"ऋग्वेदः सूक्तं १.१६१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ८७:
धेनुः । कर्त्वा । युवशा । कर्त्वा । द्वा । तानि । भ्रातः । अनु । वः । कृत्वी । आ । इमसि ॥३
 
हे आगत देव "अग्निम् अङ्गनादिगुणविशिष्टं “दूतं दूतकर्म प्राप्तवन्तं त्वां “प्रति “यत् यत्कार्यम् "अब्रवीतन अब्रुवन् । व्यत्ययेन मध्यमः । पूर्ववत् तनप् ॥ किमिति “अश्वः "कर्त्वः । एकस्मादश्वादश्वान्तरं कर्तव्यमित्यर्थः । अश्वादश्वमतक्षत ' ( ऋ.सं. १. १६१. ७) इति वक्ष्यमाणत्वात् ॥ ‘ कृत्यार्थे तवैकेन्' इति त्वन्प्रत्ययः ॥ "उत अपि च “रथः कर्त्वः कर्तव्यः । “धेनुः कर्त्वा । चर्मरहिता मृता गौः नित्यदोग्ध्री पुनर्नूतना कार्या । तदुत्तरत्र ‘ निश्चर्मणो गामरिणीत धीतिभिः ' ( ऋ.सं. १. १६१. ७ ) इति वक्ष्यमाणत्वात् । तथा “द्वा द्वौ पितरौ जीर्णौ सन्तो पुनः “युवशा युवानौ शयानौ प्रकृष्टयौवनोपेतौ “कर्त्वा कर्तव्यौ । हे “भ्रातः अग्ने युष्माकं देवानां तैरुक्तानि कर्माणि कृत्वा “अनु पश्चात् “कृत्वी कृत्व्या कर्मणा “एमसि एमः आभिमुख्येन प्राप्नुमः ।। ‘ इण् गतौ । इदन्तो मसिः॥ यद्वा । ऋषेरिदं वाक्यम् । हे ऋभवः यूयमागतमग्निं दूतं प्रति यदब्रवीतन यत्कार्यं वक्ष्यमाणरूपं कर्तव्यत्वेन वदथ अङ्गीकुरुथ तानि सर्वाणि संपाद्य हे भ्रातरग्ने कृत्व्या कर्मणैमसीति ब्रूथेत्यृषिराह ॥
हे आगत देव "अग्निम् अङ्गनादिगुणविशिष्टं “दूतं दूतकर्म प्राप्तवन्तं त्वां “प्रति “यत् यत्कार्यम् "अब्रवीतन अब्रुवन् । व्यत्ययेन मध्यमः । पूर्ववत् तनप् ॥ किमिति “अश्वः "कर्त्वः ।
 
 
पङ्क्तिः १०१:
 
यदा । अवऽअख्यत् । चमसान् । चतुरः । कृतान् । आत् । इत् । त्वष्टा । ग्नासु । अन्तः । नि । आनजे ॥४
 
हे “ऋभवः “तत् कार्यं यथा 'चकृवांसः कृतवन्तो यूयम् "अपृच्छत प्रश्नं कुरुत ॥ करोतेर्लिटः क्वसुः । अत्र यद्यपि ऋभुरिति त्रयाणां मध्ये एकस्य नाम तथापि तस्य प्राथम्यात् ‘छत्रिणो गच्छन्ति ' इतिवत् सर्वेऽपि ऋभवः' उच्यन्ते । किमिति । “स्यः सः “दूतः क्वेदभूत् कुत्र गतः । स इत्युक्तं क इत्याह । “यः यो दूतः “नः अस्मान् “आजगन् आगमत् प्राप्तः । एवंभूते सति “यदा अयं त्वष्टा "चतुरः “कृतान् “चमसान् “अवाख्यत् अभिपश्यति ।। ख्यातेर्लुङि • अस्यतिवक्तिख्याति° इति च्लेः अङादेशः ॥ “आदित् अनन्तरमेव “त्वष्टा तस्य चमसस्योत्पादकः एतन्नामको देवः “ग्नासु स्त्रीषु । मेना ग्ना इति स्त्रीणाम्' ( निरु. ३. २१) इति निरुक्तम् । “अन्तः मध्ये “न्यानजे न्यक्तोऽभूत् । स्त्रियम् आत्मानम् अमन्यत इत्यर्थः ॥ अञ्जेर्लिटि तस्मान्नुड्द्विहलः' इति नुट् । छान्दसोऽनुनासिकलोपः ॥
 
 
Line ११४ ⟶ ११६:
 
अन्या । नामानि । कृण्वते । सुते । सचा । अन्यैः । एनान् । कन्या । नामऽभिः । स्परत् ॥५
 
“एनान् वक्ष्यमाणान् “हनाम “इति “यत् यदा “अब्रवीत् “त्वष्टा । पूजार्थं बहुवचनम् । एतच्छब्दस्य प्रकृतपरामर्शकत्वात् ऋभूणां प्रकृतत्वात् तेषां हननप्रसक्तिं दर्शयति। “ये "देवपानं देवैः पातव्यं 'चमसं ये ऋभवः “अनिन्दिषुः निन्दामकुर्वन्। देवयोग्यं त्वाष्ट्रचमसं मनुष्याः ऋभवः स्वीकृत्य चतुर्धा व्यभजन तान् हनामेति यदा अब्रवीदित्यर्थः । तदाप्रभृति मनुष्याः “सुते अभिषुते सोमे पानाय प्रस्तुते सति "सचा सह परस्परम् “अन्या “नामानि अन्यानि होत्रध्वर्यूद्गात्रादीनि “कृण्वते कुर्वन्ति । पूर्वनाम प्रच्छाद्य उपहवकाले ‘अध्वर्य उपह्वयस्व होतरुपह्वयस्व' इत्येवम् अन्यैरेव नामभिः आत्मानं त्वष्टृवधभीत्या प्रख्यापयन्तीत्यर्थः । पूर्वम् अन्यानि कथं प्रसक्तानीत्यत आह । “एनान् नरान् “कन्या स्वोत्पादयित्री माता “अन्यैः एव “नामभिः “स्परत् प्रीणयति ॥ ‘ स्पृ प्रीतिबलयोः '। लेट्यडागमः ॥ ॥ ४ ॥
 
 
Line १२७ ⟶ १३१:
 
ऋभुः । विऽभ्वा । वाजः । देवान् । अगच्छत । सुऽअपसः । यज्ञियम् । भागम् । ऐतन ॥६
 
पूर्वं सृष्टानां क्रमेण विनियोगमाह । “इन्द्रो “हरी "युयुजे । एतन्नामानावश्वौ रथे योजितवान् । तथा “अश्विना अश्विनौ “रथं योजितवन्तौ । तथा "बृहस्पतिः बृहतो मन्त्रस्य पालयिता एतन्नामको देवः “विश्वरूपां नानारूपोपेतां गाम् “उपाजत उपागमत् स्वीकृतवानित्यर्थः । यद्यप्यत्र गौरिति विशेषो न श्रुतः तथापि पूर्वं धेनुः कर्त्वेत्युक्तत्वात् पुरस्ताच्च ‘ये धेनुं विश्वजुवं विश्वरूपाम् ' (ऋ.सं. ४. ३३. ८) इति वक्ष्यमाणत्वाच्च विश्वरूपा गौरित्येवाध्यवसीयते । अत एव विश्वरूपाम् इत्यस्याश्वपङ्क्तिरिति केचन व्याचक्षते तदसत्। युष्मत्संपादितानि रथादीनि इन्द्रादयः स्वभागत्वेनाकल्पयन् । तस्मात् "ऋभुर्विभ्वा "वाजः च यूयं "देवान् इन्द्रादीन् “अगच्छत । गत्वा च हे “स्वपसः शोभनाश्वरथादिकर्मवन्तो यूयं “यज्ञियं यज्ञार्हं यज्ञसंबन्धिनं "भागं सोमरूपं देवत्वं प्राप्तैः सेवनीयम् “ऐतन प्राप्नुत । कर्मसामर्थ्येन हविर्भुजो भवतेत्यर्थः । इत्येवमृषिराह ॥
 
 
Line १४० ⟶ १४६:
 
सौधन्वनाः । अश्वात् । अश्वम् । अतक्षत । युक्त्वा । रथम् । उप । देवान् । अयातन ॥७
 
हे “सौधन्वनाः यूयं “निश्चर्मणः मृतायाः गोः सकाशात् उत्कृत्ताच्चमर्णः “गां नृतनां निः “अरिणीत निरगमयत उत्पादितवन्त इत्यर्थः । तेनैव चर्मणा संवीतां तत्सदृशीमन्यां धेनुं कृतवन्त इत्यर्थः । यद्यपि पूर्वमेव अश्वादीनां विनियोगः उक्तः तथापि तेषामत्यन्तदुःखसंपादत्वज्ञापनाय पुनराह । न केवलं गोकरणमेव अपि च “या “जरन्ता यौ जीर्णौ पितरौ “ता तौ “युवशा युवानौ “अकृणोतन अकुरुत । किंच “अश्वादश्वम् एकेन विद्यमानेनाश्वेन अश्वान्तरम् “अतक्षत प्रयत्नेन संपादितवन्तः । यस्मादेवं कृतवन्तस्तस्मात् “रथं युष्मदीयं “युक्त्वा अश्वैर्योजयित्वा "देवान् इन्द्रादीन् “उप “अयातन देवसमीपं प्राप्नुत ॥ इदमुंदकं पिबतेत्यब्रवीतनेदं वा वा पिबता मुञ्जनेजनम् । सौधन्वना यदि तन्नेव हर्यथ तृतीये घा सवने मादयाध्यै ॥ ८ ॥
 
 
Line १५३ ⟶ १६१:
 
सौधन्वनाः । यदि । तत् । नऽइव । हर्यथ । तृतीये । घ । सवने । मादयाध्वै ॥८
 
इदानीमृषिः देवैरुक्तमर्थं तान् संबोध्य यूयम् ऋभून् एवमुक्तवन्तः स्थ इति अनुवाचयति। हे “सौधन्वनाः सुधन्वनः पुत्राः यूयम् “इदमुदकं सोमलक्षणं “पिबतेत्यब्रवीतन इत्युक्तवन्तः ॥ ब्रवीतेर्लङि मध्यमबहुवचनस्य तस्य तनबादेशे पित्त्वात् ‘ब्रुव ईट्' (पा. सू. ७. ३. ९३ ) ॥ एतत् प्रातःसवनिकाभिप्रायम् । “वा अथवा । “घ इत्यनर्थकः प्रसिद्ध्यर्थो वा । “इदं “मुञ्जनेजनम् । मुञ्जवान्नाम पर्वतः सोमोत्पत्तिस्थानम् । तत आहृतत्वात् तेन मुञ्जतृणेन शोधितं अपगततृणमित्यर्थः । इदं सोमरसरूपमुदकं “पिबत इत्यब्रवीतन । एतत् माध्यंदिनसवनाभिप्रायम् । हे ऋभवः यूयं “तत् उभयसवनसंबन्धि सोमपानकार्यं “नेव हर्यथ नैव कामयथ । हर्यतिः कान्तिकर्मा, ‘ हर्यति उशिक्' (नि. २. ६. १० ) इति तत्कर्मसु पाठात् । “तृतीये “सवने तु "मादयाध्वै अत्यर्थं तृप्ताः भवथ । ‘ ऋभवो देवाः सोमस्य मत्सन्' इति तृतीयसवने तेषां सोमपानसद्भावात् । एवं यूयमृभूनुक्तवन्तः । अथवा ऋभून्प्रति तस्यैव इदं वाक्यम् । हे सौधन्वनाः यूयं देवत्वं प्राप्य देवयजनं प्रति सोमपानाय रथेनागत्य श्रान्तानश्वान् प्रातःसवने इदमुदकं सोमलक्षणं पिबतेत्यब्रवीतन । तत्र यदि नेच्छथ इदं वा मुञ्जनेजनं मुञ्जेन दूषितं वाजिनं पिबतेत्यब्रवीतन पश्चात् तत् द्वयं यदि नेव हर्यथ हे अश्वा यूयं तृतीये सवने मादयध्वै । तत्रापि वाजिनप्रचारात् ॥
 
 
Line १६६ ⟶ १७६:
 
वधःऽयन्तीम् । बहुऽभ्यः । प्र । एकः । अब्रवीत् । ऋता । वदन्तः । चमसान् । अपिंशत ॥९
 
चमचतुर्धाकरणकाले किमिति सत्यं वदन्तो व्यभजन्निति तदाह । “एकः त्रयाणामन्यतमः “आपो “भूयिष्ठाः “इति “अब्रवीत नहि उदकात् प्रशस्तं लोकोपकारकं तत्त्वान्तरमस्ति । आपो भूयिष्ठाः इति ऋतम् अवादीत् । अपामेव श्रेष्ठत्वम् अप एव ससर्जादौ ' (मनु. १.८) इत्यादिशास्त्रात्। तथा “अन्यः “अग्निर्भूयिष्ठ “इति “अब्रवीत् । आन्तरं बाह्यं च दाहपाकभुक्तजरणादिव्यापारेण अग्नेरेव जगन्निर्वाहकत्वादग्नेरेव भूयिष्ठत्वम् इत्येव मन्यते । तथा “वधर्यन्तीम् । वधरिति रेफान्तः अपि वज्रनाम, ‘वधः अर्कः ' (नि. २. २०, ७) इति तन्नामसु पाठात् । तदिच्छति वृष्ट्युदकायेति वधर्यन्ती मेघपङ्क्तिरुच्यते । यद्यपीयं स्ववधार्थं वज्रं स्वयमेव नापेक्षते तथापि वृष्ट्यर्थम् इन्द्रवज्रेण हन्यमानत्वात् तदिच्छतीत्युपचर्यते । यद्वा । बहुभ्यः तेषामर्थाय वधर्यन्तीं वधमात्मन इच्छन्ती भूमिम् ॥ छान्दसो रेफोपजनः । तामेव “एकः “बहुभ्यः संवादिभ्यः श्रेष्ठतमाम् “अब्रवीत् । उदकस्यापि मेघकारणत्वात् । एवम् “ऋता ऋतानि उक्तरूपाणि यथार्थानि वाक्यानि “वदन्तः परस्परं ब्रुवन्तः “चमसान् “अपिंशत अवयविनोऽकुरुत चतुर्धा व्यभजत इत्यर्थः॥ ‘पिश अवयवे'। ‘शे मुचादीनाम ' इति नुम् । इदमेव ऋतवदनम् अपेक्ष्य ऋभुशब्दं व्याचक्षाणो यास्कः - ‘ ‘ऋभव उरु भान्तीति वर्तेन भान्तीति वर्तेन भवन्तीति वा' (निरु. ११, १५) इत्युक्तत्वात् ।।
 
 
Line १७९ ⟶ १९१:
 
आ । निऽम्रुचः । शकृत् । एकः । अप । अभरत् । किम् । स्वित् । पुत्रेभ्यः । पितरौ । उप । आवतुः ॥१०
 
अत्र ऋभव एव ऋत्विग्रूपेण स्थित्वा सर्वत्र यज्ञं निर्वहन्तीत्याह। "श्रोणां शोणम् ॥ ‘ वा छन्दसि ' इति पररूपाभावः ।। शोणवर्णम् “उदकं रुधिरम् “एकः ऋभुषु मध्ये ऋत्विक् “गाम् “अवाजति बाह्यभूमिं प्रति गमयति रक्षोभागत्वेन स्थापयति । तथा “एकः "मांसं "सूनया छेदनसाधनेन स्वधितिना “आभृतं संपादितं “पिंशति हृदयजिह्वावक्षआद्याकारेण आहृतं संपादितं मांसं पिंशति अवयवीकरोति स्वधितिना तत्तद्वयवान् विभजतीत्यर्थः । अथ “एकः “निम्रुचः निःशेषेण छिन्नात् मांसात् “शकृत् कुक्षिस्थं जरत्तृणम् ऊबध्यनामकम् “अपाभरत् अपाहरन्निरसनाय । एवमृत्विग्रूपेण स्थितेभ्यः “पुत्रेभ्यः पुरुत्रातृभ्यः पुत्रस्थानीयेभ्य ऋभुभ्यः सर्वेष्वनुष्ठितेषु “पितरा यज्ञस्य पालयितारौ जायापती “किं “स्वित् "उपावतुः किं नु खलु प्राप्नुतः ॥ अवतेः प्राप्त्यर्थाच्छान्दसो लिट् ॥ सर्वं तैरेवानुष्ठितमिति तयोर्न किंचित्कृत्यमस्तीत्यर्थः । अथवायमर्थः । एकस्तेषामन्यतमः श्रोणां पङ्गुकां गामुदकं प्रत्यवगमयति । अपरः सूनया मांसविक्रयिण्या आभृतं संपादितं मांसं पिंशति । अपर आ निम्रुचः अस्तमयादर्वागेव शकृत् गोपुरीषं हरति । एवम् ऋभुभिरनुष्ठिते सति किं स्विदेतस्मात् परिचरणात् अन्यत् पुत्रेभ्यः सकाशात् उपावतुः उपगच्छेतामिति ॥ ॥ ५ ॥
 
 
Line १९२ ⟶ २०६:
 
अगोह्यस्य । यत् । असस्तन । गृहे । तत् । अद्य । इदम् । ऋभवः । न । अनु । गच्छथ ॥११
 
पुराणप्रसिद्धान् सुधन्वनः पुत्रान् कर्मणा देवत्वं प्राप्तवतः ऋभून् स्तुत्वा वेदप्रसिद्धया सूर्यरश्मिरूपान् ऋभून् इदानीं स्तौति । तथा च यास्को निरुक्ते पुराणप्रक्रिया सिद्धानृभून् बहुधा निरुच्य तदुदाहरणत्वेन ‘ विष्ट्वी शमी ' इत्येतामुदाहृत्य • आदित्यरश्मयोऽप्यृभव उच्यन्ते' ( निरु. ११. १६) इत्युक्त्वा तस्मिन्नर्थे एतामृचमुदाजहार । हे “ऋभवः उरु प्रभूतं भासमानाः ऋतेन आदित्येन भासमाना वा ऋतेनोदकेन उदकार्थमुत्पन्ना वा । रश्मीनामुरुभासमानत्वं प्रसिद्धम् । तथा आदित्यादुत्पत्तिरपि । उदकार्थं भवनमपि रश्मीनां घर्मकाले भूमिगतं सारमादाय पुनः वर्षकाले प्रवर्षन्तीति प्रसिद्धम् ।' आदित्याज्जायते वृष्टिः' (मनु. ३.७६ ) इति शास्त्रात् । तथाविधाः “नरः प्रकाशवृष्ट्युकादेर्नेतारः यूयम् "उद्वत्सु उन्नतेषु प्रदेशेषु मेर्वादिषु “तृणं व्रीहियवादिरूपम् “अस्मै प्राणिजाताय तदुपकारार्थम् “अकृणोतन कृतवन्तः स्थ ॥ ‘उपसर्गाच्छन्दसि धात्वर्थे ' इति वतिः ।। तथा “निवत्सु प्रवणदेशेषु अस्मै एव “अपः उदकानि अकृणोतन अकुरुत । किं स्वभोगार्थं नेत्याह । “स्वपस्यया शोभनकर्मेच्छया । शोभनं कर्म एभिः कृतमिति यथा यजमानाः स्तुवन्ति तदिच्छयेत्यर्थः। किंच यूयम् “अगोह्यस्य अग्राह्यस्यादित्यस्य “गृहे मण्डले “यत् यावत्कालम् “असस्तन सुप्तवन्तः स्थ रात्रौ निर्व्यापारास्तिष्ठथ ॥ ‘ षस स्वप्ने '। अस्माल्लङि पूर्ववत्तस्य तनबादेशः । अदादित्वात् शपो लुक् । “तत् तावन्तं कालम् “अद्य अहनि “इदम् इदानीं “नानु “गच्छथ अनुसृत्य न गच्छथ ।। यावन्तं कालं रात्रौ सूर्ये निगूढा वर्तध्वे तावन्तमेव कालम् अहन्यपि नानुगच्छथेत्यर्थः । यद्वा । अगोपनीयस्य तस्य गृहे अन्तरिक्षे यत् यावन्तं कालम् असस्तन वृष्टिम् अदत्त्वा स्वापमकुरुत तत्तावन्तं कालम् अद्येदानीं वर्षसमये इदं सस्याभिवर्धनवृष्टिप्रवाहरूपं कर्म नानु गच्छथ अनुसृत्य न प्राप्नुथ । यावन्तं कालं विवर्षथ तावन्तमेव कालं प्रवर्षथेत्यर्थः ॥
 
 
Line २०५ ⟶ २२१:
 
अशपत । यः । करस्नम् । वः । आऽददे । यः । प्र । अब्रवीत् । प्रो इति । तस्मै । अब्रवीतन ॥१२
 
हे ऋभवः रश्मयः यूयं “यत् यदा “भुवना भूतजातानि “संमील्य संमीलनं कृत्वा जलधरपटलैराच्छाद्य “पर्यसर्पत परितः सर्पणं कुरुथ वर्षथेत्यर्थः । “तात्या तातौ तायमाने वृष्ट्युदके । यद्वा । तात्या तासु वर्षासु ॥ छान्दसस्त्यप्रत्ययो दकारस्यात्वं च ॥ अथवा पितृविशेषणम् । तात्या तत्कालीनौ “पितरा जगतः पालकौ सूर्यचन्द्रमसौ “क्व “स्वित् "आसतुः कुत्र खलु तिष्ठतः ॥ अस्तेर्लिटि व्यत्ययेन भूभावाभावः । यद्वा । असतेर्गत्यर्थस्य लिटि एतद्रूपम् ॥ अहोरात्रविभागेन प्रवर्षयथेत्यर्थः । किंच ईदृशान् “वः युष्मान् “यः कोऽपि वृष्टिप्रतिबन्धकारी राक्षसादिः “करस्नम् । बाहुनामैतत् , ‘करस्नौ बाहू ' (नि. २. ४. ७ ) इत्युक्तत्वात् । अत्र तु अकारान्तम् । युष्मदीयं हस्तम् “आददे गृह्णाति प्रतिरोधं करोति तम् “अशपत नाशयथ । “यः च “प्राब्रवीत् प्रकर्षेण वाचा निरुन्द्धे “तस्मै “प्रो प्रैव “अब्रवीतन प्रकर्षेण भर्त्सनादिशब्दं कुरुथ । यद्वा । यो नूनं स्तौति तं प्रकर्षेण स्तुतेत्यर्थः ॥
 
 
Line २१८ ⟶ २३६:
 
श्वानम् । बस्तः । बोधयितारम् । अब्रवीत् । संवत्सरे । इदम् । अद्य । वि । अख्यत ॥१३
 
हे “ऋभवः रश्म्यात्मका: यूयं "सुषुप्वांसः आदित्यमण्डले स्वपन्तो वर्षणाय ॥ स्वपेर्लिटः क्वसुः ॥ तमादित्यं “तत् वाक्यम् “अपृच्छत प्रश्नं कुरुथ । किं तदिति चेत् उच्यते । हे “अगोह्य केनचिदगोपनीयादित्य स्वामिन् “नः अस्मदीयम् “इदं कर्म वर्षणरूपं “कः "अबूबुधत् बोधयति प्रेरयति साहाय्यं करोति । बुधेर्ण्यन्तात् लुङि चङि रूपम् ॥ “बस्तः सर्वस्य वासयिता आदित्यः । वसेरौणादिकस्तप्रत्ययः । बवयोरभेदात् बत्वम् ॥ "बोधयितारं प्रेरयितारं “श्वानम् "अब्रवीत् अन्तरिक्षे श्वसन्तं वायुं प्रावादीत् । असौ युष्मान् प्रेरयतीति । अथ वायुसहायेन वर्षन्तो यूयं “संवत्सरे पूर्णे “अद्य इदानीम् “इदं जगत् “व्यख्यत विविधं प्रकाशितवन्तः । पूर्वं सूर्याचन्द्रमसौ यथा न दृश्येते तथा वर्षित्वा इदानीं वर्षकालेऽतीते विश्वं जगत् व्यक्तं कुरुथेत्यर्थः ॥ ख्यातेर्लुङि ‘अस्यतिवक्तिख्याति' इति अङ् ॥
 
 
Line २३१ ⟶ २५१:
 
अत्ऽभिः । याति । वरुणः । समुद्रैः । युष्मान् । इच्छन्तः । शवसः । नपातः ॥१४
 
हे “शवसः वृष्टिकार्यस्य बलस्य "नपातः नपातयितारः ऋभवः “युष्मान् “इच्छन्तः वृष्ट्यनुकूलचिकीर्षया युष्मानेवेच्छन्तः सर्वे देवा आयान्ति । कस्मादिति तदुच्यते । “मरुतः वृष्ट्यनुकूलाः देवाः "दिवा द्युलोकात् “यान्ति आगच्छन्ति ।। ‘सावेकाचः०' इति तृतीयाविभक्तेरुदात्तत्वम् ।। “भूम्या भूमेः सकाशात् “अग्निः याति आगच्छति । “अयं “वातः सर्वदा संचारी वायुः “अन्तरिक्षेण “याति अन्तरिक्षादायाति । तथा “वरुणः आवरको जलाभिमानी देवः समुद्रै समुन्दनस्वभावैः “अद्भिः ताभ्य आयाति । यद्वा पूर्वं वृष्टिसाहाय्याय आगता एते देवाः कृतकार्याः सन्तः पुनर्युष्मान् कामयमानाः स्वस्वदेशं प्रति यान्तीत्यर्थः ॥ ॥ ६ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६१" इत्यस्माद् प्रतिप्राप्तम्