"ऋग्वेदः सूक्तं १.१६०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २३:
 
{{सायणभाष्यम्|
‘ ते हि ' इति पञ्चर्चं चतुर्थं सूक्तं दैर्घतमसं जागतं द्यावापृथिव्यम् । ‘ते हि ' इत्यनुक्रान्तम् ॥ चतुर्विंशेऽहनि वैश्वदेवशस्त्रे द्यावापृथिव्यनिविद्धानमेतत्सूक्तं - ‘ते हि द्यावापृथिवी यज्ञस्य वो रथ्यमिति वैश्वदेवम् ' ( आश्व. श्रौ. ७. ४ ) इति सूत्रितत्वात् । तथा पृष्ठ्याभिप्लवषडहयोर्द्वितीयेऽहनि वैश्वदेवे द्यावापृथिव्यं निविद्धानीयं, चातुर्विंशिकं तृतीयसवनम् ( आश्व. श्रौ. ७. ६) इति आभिप्लविके द्वितीयेऽहनि अतिदिष्टत्वात्। आभिप्लविकात् द्वितीयादह्नः पृष्ठ्यस्य द्वितीयेऽहनि एतत्सूक्तमतिदेशतः प्राप्तं, ‘पृष्ठ्यस्याभिप्लवेनोक्ते अहनी आद्ये आद्याभ्याम् ' ( आश्व. श्रौ. ७. १०) इति सूत्रितत्वात् । प्रथमा आश्विनशस्त्रे विनियुक्ता । ‘ संस्थितेष्वाश्विनाय' इत्यत्र सूत्रितं - ते हि द्यावापृथिवी विश्वशंभुवा विश्वस्य देवीमृचयस्य ' ( आश्व. श्रौ. ६. ५) इति ।
 
 
ते हि द्यावा॑पृथि॒वी वि॒श्वश॑म्भुव ऋ॒ताव॑री॒ रज॑सो धार॒यत्क॑वी ।
 
Line ३४ ⟶ ३७:
 
सुजन्मनी इति सुऽजन्मनी । धिषणे इति । अन्तः । ईयते । देवः । देवी इति । धर्मणा । सूर्यः । शुचिः ॥१
 
“ते “हि ते खलु प्रसिद्धे “द्यावापृथिवी "अन्तः तयोरन्तराले “शुचिः शुद्धो विश्वस्य शोचयिता वा “देवः दीप्यमानः “सूर्यः “धर्मणा प्रकाशोदकदानादिधारणेन युक्तः सन् “ईयते सर्वदा गच्छति ॥ ‘ ईङ् गतौ'। दैवादिकः ॥ तादृशं कर्म युवयोरनुग्रहादिति स्तुतिः । कीदृश्यौ ते। “विश्वशंभुवा । विश्वं सुखभावयितृ ययोः ते विश्वशंभुवा । विश्वस्य सुखयित्र्यावित्यर्थः । “ऋतावरी ऋतवत्यौ ॥ ऋतशब्दात् छन्दसीवनिपौ' इति वनिप् । वनो र च' इति ङीब्रेफौ ॥ “रजसः उदकस्य उदकोत्पत्तौ । ‘ उदकं रज उच्यते ' ( निरु. ४. १९) इति निरुक्तम् । “धारयत्कवी अकृच्छ्रेण धारकं कवि ययोस्ते तादृश्यौ । उदकोत्पादनाय अप्रयत्नवत्यौ इत्यर्थः । यद्वा । धारयस्कविर्मनीषी आदित्यो ययोस्ते तादृश्यौ । वृष्ट्युदकधारयत्सूर्योपेते इत्यर्थः। "सुजन्मनी शोभनजन्मवत्यौ “धिषणे धर्षणोपेते स्वव्यापारेषु प्रगल्भे इत्यर्थः। “देवी द्योतमाने । अत्र यद्यपि धिषणे इत्येतत् ‘धिषणे रोदसी' (नि. ३. ३०. ३ ) इति तन्नामसु उक्तत्वात् द्यावापृथिवीनाम, तथापि द्यावापृथिवी इत्यस्य विद्यमानत्वात् यौगिकं द्रष्टव्यम् ।
 
 
Line ४७ ⟶ ५२:
 
सुधृष्टमे इति सुऽधृष्टमे । वपुष्येः इति । न । रोदसी इति । पिता । यत् । सीम् । अभि । रूपैः । अवासयत् ॥२
 
“उरुव्यचसा प्रभूतव्यचनवत्यौ अतिविस्तीर्णे “महिनी अत एव महत्यौ “असश्चता असज्जमाने परस्परवियुक्ते इत्यर्थः। "पिता पालयित्री द्यौः “माता निर्मात्री पृथिवी “च इत्युभे "भुवनानि भूतजातानि "रक्षतः पालयतः । ‘ द्यौष्पितः पृथिवि मातः' (ऋ. सं. ६. ५१. ५) इत्यादिश्रुतेर्मातापितृरूपत्वम् । किंच "सुधृष्टमे अतिशयेन धृष्टे ॥ छान्दसस्तकारलोपः ॥ प्रगल्भे “रोदसी द्यावापृथिव्यौ "वपुष्ये "न वपुषो हिते इव । प्राणिनां पितराविव शरीररक्षके इत्यर्थः । तदेवोपपादयति । “यत् यस्मात् “सीं सर्वतः “पिता पितृस्थानीयो द्यौः “रूपैः निरूपणसाधनैः प्रशस्तैः प्रकाशैः निरूप्यमाणैर्वृष्ट्यादिभिर्वा “अभि “अवासयत् अभिवासयति अधितिष्ठति तस्मात् पिता माता च भुवनानि रक्षतः ॥
 
 
Line ६० ⟶ ६७:
 
धेनुम् । च । पृश्निम् । वृषभम् । सुऽरेतसम् । विश्वाहा । शुक्रम् । पयः । अस्य । धुक्षत ॥३
 
“पित्रोः मातापित्रोर्द्यवापृथिव्योः ।। पिता मात्रा ' इति पिता शिष्यते । ‘ उदात्तयणः । इति पितुर्विभक्तिरुदात्ता ।। “पुत्रः पुरुत्राता पुत्रस्थानीयः आदित्यः पवित्रवान् 'पावनरश्मियुक्तः “धीरः धीमान् "सः “वह्निः फलस्य वोढा धारकः सन् 'मायया प्रज्ञया स्वकीयया “भुवनानि भूतजातानि “पुनाति पावयति प्रकाशयतीत्यर्थः । किंच स एव पुत्रः “पृश्निं शुक्लवर्णां “धेनुं प्रीणयित्रीं भूमिं “सुरेतसं शोभनसामर्थ्यं शोभनोदकं वा “वृषभं सेक्तारं द्युलोकं “च मायया पुनाति प्रकाशयतीत्यर्थः । कदा । "विश्वाहा सर्वाण्यप्यहानि सर्वकालमित्यर्थः । किंच “अस्य द्युलोकस्य । यद्वा ॥ कर्मणि षष्ठी । इमं द्युलोकम् । “शुक्रं “पयः दीप्तं पयःसदृशमुदकं “धुक्षत दोग्धि ॥ दुहेश्छान्दसे लुङि ‘ शल इगुपधादनिटः क्सः' इति च्लेः क्सादेशः ।। ईदृशो महानुभावः आदित्यस्तयोः पुत्रः इति द्यावापृथिव्योः स्तुतिः ॥
 
 
Line ७३ ⟶ ८२:
 
वि । यः । ममे । रजसी इति । सुक्रतुऽयया । अजरेभिः । स्कम्भनेभिः । सम् । आनृचे ॥४
 
पूर्वं पुत्रमाहात्म्येनैते प्रशस्य इदानीं स्वोत्पादकस्तुत्या प्रशंसति । “अयं “देवानां मध्ये देवतमः “अपसामपस्तमः । अप इति कर्मनाम । तेन तद्वान् लक्ष्यते । कर्मवतां मध्ये प्रकृष्टकर्मा । अयमित्युक्तं क इत्याह। “यः देवः “विश्वशंभुवा सर्वप्रकारेण भूतानां सुखस्य भावयित्र्यौ “रोदसी द्यावापृथिव्यौ महानुभावे "जजान उत्पादितवान् । न केवलमुत्पादनमात्रं अपि तु “यः देवः "रजसी रञ्जनात्मिके द्यावापृथिव्यौ । रजसी इति द्यावापृथिव्योर्नाम, ‘रजसी सदसी' (नि. ३. ३०.८) इति तन्नामसु पाठात् । उक्तरूपे “वि “ममे विशेषेण परिच्छिनत्ति । किं स्वोपभोगाय नेत्याह। “सुक्रतूयया शोभनकर्मेच्छया । येन कर्मणा प्राणिनां सुखं संभवति तादृक्कर्मेच्छया । अथवा एतदुत्तरत्र संबध्यते । सुक्रतूयया उक्तेन निमित्तेन इमे द्यावापृथिव्यौ "अजरेभिः अजीर्णैर्दृढतरैः "स्कम्भनेभिः गतिप्रतिबन्धसाधनैः शङ्कुभिः “समानृचे सम्यक् सर्वतः पूजितवान् स्थापितवानित्यर्थः ॥ ऋच स्तुतौ'। लिटि रेफसामान्यात् द्विहल्त्वमस्तीति तस्मान्नुड्द्विहलः' इत्यभ्यासस्य नुट् । यस्मादेवं तस्माद्यमेव देवः अयमेव अपस्तमः इत्येवंमहानुभावेन परमेश्वरेणोत्पन्ने इति स्तुतिः ॥
 
 
Line ८६ ⟶ ९७:
 
येन । अभि । कृष्टीः । ततनाम । विश्वहा । पनाय्यम् । ओजः । अस्मे इति । सम् । इन्वतम् ॥५
 
“ते प्रसिद्धे हे “द्यावाथिवी द्यावापृथिव्यौ “गृणाने अस्माभिः स्तूयमाने सत्यौ ॥ कर्मणि कर्तृप्रत्ययः ॥ “महि महदतिप्रभूतं “श्रवः सर्वत्र प्रसिद्धमन्नं सर्वत्र श्रूयमाणां कीर्तिं वा “नः अस्मभ्यं “धासथः धत्तम् ।। दधातेर्लेट्यडागमः । ‘ सिब्बहुलम्' इति सिप् । तथा “बृहत् अतिप्रभूतं “क्षत्रं बलं धासथः । तदेव विशेष्यते । “येन अन्नबलेन “विश्वहा सर्वेष्वपि अहःसु “कृष्टीः पुत्रादिरूपाः प्रजाः "अभि “ततनाम अभितो विस्तारयाम॥ तनोतेर्लोटि छान्दसो विकरणस्य श्लुः। ‘आडुत्तमस्य इति आडागमः । तस्य ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वात् अभ्यस्ताद्युदात्तत्वाभावे धातुस्वरः ॥ कृष्टय इति मनुष्यनाम, कृष्टयः चर्षणयः ' ( नि. २. ३. ७) इति तन्नामसु पाठात् । किंच “पनाय्यं स्तुत्यम् “ओजः शरीरबलम् “अस्मे अस्मासु सम्यक् “इन्वतं व्याप्नुतं प्रवर्धयतमित्यर्थः । इन्वतिर्व्यप्तिवचनः, ‘इन्वति ननक्ष' ( नि. २. १८. १ ) इति तन्नामसु पाठात् ॥ ॥ ३ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६०" इत्यस्माद् प्रतिप्राप्तम्