"ऋग्वेदः सूक्तं १.१५१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
 
{{सायणभाष्यम्|
‘ मित्रं न यम्' इति नवर्चमेकादशं सूक्तं दैर्घतमसं जागतं मैत्रावरुणम् । आद्या मैत्र्येव । अत्रानुक्रमणिका -- मित्रं नव मैत्रावरुणं हि जागतं मैत्र्याद्या ' इति । विनियोगो लैङ्गिकः ॥
 
 
मि॒त्रं न यं शिम्या॒ गोषु॑ ग॒व्यव॑ः स्वा॒ध्यो॑ वि॒दथे॑ अ॒प्सु जीज॑नन् ।
Line ४३ ⟶ ४५:
 
अरेजेताम् । रोदसी इति । पाजसा । गिरा । प्रति । प्रियम् । यजतम् । जनुषाम् । अवः ॥१
 
"यम् अग्निं “शिम्या । कर्मनामैतत्, ‘शिमी शक्तिः' (नि. २.१.२४) इति तन्नामसूक्तत्वात् । प्रकाशवृष्ट्युत्पादनादिकर्मणा “मित्रं “न मित्रमिव स्थितम् । यद्वा । शिम्या इत्येतत् क्रियया सह संबध्यते । “गोषु बह्वीषु निमित्तभूतासु “गव्यवः गा आत्मन इच्छन्तः । अत्र यद्यपि गव्यवः इत्येवालं न गोष्विति, तथापि गव्यव इत्यत्र गोस्वामित्वं प्रतिपाद्यते। तच्चैकया द्वित्राभिरपि स्यात् । अतः स्पृहणीया बह्वय इत्यवगमयितुं गोष्विति पदम् । यथा ‘गवामसि गोपतिः' (ऋ. सं. ७, ९८.६ ), गणानां त्वा गणपतिम् ' (ऋ. सं. २.२३.१ )। तथा “स्वाध्यः सुष्ठु अध्यातारः फलस्योत्पादयितारः शोभनध्वाना वा “विदथे यागे "अप्सु अन्तरिक्षे वैद्युतरूपेण वर्तमानम् । आप इत्यन्तरिक्षनाम, आपः पृथिवी ' (नि. १. ३.८) इति तन्नामसूक्तत्वात्। अग्नेरन्तरिक्षोत्पत्तिः यदग्ने दिविजा अस्यप्सुजा वा' (ऋ. सं. ८.४३. २८), ‘ अप्स्वग्ने सधिष्टव' (ऋ. सं. ८. ४३. ९) इत्यादिमन्त्रान्तरेषु प्रसिद्धा। “प्रियं सर्वेषां प्रियतमं प्रीणयितारं वा “यजतं यष्टव्यमग्निं “जनुषां जन्मवतां प्राणिनाम् “अवः “प्रति रक्षणं निमित्तीकृत्य शिम्या मथनादिकर्मणा "जीजनन् जनयन्ति यजमानाः । यद्वा । अप्सु निमित्तभूतासु जीजनन् सर्वप्राणिनामुपकाराय वृष्ट्यर्थं चेत्यर्थः । एवमुत्पन्नस्याग्नेः “पाजसा बलेन “गिरा भयंकरशब्देन च “रोदसी द्यावापृथिव्यौ "अरेजेताम् अकम्पेताम् । अग्नेः सकाशात् कम्पनम् ‘ अरेजेतां रोदसी होतृवूर्ये' (ऋ. सं. १. ३१.३ ) इत्यादिश्रुतिषु प्रसिद्धम् । न च सर्वरक्षणार्थम् उत्पादितोऽग्निः लोकद्वयस्य भीतिमजनयत् किमेतदिति वाच्यं निन्दास्तुतित्वात् । यथा लोकौ बिभीतस्तथा प्रवृद्धोऽभवत् इति स्तुतौ पर्यवसानात् । यद्यप्यत्राग्निरेव प्रतिपाद्यते मित्रस्तु परं दृष्टान्तित एव तथापि द्युस्थानस्याग्नेरेव मित्रत्वात् मन्त्रस्य मैत्रत्वमविरुद्धम् । यद्वा । मित्रं न सखायमिव स्थितं मित्रनामकं देवं यज्ञेऽन्तरिक्षे च ऋत्विजः प्रादुर्भावयन्ति । शिष्टम् एतद्विशेषेण तथैव योजनीयम् ॥
 
 
Line ५६ ⟶ ६०:
 
अध । क्रतुम् । विदतम् । गातुम् । अर्चते । उत । श्रुतम् । वृषणा । पस्त्यऽवतः ॥२
 
हे मित्रावरुणौ “यत् यस्मात् कारणात् “वां युवां “पुरुमीळ्हस्य बहुलाभीष्टसेचनस्य “सोमिनः “स्वाभुवः सोमवतः स्वाभवनशीलस्य ॥ कर्मणि षष्ठी ॥ “त्यत् उक्तलक्षणं कर्म “प्र “मित्रासो “न मित्राणीव मित्रभूता ऋत्विजः प्र “दधिरे प्रकर्षेण धारयन्ति । “ह इति पूरणः । “अध अतः कारणात् “गातुं युष्मद्गमनम् “अर्चते ॥ षष्य््र्थे चतुर्थी ॥ अर्चतः पूजयतो यजमानस्य “क्रतुं कर्म “विदतं जानीतम् ।। विदेर्लोटि व्यत्ययेन शः ॥ ”उत अपि च हे “वृषणा कामानां वर्षितारौ युवां “पस्त्यावतः । पस्त्या इति गृहनाम, पस्त्या दुरोणे' (नि. ३. ४. ६) इति तन्नामसूक्तत्वात् । सदःप्राचीनवंशादिगृहवतो यजमानस्याह्वानं स्तोत्रं वा “श्रुतं शृणुतम् ॥ छान्दसो विकरणस्य लुक् ॥ यद्वा । यद्यस्मात् सोमिनः सोमवतः पुरुमीळ्हस्यैतन्नामकस्य राज्ञो मित्रासो न मित्राणीव स्थिताः स्वाभुवः स्वाभवनशीलाः स्वस्वव्यापारसमर्था दधिरे अध अतः कारणात् तस्य अर्चते अर्चतः क्रतुं विदतमित्यादि पूर्ववत् ॥
 
 
Line ६९ ⟶ ७५:
 
यत् । ईम् । ऋताय । भरथः । यत् । अर्वते । प्र । होत्रया । शिम्या । वीथः । अध्वरम् ॥३
 
हे “वृषणा कामानां वर्षितारौ हे मित्रावरुणौ "वां युवयोः संबन्धि “जन्म जननम् उत्पत्तिम् "रोदस्योः द्यावापृथिव्योः सकाशात् । द्यावापृथिवीभ्यामेव सर्वेषामुत्पत्तेः । यद्वा । मित्र इति सर्वोपकारी अग्निरुच्यते वरुण इति तमोनिवारक आदित्यः उभयोः पृथिवीद्युस्थानत्वात् । ततः पूर्वमन्त्रे मित्रदृष्टान्तत्वेन अग्निः स्तुतः । अत इदमधिगम्यते अग्निरेव मित्र इति । तथान्यत्रापि । ‘अग्निं मित्रं न क्षितिषु प्रशंस्यम्' (ऋ. सं. २. २. ३ ), ‘मित्रं न ये सुधितं भृगवो दधुः' (ऋ. सं. ६. १५. २) इति च । “प्रवाच्यं स्तुत्यं तादृग्युवयोः जन्म “महे महते “दक्षसे सर्वविषयबलाय “क्षितयः मनुष्या यजमानाः “आ “भूषन् सर्वतोऽलंकुर्वन्ति श्लाघन्ते इत्यर्थः । जन्मनः प्रवाच्यत्वमाह। “यदीं यस्मादेव कारणात् । अथवा। ईम् इत्यनर्थकः । मिताक्षरेष्वनर्थकाः कमीमिद्विति' इत्युक्तत्वात् । “ऋताय यज्ञाय “भरथः सामर्थ्यम् । “यत् यस्माच्च कारणात् “अर्वते युष्मान् प्राप्तवते यजमानाय च भरथोऽभिमतं फलम् । अथवा । उभयत्र कर्मणः संप्रदानत्वात् चतुर्थी। यज्ञं यजमानं च भरथ इत्यर्थः । यस्माच्च “होत्रया स्तुतिरूपया वाचा “शिम्या हविष्प्रदानादिकर्मणा च “प्र “वीथः प्रकर्षेण प्राप्नुथः । तस्मात् प्रवाच्यं जन्म भूषयन्तीत्यर्थः । होत्रा इति वाङ्नाम, ‘होत्रा गीः ' ( नि. १. ११. ३५) इति तन्नामसु पाठात् ॥
 
 
Line ८२ ⟶ ९०:
 
युवम् । दिवः । बृहतः । दक्षम् । आऽभुवम् । गाम् । न । धुरि । उप । युञ्जाथे इति । अपः ॥४
 
हे “असुरा असुरौ बलवन्तौ मित्रावरुणौ युवयोः “या क्षितिः देवयजनरूपा “महि महदत्यधिकं “प्रिया प्रियतरा प्रीणयित्री वा "सा “क्षितिः “प्र प्रकर्षेण संपादिता । उपसर्गश्रुतेः योग्यक्रियाध्याहारः। तामासीदतमिति शेषः । यागभूमिर्देवानां प्रियेति प्रसिद्धम् । आसाद्य च हे “ऋतावानौ ऋतवन्तौ युवां "बृहत् प्रवृद्धम् “ऋतम् अस्मदीयं यज्ञम् “आ “घोषथः अवैकल्येन संपादितः इति स्तुतमित्यर्थः । यतः “युवं युवां "बृहतः महतः “दिवः द्युलोकस्य धुरि “दक्षं तर्पणवहने समर्थम् । अथवा बृहतो दिवो महतो द्युलोकस्थदेवान् दक्षं प्रीणयितुमिति शेषः । यद्वा । कर्मणि षष्ठी । दिवो द्योतनात्मकं बृहतः प्रभूतं दक्षम् अभिमतसाधनसमर्थम् । “आभुवं सर्वतो भवनशीलम् “अपः कर्म सोमयागरूपम् “उप "युञ्जाथे सेवेथे तत्रत्यं हविः स्वीकुरुथ इत्यर्थः । उपयोगे दृष्टान्तः । “धुरि शारीरबलस्य निर्वाहे तदर्थं “गां “न धेनुमिव । तां यथोपयुञ्जते तद्वत् । यद्वा । विकारे प्रकृतिशब्दः । क्षीरादिकमिव । तस्मात् ऋतम् आघोषथः॥
 
 
Line ९५ ⟶ १०५:
 
स्वरन्ति । ताः । उपरऽताति । सूर्यम् । आ । निऽम्रुचः । उषसः । तक्ववीःऽइव ॥५
 
हे मित्रावरुणौ युवां “मही महत्याम् ॥ सप्तम्येकवचने पूर्वसवर्णदीर्घः । ‘ईदूतौ च सप्तम्यर्थे । (पा. सू. १. १. १९) इति प्रगृह्यता ॥ "अत्र अस्यां पृथिव्यां “महिना महत्त्वेन या धेनूः “वारं वरणीयं प्रदेशम् “ऋण्वथः गमयथः । अन्तर्भावितण्यर्थोऽयम् । गमनादिव्यवहारस्य तयोरधीनत्वात् द्यावापृथिव्योः अभिमानिदेवत्वाच्च मित्रावरुणयोः । ता एताः “धेनवः गावः सायंकाले युष्मन्महत्त्वेन “अरेणवः अनवद्याः तस्कराद्यनपहारेण अनष्टा वा “तुजः क्षीराणां प्रदात्र्यः ॥ तुजतिः दानकर्मा ॥ “सद्मन सद्मनि गोष्ठे “आ आश्रिता आगच्छन्ति वा ।। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः।। ”ताः एवंकारिता धेनवः "उपरताति उपरतातौ ॥ सप्तम्या लुक् । मेघानां विस्तारवति अन्तरिक्षे मेघाच्छन्ने सति “सूर्यं सर्वस्य प्रसवितारं सुवीर्यं शोभनसामर्थ्यं वा । ‘सुवीर्यो मर्या यथा गोपायत इति तत्सूर्यस्य सूर्यत्वम् (तै. ब्रा. २. २. १०) इति श्रुत्यन्तरात् । आदित्यमभिलक्ष्य “स्वरन्ति शब्दयन्ति सुखसंचाराय ।। ‘ स्वृ शब्दोपतापयोः '। भौवादिकः ॥ कस्मिन् काले इति तदुच्यते । “निम्रुचः “उषसः । सर्वेष्वपि सायंकालेषु उषःकालेषु च । तत्र दृष्टान्तः । “तक्ववीरिव । तक्वा स्तेनः । तस्य वेता गन्ता मनुष्यः । स यथा क्रोशति तद्वत् । एवं निरुद्धानां गवां सुखचारः युष्मदायत्तः इति तयोः स्तुतिः ॥ ॥ २० ॥
 
 
Line १०८ ⟶ १२०:
 
अव । त्मना । सृजतम् । पिन्वतम् । धियः । युवम् । विप्रस्य । मन्मनाम् । इरज्यथः ॥६
 
हे मित्रावरुणौ “केशिनीः केशवत्योऽग्नेर्ज्वाला: “वां युवाम् "ऋताय यज्ञार्थम् “आ "अनूषत । हविःसमर्पणेनाभिपूजयन्तीत्यर्थः । कुत्रेति तदुच्यते । हे “मित्र हे “वरुण युवामुभौ “यत्र यागे “गातुं गमनं देवयजनदेशं वा । गातुरिति पृथिवीनाम, गातुः पूषा ' (नि. १. १. २०) इत्युक्तत्वात् ।। “अर्चथः पूजयथः स्वीकुरुथ इत्यर्थः । आगत्य च “त्मना आत्मनैव "अव “सृजतं वृष्टिम् अवाङ्मुखं विसृजतम् । तथा कृत्वा “धियः अस्मदीयानि कर्माणि “पिन्वतं वर्धयतम् इत्यर्थः । एवं कृत्वा “विप्रस्य मेधाविनः यजमानस्य “मन्मनां मननवतीनां स्तुतीनां “युवं युवाम् “इरज्यथः ईश्वरौ स्वामिनौ भवथः । इरज्यतिरैश्वर्यकर्मा, “ इरज्यति पत्यते ' ( नि. २. २१. १ ) इति तन्नामसु उक्तत्वात् ॥
 
 
Line १२१ ⟶ १३५:
 
उप । अह । तम् । गच्छथः । वीथः । अध्वरम् । अच्छ । गिरः । सुऽमतिम् । गन्तम् । अस्मयू इत्यस्मऽयू ॥७
 
यः "ह यः खलु यजमानः “वां युवामुद्दिश्य युवाभ्यां वा “यज्ञैः यागैर्निमित्तभूतैः “शशमानः शंसमानः “दाशति हविरादिकं स्वस्वत्वं निवर्त्य युष्मत्स्वत्वापादनं करोति । य एव “कविः अनूचानः ‘ येऽनूचानास्ते कवयः' (ऐ. ब्रा. २.२) इति श्रुतेः । अथवा कविर्मेधावी “होता सम्यग्होमनिष्पादको यजमानः “मन्मसाधनः मननीयद्रव्यदक्षिणादिसाधनोपेतः सन् "यजति सोमयागादिकं करोति । “तम् एव यजमानं °सुमतिं शोभनप्रज्ञम् "उप उपलक्ष्य “गच्छथः प्राप्नुथः खलु। “अध्वरं तदीयं यज्ञं “वीथः कामयेथे। किंच “अस्मयू अस्मान् कामयमानौ युवां “गिरः स्तुतीः "अच्छ अभिलक्ष्य “गन्तं गच्छतम् । तादृशं मां प्राप्य स्तुतीः स्वीकुरुतमित्यर्थः । अत्र यद्यपि तम् इति सामान्यनिर्देशः प्रतिभाति तथापि अस्मयू इत्युक्तत्वात् दीर्घतमाः स्वात्मानमेव परोक्षतया उक्तवानिति गम्यते । यद्वा । यो दाशति यश्च यजते तमुपेत्य तदीयं यज्ञं कामयेथे । अतोऽस्मयू युवां सुमतिं मां मदीया गिरः स्तुती: अच्छ अभिलक्ष्य गच्छतम् ॥
 
 
Line १३४ ⟶ १५०:
 
भरन्ति । वाम् । मन्मना । सम्ऽयता । गिरः । अदृप्यता । मनसा । रेवत् । आशाथे इति ॥८
 
हे “ऋतावाना यज्ञवन्तौ वृष्दट्युकवन्तौ वा मित्रावरुणौ “युवां “प्रथमा प्रथमौ “यज्ञैः यजनसाधनैः "गोभिः गोविकारैः पयआदिभिः “अञ्जते व्यञ्जयन्ति यजमानाः । देवभागं यागेषु क्षीरादिभिः
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५१" इत्यस्माद् प्रतिप्राप्तम्