस्मदीयान् पापलक्षणान् शत्रून् “अप “बाधमानाः विनाशं प्रापयन्तः ॥ यंसन् । यम उपरमे '। लेटि अडागमः । सिब्बहुलं लेटि' इति सिप् । अमृताः । मृतं मरणं येषां नास्तीति अमृताः । ‘ नञो जरमरमित्रमृताः । इत्युत्तरपदाद्युदात्तत्वम् ॥
 
 
Line ८३ ⟶ ९१:
पूषा । भगः । वन्द्यासः ॥४
 
“वन्द्यासः सर्वैर्वन्दनीयाः स्तोतव्या नमस्कर्तव्या वा इन्द्रादयो देवाः “नः अस्माकं “पथः मार्गान् “वि “चियन्तु विचिन्वन्तु अशोभनेभ्यो मार्गेभ्यः सकाशात् पृथक्कुर्वन्तु । किमर्थम् । "सुविताय सुष्ठु प्राप्तव्याय स्वर्गादिफलाय ॥ पथः । शसि भस्य टेर्लोपः' इति टिलोपः । उदात्तनिवृत्तिस्वरेण शस उदात्तत्वम् । सुविताय । इण् गतौ ' इत्यस्मात् कर्मणि निष्ठा ।' तन्वादीनां छन्दसि बहुलमुपसंख्यानम् ' इति उवङ्। ‘ गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते सूपमानात् कः' इति उत्तरपदान्तोदात्तत्वम् । चियन्तु । चिञ् चयने । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । इयङ् । पादादित्वात् निघाताभावः । वन्द्यासः । ‘ वदि अभिवादनस्तुत्योः'। ऋहलोर्ण्यत् । ‘ ईडवन्दवृशंसदुहां ण्यतः' इति आद्युदात्तत्वम् । आज्जसेरसुक् ।।
 
 
अप्तोर्यामे सन्ति चत्वार्यतिरिक्तोक्थानि । तत्र चतुर्थे अच्छावाकातिरिक्तोक्थे । उत नो धियः । इत्येषा अनुरूपतृचस्य वैकल्पिकी तृतीया । सूत्रितं च - उत नो धियो गोअग्रा इति वानुरूपस्योत्तमा ( आश्व. श्रौ. ९. ११ ) इति ।
 
उ॒त नो॒ धियो॒ गोअ॑ग्रा॒ः पूष॒न्विष्ण॒वेव॑यावः ।
Line ९६ ⟶ १०८:
कर्त । नः । स्वस्तिऽमतः ॥५
 
हे “पूषन् पोषक देव हे “विष्णो व्यापनशील देव हे “एवयावः । एवैर्गन्तृभिरश्वैर्याति गच्छतीति एवयावा मरुद्गणः । हे मरुद्गण ते सर्वे यूयं “नः अस्माकं “धियः अप्तोर्यामलक्षणानि कर्माणि “गोअग्राः पश्वग्राणि पशुप्रमुखान्यस्मत्सकाशात् भ्रष्टैः पशुभिर्युक्तानि “कर्त कुरुत । अप्तोर्यामकर्मणश्च पशुप्राप्तिहेतुत्वमाम्नायते - ‘ यस्मात्पशवः प्रप्रेव भ्रंशेरन स एतेन यजेत ' ( तै. ब्रा. २. ७. १४. २ ) इति । "उत अपि च “नः अस्मान् “स्वस्तिमतः अविनाशिनः कुरुत ॥ एवयावः । ‘ इण् गतौ । ‘ इण्शीङ्भ्यां वन्' इति वन्प्रत्ययः । अस्मिन्नुपपदे ' या प्रापणे ' इत्यस्मात् ‘ आतो मनिन् ' इति वनिप् । संबुद्धौ ‘ वन उपसंख्यानम् ' ( पा. सू. ८. ३. १. १ ) इति नकारस्य रुत्वम् ॥ ॥ १७ ॥
 
 
ऋत्विगाद्यर्थमाहृतं मधुपर्कं • मधु वाताः' इति तृचेन ऋत्विगादिः प्रतिग्रहीतावेक्षेत । तथा च सूत्र्यते- ‘ मधु वाता ऋतायत इति तृचेनावेक्ष्य' ( आश्व. गृ. १. २४. १४ ) इति ।।
 
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
Line १०८ ⟶ १२४:
 
माध्वीः । नः । सन्तु । ओषधीः ॥६
 
“ऋतायते ऋतं यज्ञमात्मन इच्छते यजमानाय "वाताः वायवः “मधु माधुर्योपेतं कर्मफलं “क्षरन्ति वर्षन्ति प्रयच्छन्तीत्यर्थः । तथा “सिन्धवः स्यन्दनशीला नद्यः समुद्रा वा “मधु माधुर्योपेतं स्वकीयं रसं क्षरन्ति । एवं “नः अस्मभ्यम् “ओषधीः फलपाकान्ता ओषधयस्ताश्च “माध्वीः माधुर्योपेताः “सन्तु भवन्तु ॥ मधु । अस्मादुत्तरस्य मत्वर्थीयस्य : लुगकारेकाररेफाश्च वक्तव्याः । ( पा. सू. ४, ४. १२८. २ ) इति लुक् । ऋतायते । ऋतमात्मन इच्छति । 'सुप आत्मनः क्यच् । न च्छन्दस्यपुत्रस्य' इति ईत्वदीर्घयोर्निषेधः । अन्येषामपि संहितायां दीर्घत्वम् । क्यजन्तात् लटः शतृ । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । माध्वीः । मधोरञ् च ‘ ( पा. सू. ४. ४. १२९) इति मत्वर्थीयः अञ्प्रत्ययः । ‘ ऋत्व्यवास्त्व्य ' इत्यादौ अञि यणादेशो निपात्यते । ‘ वा छन्दसि । इति पूर्वसवर्णदीर्घत्वम् । ओषधीः । ओषः पाकः आसु धीयते इति ओषधयः । ‘ कर्मण्यधिकरणे च " इति किप्रत्ययः । ‘ कृदिकारादक्तिनः' इति ङीष् । जसि पूर्ववत् पूर्वसवर्णदीर्घः । दासीभारादिषु पठितत्वात् पूर्वपदप्रकृतिस्वरत्वम् । तच्च घञन्तमाद्युदात्तम् ।।
 
 
Line १२१ ⟶ १३९:
 
मधु । द्यौः । अस्तु । नः । पिता ॥७
 
“नक्तं रात्रिः “नः अस्माकं “मधु मधुमती माधुर्योपेतफलप्रदा भवतु। "उत अपि च “उषसः उषःकालोपलक्षितान्यहानि च मधुमन्ति भवन्तु । “पार्थिवं रजः पृथिव्याः संबन्धी लोकोऽस्माकं “मधुमत् माधुर्यविशिष्टफलयुक्तो भवतु । "पिता वृष्टिप्रदानेन सर्वेषां पालयिता “द्यौः द्युलोकोऽपि “मधु मधुयुक्तः भवतु ॥ पार्थिवम् । ‘ पृथिव्या ञाञौ ' (पा. सू. ४. १. ८५. २ ) इति प्राग्दीव्यतीयः अञ्प्रत्ययः । रजः । रजःशब्दो लोकवाची । “लोका रजांस्युच्यन्ते ' (निरु. ४. १९) इति यास्कः । रजन्त्यस्मिन् जना इति रजः । असुनि रजकरजनरजःसूपसंख्यानम् ' ( का. ६. ४. २४. ४ ) इति रञ्जेर्नलोपः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९०" इत्यस्माद् प्रतिप्राप्तम्