"काठकसंहिता (विस्वरः)/स्थानकम् ०७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५४:
सं पश्यामि प्रजा अहमिति सर्वा एव प्रजा अवरुन्द्ध इडप्रजसो मानवीरित्यैडीर्हि प्रजा मानवीर्ये च वै ग्राम्याः पशवो ये चारण्यास्त उभये नक्तँ संसृज्यन्ते तस्मादपि येऽल्पाः पशवस्ते नक्तं बहव इव दृश्यन्ते त ईश्वरा अमुं लोकमनुपदो यदेतद्यजुर्वदत्यस्मिन्नेवैनांल्लोके यच्छत्यग्निर्वा एतस्यास्मिंल्लोकेऽग्रे जायते य आहिताग्निस्सोऽस्य पशूनुपजायमानान् हिनस्त्युप त्वाग्ने दिवे दिव इत्युपैवैनं जायमानेभ्यश्शमयति दोषावस्तर्धिया वयं नमो भरन्त एमसीति नमस्वत्योपास्थित राजन्तमध्वराणां गोपामृतस्य दीदिविम् । वर्धमानँ स्वे दम इति वृधद्वत्या स नः पितेव सूनवेऽग्ने सूपायनो भव सचस्वा नस्स्वस्तय इति स्वस्तिमत्याग्ने त्वं नो अन्तम इत्येतद्ध वै दिवोदासो भैमसेनिरारुणिमुवाचाग्निमादधिवाँसमुद्गातः केन गार्हपत्य उपस्थेय इति तस्मै हैता उवाच स होवाचाभिरुपस्थेयोऽग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्य इत्येषा वा अग्नेः प्रिया तनूर्या वरूथ्या प्रिययैवैनं तन्वोपास्थित द्विपदाभिर्द्विपात् पुरुषो गृहा गार्हपत्यो गृहेष्वेव प्रतितिष्ठति तिस्रः पूर्वाश्चतस्र एतास्तास्सप्त सप्त ग्राम्याः पशवस्तानेवावरुन्द्ध ऊर्जा वः पश्याम्यूर्जा मा पश्यतेत्यूर्जमेव गृहेषु पशुष्वात्मन् धत्तेऽथो या अमूरिष्टका उपधत्ते ता एवैतत् कल्पयतीडास्स्थ मधुकृत इतीडा ह्येता मधुकृतस्स्योना माविशतेरंमद इति स्योना ह्येता इरया सहाविशन्ति मयि वो रायश्श्रयन्ताँ सहस्रपोषं वः पुषेयमिति साहस्रीमेव पुष्टिं न्यङ्क्ते वत्सं पराहन्ति वत्सनिकान्ताः पशवः पशूनामनुक्शात्या अभिका एनं पशवो भवन्त्यथो इष्टकामेवैतां गार्हपत्य उपाधत्ते ।। ८॥
 
महि त्रीणामवोऽस्त्वित्येष प्राजापत्यस्त्रिचः प्राजापत्या इमाः प्रजास्सर्वा एव प्रजा अवरुन्द्धे प्रजापतिर्वा एताः प्रजापतिमेवैतदुपेत्य सर्वमाप्त्वा सर्वमवरुध्य सोमानँ स्वरणं कृणुहि ब्रह्मणस्पत इति ब्राह्मणस्पत्या ब्रह्मवर्चसमेवैतयात्मन् धत्ते वैश्वदेवीर्वा एता वैश्वदेवीरिमाः प्रजा ब्रह्मणो योनेः प्रजाः प्रजायन्ते यदेषा ब्राह्मणस्पत्या ब्रह्मण एवैना योनेः प्रजनयत्येताभिर्वा अदितिः पुत्रानन्वैक्षत यत् सोममाहरन्नमुष्माल्लोकात् स्वस्ति पुनरागच्छन् सह सोमेन यमेव कामं कामयते तँ स्पृणोति यं कामयेत स्वस्ति पुनरागच्छेदिति तमेताभिरन्वीक्षेत स्वस्त्येव पुनरागच्छति ॥ कदा चन स्तरीरसि परि ते दूडभो रथ इति स्तोमस्यैवैतद्योगः कदा चन स्तरीरसीत्येतद्ध वा आरुणिरुवाच न तावद्रात्रीँ स्तर्यमुवस यावदेतामृचमशृणवमिति न रात्रीँ स्तर्यं वसति य एवं वेद गायत्रो वा अग्निर्गायत्रच्छन्दास्तं छन्दसा व्यर्धयति यद्विच्छन्दोभिरुपतिष्ठते यदेषा गायत्र्युत्तमा स्वेनैवैनं छन्दसा समर्धयति सर्वं वा एष आप्त्वा सर्वमवरुध्य स्वर्गं लोकमेति योऽग्निमुपतिष्ठते व्यस्य प्रजा छिद्यते यत् पुत्रं ह्वयति प्रजामेवानुसंतनोति मानुषमिव वा एतदुपावर्तत यत् पुत्रं ह्वयत्यच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदीति देवलोकं चैव मनुष्यलोकं च संतनोत्युभौ लोका आजयति ॥ निम्रदोऽसीत्यव तं गृह्णाति योऽस्य पश्चाद् भ्रातृव्योऽभिभूरसीत्यभि तं भवति य एनेन सदृङ् प्रभूरसि प्राहं तमतिभूयासमित्यति तं क्रामति य एवैनं पूर्वोऽतिक्रान्तो भ्रातृव्यः पूषा मा प्रपथे पातु पूषा मा पशुपाः पातु पूषा माधिपतिः पात्वितीयं वै पूषा प्रपथेऽन्तरिक्षं पशुपा द्यौरधिपतिरिम एवैनं लोकाः पान्त्यग्निं समिन्धेऽनुसंतत्यै प्राची दिगग्निर्देवतेत्येता एव स देवता ऋत्वा पराभवति य एनमेताभ्यो दिग्भ्योऽभिदासति ज्योतिषे तन्तव आशिषमाशास इत्याशिषमेवाशास्ते योऽस्य प्रियः पुत्रस्स्यात् तस्य नाम गृह्णीयात् तस्मिन्नेव ता आशिषो दधाति ॥ ९ ।।
 
अहर्वावासीन्न रात्री सा यमी भ्रातरं मृतं नामृष्यत तां यदपृच्छन्यमि कर्हि ते भ्रातामृतेत्यद्येत्येवाब्रवीत् ते देवा अब्रुवन्नन्तर्दधामेदं रात्रीं करवामेति ते रात्रीमकुर्वँस्ते रात्र्यां भूतायां पशून्नापश्यन् सावेन्न वै पश्यन्तीति सा न व्यौच्छदरेत्क्लस्यत् पशषु तान् देवा इच्छन्तः पल्यायन्त ताँश्छन्दोभिरन्वपश्यँस्तस्माच्छन्दोभिर्नक्तमग्निरुपस्थेयः पशूनामनुक्शात्यै नास्मात् पशवस्तिरोभवन्ति य एवं वेद सावेदनु वा अख्यन्निति सा व्यौच्छत् ते देवा अब्रुवन्नमा वै नो वस्वभूदिति सामावस्यामा ह वा अस्य वसु भवति विन्दतेऽन्यस्य वसु नास्यान्यो वसु विन्दते य एवं विद्वानग्निमुपतिष्ठते।। देवा वा अह्नो रक्षाँसि निरघ्नँस्तानि रात्रीं प्राविशँस्तां देवा न व्येतुमधृष्णुवँस्त इन्द्रमब्रुवँस्त्वं वै न ओजिष्ठोऽसि त्वमिमां वीहीति स्तुत मेत्यब्रवीन्नास्तुतो वीर्यं कर्तुमर्हामीति तेऽब्रुवन्नेष तेऽग्निर्नेदिष्ठँ स त्वा स्तौत्विति तमग्निरस्तौत् स स्तुतस्सर्वा मृधस्सर्वा नाष्ट्रास्सर्वाणि रक्षाँस्यतरदिन्द्रो यजमानो यदग्निमुपतिष्ठते सर्वा एव मृधस्सर्वा नाष्ट्रास्सर्वाणि रक्षँसि तरति नास्य नक्तं रक्षाँसीशते य एवं वेद त्वष्टा वै भूत्वा प्रजापतिः प्रजा असृजत त्वष्टा यजमानस्स यद्वाचावदत् तदभवद्यद्वै वाचा वदति तद्भवति यद्यदेव वाचा वदति तत् तद्भवति तत् तत् सृजते ॥१०॥
 
धनं मे शँस्य पाहि तन्मे गोपायेति प्रवत्स्यन्नाहवनीयमुपतिष्ठेत धनस्य वा एष गोप्ता तदेवास्मै परिददाति मम नाम प्रथमं जातवेद इत्याग्निनैवैतत्तन्वं विपरिधत्ते यथान्ते सतोऽग्निहोत्रँ हुतं यथेष्टमेवमस्यापि प्रवसतो भवति प्रजा मे नर्य पाहि तां मे गोपायेति प्रजाया वा एष गोप्ता तामेवास्मै परिददातीमान्मे मित्रावरुणौ गृहान् गोपायतं युवमिति मित्रेण च वा इमाः प्रजा गुप्ताः क्रूरेण च मित्रं मित्रः क्रूरं वरुण इयं पूषैताभ्य एव देवताभ्यो गृहान् परिददात्यन्नं मे पुरीष्य पाहि तन्मे गोपायेत्यन्नस्य वा एष गोप्ता तदेवास्मै परिददाति धनं मे शँस्याजुगुपस्तन्मे पुनर्देहीति धनमेव गुप्तं पुनरात्मन् धत्तेऽग्ने सहस्राक्ष शातमूर्धञ्छततेज इत्येतैर्वा एतौ व्यृध्येते विप्रवसन्तौ प्राणैरपानैस्तेजोभिर्वीयैर्यदेतैरुपतिष्ठते तैरेव समृध्येते मम च नाम तव च जातवेद इत्यग्निनैवैतत् तन्वं यथायथं कुरुते प्रजां मे नर्याजुगुपस्तां मे पुनर्देहीति प्रजामेव गुप्तां पुनरात्मन् धत्तेऽग्ने गृहपत इति नार्तिमार्च्छतोऽग्निश्च यजमानश्च न भ्रेषं नीतोऽन्नं मे पुरीष्याजुगुपस्तन्मे पुनर्देहीत्यन्नमेव गुप्तं पुनरात्मन् धत्ते ॥ ११ ॥
 
प्र वेधसे कवये वेद्याय वचो वन्दारु वृषभाय वृष्णे।
यतो भयमभयं तन्नो अस्त्वव देवानां यजेहीड्यानि ॥
समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् । आस्मिन् हव्या जुहोतन ।।
उदग्ने तव तद् घृतादर्ची रोचत आहुतम् । निँसानं जुह्वो मुखे । ।
उप त्वा जुह्वो मम घृताचीर्यन्तु हर्यत । अग्ने हव्या जुषस्व नः ॥
प्रजा अग्ने संवासयाशाश्च पशुभिस्सह । राष्ट्राण्यस्मा आधेहि यान्यासन् सवितुस्सवे ॥
सँ वस्सृजामि हृदयँ सँसृष्टं मनो अस्तु वः । सँसृष्टास्तन्वस्सन्तु वस्सँसृष्टः प्राणो अस्तु वः ॥
सं या वः प्रियास्तन्वस्संप्रिया हृदयानि वः ।।
आत्मा वो अस्तु संप्रियस्संप्रियास्तन्वो मम ॥
यो अश्वत्थश्शमीगर्भ आरुरोह त्वय्यपि ।
तं ते गृह्णामि यज्ञियैः केतुभिस्सह ।।
मयि गृह्णाम्यहमग्रे अग्निं रायस्पोषेण सह वर्चसेह देवाः ।
मयि प्रजां मयि पुष्टिं दधामि मदेम शतहिमास्सुवीराः ॥
यो नो अग्निः पितरो हृत्स्वन्तरमर्त्यो मर्त्याँ आविवेश ।।
तमात्मनि परिगृह्णीमहे वयं मैषो अस्मानवहाय परागान्मा वयमेतमवहाय परागाम ।।
मही विश्पत्नी सदनी ऋतस्यार्वाची एतं धरुणे रयीणाम् ।
अन्तर्वती जन्यं जातवेदसमध्वराणां जनयतं पुरोगाम् ।।
उत् समुद्रान्मधुमाँ ऊर्मिरागात् साम्राज्याय प्रतरं दधानः ।
अमी च ये मघवानो वयं चेषमूर्जं मधुमत् संभरेम ।।
इयत्यग्र आसीरदो देवि प्रथमाना पृथग्यत् ।।
देवैर्नुत्ता व्यसर्पो महित्वा अदृँहथाश्शर्कराभिस्त्रिविष्टपि ।
अजयो लोकान् प्रदिशश्चतस्रः ।।
उदेह्यग्ने अधि मातुः पृथिव्या विश आविश महतस्सधस्थात् ।।
आशुं त्वाजौ दधिरे देवयन्तो हव्यवाहं भुवनस्य गोपाम् ।।
यदीदं दिवों यदि वा पृथिव्यास्संबभूव सुकृतो रराणयोः ।।
तयोः पृष्ठे सीदतु जातवेदाः प्रजामस्मभ्यं जनयन् रयिं च ॥
चन्द्रमग्निं चन्द्ररथँ हरिव्रतं वैश्वानरमप्सुषदँ स्वर्विदम् ।।
विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः ॥
यत् पृथिव्या अनामृतँ संबभूव त्वे सचा । तदग्निरग्नये ददत् तस्मिन्नाधीयतामयम् ॥
यदन्तरिक्षस्य यद्दिवो अनामृतँ संबभूव त्वे सचा।।
तदग्निरग्नये ददत् तस्मिन्नाधीयतामयम् ।। १२ ।।
इत एव प्रथमं जज्ञे अग्निरेभ्यो योनिभ्यो अधि जातवेदाः ।।
स गायत्र्यां त्रिष्टुभा जगत्यानुष्टुभा देवेभ्यो हव्यं वहतु प्रजानन् ।
सहाग्ने अग्निना जायस्व सह रय्या सह पुष्ट्या सह प्रजया सह ब्रह्मवर्चसेनाजन्यग्निर्होता पूर्वः पूर्वेभ्यः पवमानः पावकश्शुचिरीड्योऽसुरसि प्रथमजा असुर्नामासुरुच्यसेऽसुरहमसुस्त्वं किंमद्यासुरसुं करदसोरसुं प्रतीतन संजानीध्वं भूर्भुवरङ्गिरसां त्वा देवानां व्रतेनादध आदित्यानां त्वा देवानां व्रतेनादधे द्यौर्मह्नासि भूमिर्भूम्ना तस्यास्ते देव्यदित उपस्थेऽन्नादमनद्यायान्नपत्यायादधे ।
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः । पितरं च प्रयन्स्वः ॥
अग्ने गृहपतेऽहे बुध्न्य परिषद्य दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्या मूर्धन् सीद यज्ञिये लोके यो नो अग्ने निष्ट्यो योऽनिष्ट्योऽभिदासतीदमहं तं त्वयाभिनिदधामि ।
यास्ते शिवास्तन्वो जातवेदो या अन्तरिक्षे दिवि याः पृथिव्याम् ।।
ताभिस्संभूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने ।।
सं त्वमग्ने दिव्येन ज्योतिषा भाहि समन्तरिक्ष्येण सं पार्थिवेन वैश्वानर्या समिधा दीदिही न ऊर्जस्वत्या वर्चस्वत्या भास्वत्या रश्मिवत्या ज्योतिष्मत्या ।।
या वाजिन्नग्नेः प्रिया तनूः पशुषु पवमाना तामावह तया मा जिन्व या वाजिन्नग्नेः प्रिया तनूरप्सु पावका तामावह तया मा जिन्व या वाजिन्नग्नेः प्रिया तनूस्सूर्ये शुक्रा शुचिमती तामावह तया मा जिन्वौजसे बलाय त्वौद्यच्छे वृष्णे शुष्मायाशस्तितूरसि वृत्रतूरस्मान् पथो ज्यैष्ठ्यान्मा योषम् ॥
प्राचीमनु प्रदिशं प्रेहि विद्वानग्नेरग्ने पुरो अग्ने भवेह ।
विश्वा आशा दीद्यद्विभाह्यूर्जं नो धेहि द्विपदे चतुष्पदे ॥
भुवरङ्गिरसां त्वा देवानां व्रतेनादध आदित्यानां त्वा देवानां व्रतेनादधे द्यौरमह्नासि भूमिर्भूम्ना तस्यास्ते देव्यदित उपस्थेऽन्नादमन्नाद्यायान्नपत्यायादधे ॥
अस्य प्राणादपानत्यन्तश्चरति रोचना । व्यख्यन्महिषो दिवम् ॥
अग्ने नय मयोभो सुशेव दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्या मूर्धन् सीद यज्ञिये लोके यो नो अग्ने निष्टयो योऽनिष्ट्योऽभिदासतीदमहं तं त्वयाभिनिदधामि ।।
यास्ते शिवास्तन्वो जातवेदो या अन्तरिक्षे दिवि याः पृथिव्याम् ।।
ताभिस्संभूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने ।
सं त्वमग्ने दिव्येन ज्योतिषा भाहि समन्तरिक्ष्येण सं पार्थिवेन वैश्वानर्या समिधा दीदिही न ऊर्जस्वत्या वर्चस्वत्या भास्वत्या रश्मिवत्या ज्योतिष्मत्या नाकोऽसि ब्रध्नः प्रतिष्ठा संक्रमणं भूर्भुवस्स्वरङ्गिरसां त्वा देवानां व्रतेनादध आदित्यानां त्वा देवानां व्रतेनादधे द्यौर्मह्नासि भूमिर्भूम्ना तस्यास्ते देव्यदित उपस्थेऽन्नादमन्नाद्यायानपत्यायादधे ।।
त्रिंशद्धाम विराजति वाक्पतङ्गा अशिश्रयुः । प्रति वस्तोरह द्युभिः ॥
अग्ने संराडजैकपादाहवनीय दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्या मूर्धन् सीद यज्ञिये लोके यो नो अग्ने निष्ट्यो योऽनिष्ट्योऽभिदासतीदमहं तं त्वयाभिनिदधामि ॥
यास्ते शिवास्तन्वो जातवेदो या अन्तरिक्षे दिवि या पृथिव्याम् ।।
ताभिस्संभूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने ।
सं त्वमग्ने दिव्येन ज्योतिषा भाहि समन्तरिक्ष्येण सं पार्थिवेन वैश्वानर्या समिधा दीदिही न ऊर्जस्वत्या वर्चस्वत्या भास्वत्या रश्मिवत्या ज्योतिष्मत्या ।।
यस्ते अप्सु महिमा यो वनेषु य ओषधीषु पशुष्वाविवेश ।
यत्र यत्र बिभ्रतो जातवेदा अग्ने ततो द्रविणोदा न एहि ।।
मनुष्वत् त्वा निधीमहि मनुष्वत् समिधीमहि ।
अग्ने मनुष्वदङ्गिरो देवान् देवयते यज ॥ १३ ॥
 
सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्तर्षयस्सप्त धाम प्रियाणि सप्त होत्रा अनुविद्वान् सप्त योनीँरापृणस्वा घृतेन या ते अग्ने पवमाना तनूः पृथिवीमन्वाविवेश याग्नौ या रथन्तरे या गायत्रे छन्दसि या त्रिवृति स्तोमे यान्ने तां त एतदवरुन्धे तस्यै स्वाहा या ते अग्ने पावका तनूरन्तरिक्षमन्वाविवेश या वाते या वामदेव्ये या त्रैष्टुभे छन्दसि या पञ्चदशे स्तोमे या पशुषु तां त एतदवरुन्धे तस्यै स्वाहा या ते अग्ने शुचिस्तनूर्दिवमन्वाविवेश या सूर्ये या बृहति या जागते छन्दसि या सप्तदशे स्तोमे याप्सु तां त एतदवरुन्धे तस्यै स्वाहा ॥ वातः प्राणस्तदयमात्मा पुरीषमसि संप्रियः पशुभिर्यच्छा तोकाय तनयाय शं योः प्रजां मे यच्छ घर्मश्शिरस्तदयमग्निः पुरीषमसि संप्रियः पशुभिस्स्वदितं नः पितुं पच पशून् मे यच्छार्कश्चक्षुस्तदसौ सूर्यः पुरीषमसि संप्रियः पशुभिर्यत् ते शुक्र शुक्रं धाम शुक्रा तनूश्शुक्रं ज्योतिरजस्रं यत् तेऽनाधृष्टं नामानाधृष्यं तेन त्वादधे वर्चो मे यच्छ येऽग्नयो दिवो येऽन्तरिक्षाद्ये पृथिव्यास्समाजग्मुरिषमूर्जं वसानास्तेऽस्मा अग्नये द्रविणानि दत्त्वा तृप्ताः प्रीताः पुनरस्तं परेत ।।।
कल्पेतां द्यावापृथिवी कल्पन्तामपि ओषधयः ।।
कल्पन्तामग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः ।।
येऽग्नयस्समनसस्सचेतस औषधीष्वप्सु प्रविष्टाः ।
ते सम्राजमभिसंयन्तु सर्व ऊर्जं नो धत्त द्विपदे चतुष्पदे ।।
अयमग्निश्श्रेष्ठतमोऽयमस्तु यशस्तमः ।
अयँ सहस्रसातमस्सुकृतं योनिमासदत् ततो वरान् वृणीमहे ॥
निषसाद धृतवतो वरुणः पस्त्यास्वा । साम्राज्याय सुक्रतुः ।।
प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् ।
यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकाँसि चक्रिरे ।। १४ ।।
अदितिर्वै प्रजाकामौदनमपचत् तस्योच्छिष्टमाश्नात् सा गर्भमधत्त तत आदित्या अजायन्त य एष