"ऋग्वेदः सूक्तं ७.१५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ५५:
उ॒प॒ऽसद्या॑य । मी॒ळ्हुषे॑ । आ॒स्ये॑ । जु॒हु॒त॒ । ह॒विः ।
 
यः । नः॒ । नेदि॑ष्ठम् । आप्य॑म् ॥१
 
उपऽसद्याय । मीळ्हुषे । आस्ये । जुहुत । हविः ।
 
यः । नः । नेदिष्ठम् । आप्यम् ॥१
 
हे अध्वर्यवः “उपसद्याय उपसदनीयाय "मीळ्हुषे कामानां वर्षित्रेऽग्नये तत्प्रीत्यर्थम् "आस्ये तस्यैव मुखे "हविः "जुहुत । "यः अग्निः "नेदिष्ठम् आसन्नतमम् "आप्यं भवति । आसन्नतमो बन्धुर्भवतीत्यर्थः । आप्यमिति स्वार्थिकस्तद्धितः ॥
पङ्क्तिः ७०:
यः । पञ्च॑ । च॒र्ष॒णीः । अ॒भि । नि॒ऽस॒साद॑ । दमे॑ऽदमे ।
 
क॒विः । गृ॒हऽप॑तिः । युवा॑ ॥२
 
यः । पञ्च । चर्षणीः । अभि । निऽससाद । दमेऽदमे ।
 
कविः । गृहऽपतिः । युवा ॥२
 
"यः अग्निः "कविः प्राज्ञः "गृहपतिः गृहाणां पालयिता "युवा नित्यतरुणः सन् "पञ्च “चर्षणीः पञ्च जनान् मनुष्यान् "अभि अभिमुखं "दमेदमे गृहेगृहे "निषसाद निषीदति । उत्तरया वाक्यपरिसमाप्तिः ॥
पङ्क्तिः ८५:
सः । नः॒ । वेदः॑ । अ॒मात्य॑म् । अ॒ग्निः । र॒क्ष॒तु॒ । वि॒श्वतः॑ ।
 
उ॒त । अ॒स्मान् । पा॒तु॒ । अंह॑सः ॥३
 
सः । नः । वेदः । अमात्यम् । अग्निः । रक्षतु । विश्वतः ।
 
उत । अस्मान् । पातु । अंहसः ॥३
 
“सः "अग्निः "नः अस्माकं "वेदः धनम् "अमात्यम् अन्तिके भवं सहभूतं वा “विश्वतः सर्वतः बाधकात् "रक्षतु । "उत अपि च "अस्मान् वसिष्ठान् "अंहसः पापात् "पातु रक्षतु ॥
पङ्क्तिः १००:
नव॑म् । नु । स्तोम॑म् । अ॒ग्नये॑ । दि॒वः । श्ये॒नाय॑ । जी॒ज॒न॒म् ।
 
वस्वः॑ । कु॒वित् । व॒नाति॑ । नः॒ ॥४
 
नवम् । नु । स्तोमम् । अग्नये । दिवः । श्येनाय । जीजनम् ।
 
वस्वः । कुवित् । वनाति । नः ॥४
 
“दिवः द्युलोकस्य “श्येनाय श्येनसदृशाय "नु क्षिप्रं गन्त्रे "अग्नये यस्मै "नवं नूतनं "स्तोमं “जीजनं जनयामि सोऽग्निः "नः अस्मभ्यं "कुवित् बहु “वस्वः वसु धनम् । कर्मणि षष्ठी । “वनाति । ददात्वित्यर्थः ॥
पङ्क्तिः ११५:
स्पा॒र्हाः । यस्य॑ । श्रियः॑ । दृ॒शे । र॒यिः । वी॒रऽव॑तः । य॒था॒ ।
 
अग्रे॑ । य॒ज्ञस्य॑ । शोच॑तः ॥५
 
स्पार्हाः । यस्य । श्रियः । दृशे । रयिः । वीरऽवतः । यथा ।
 
अग्रे । यज्ञस्य । शोचतः ॥५
 
"यज्ञस्य "अग्रे पुरस्ताद्भागे “शोचतः दीप्यमानस्य "यस्य अग्नेः "श्रियः दीप्तयः "वीरवतः पुत्रवतः "रयिः धनं "यथा तद्वत् "दृशे द्रष्टुं चक्षुषे वा "स्पार्हाः स्पृहणीया भवन्ति तस्मै नवं स्तोमं जीजनमित्यनुषङ्गः । उत्तरत्र संबन्धो वा ॥ ॥ १८ ॥
पङ्क्तिः १३०:
सः । इ॒माम् । वे॒तु॒ । वष॑ट्ऽकृतिम् । अ॒ग्निः । जु॒ष॒त॒ । नः॒ । गिरः॑ ।
 
यजि॑ष्ठः । ह॒व्य॒ऽवाह॑नः ॥६
 
सः । इमाम् । वेतु । वषट्ऽकृतिम् । अग्निः । जुषत । नः । गिरः ।
 
यजिष्ठः । हव्यऽवाहनः ॥६
 
"यजिष्ठः यजनीयतमो यष्टृतमो वा "हव्यवाहनः हव्यानां हविषां वोढा "सः "अग्निः “इमां “वषट्कृतिम् अस्माभिर्दीयमानामाहुतिं “वेतु कामयतां भक्षयतु वा । “नः अस्माकं "गिरः स्तुतीश्च "जुषत सेवताम् ॥
पङ्क्तिः १४५:
नि । त्वा॒ । न॒क्ष्य॒ । वि॒श्प॒ते॒ । द्यु॒ऽमन्त॑म् । दे॒व॒ । धी॒म॒हि॒ ।
 
सु॒ऽवीर॑म् । अ॒ग्ने॒ । आ॒ऽहु॒त॒ ॥७
 
नि । त्वा । नक्ष्य । विश्पते । द्युऽमन्तम् । देव । धीमहि ।
 
सुऽवीरम् । अग्ने । आऽहुत ॥७
 
"नक्ष्य उपगन्तव्य । नक्षतिर्व्याप्तिकर्मा। "विश्पते विशां पते "देव द्योतमान "आहुत सर्वैर्यजमानैरभिहुत हे "अग्ने "द्युमन्तं दीप्तिमन्तं "सुवीरं कल्याणस्तोतृकं "त्वा त्वां वयं "नि “धीमहि निहितवन्तः ॥
पङ्क्तिः १६०:
क्षपः॑ । उ॒स्रः । च॒ । दी॒दि॒हि॒ । सु॒ऽअ॒ग्नयः॑ । त्वया॑ । व॒यम् ।
 
सु॒ऽवीरः॑ । त्वम् । अ॒स्म॒ऽयुः ॥८
 
क्षपः । उस्रः । च । दीदिहि । सुऽअग्नयः । त्वया । वयम् ।
 
सुऽवीरः । त्वम् । अस्मऽयुः ॥८
 
हे अग्ने त्वं “क्षपः रात्रीः "उस्रः अहानि च । सर्वदेति यावत् । "दीदिहि दीप्यस्व। दीप्यमानेन “त्वया “वयं वसिष्ठाः "स्वग्नयः शोभमानाग्नयो भवाम । "अस्मयुः अस्मान् कामयमानः ॥ ‘सुप आत्मनः क्यच्' इति क्यचि कृते ‘क्याच्छन्दसि ' इत्युप्रत्ययः । दकारलोपश्छान्दसः । तथा च यास्कः’ अस्मयुरस्मान् कामयमानः ' ( निरु. ६:२१ ) इति ॥ "त्वं "सुवीरः सुस्तोतृको भव ॥
पङ्क्तिः १७५:
उप॑ । त्वा॒ । सा॒तये॑ । नरः॑ । विप्रा॑सः । य॒न्ति॒ । धी॒तिऽभिः॑ ।
 
उप॑ । अक्ष॑रा । स॒ह॒स्रिणी॑ ॥९
 
उप । त्वा । सातये । नरः । विप्रासः । यन्ति । धीतिऽभिः ।
 
उप । अक्षरा । सहस्रिणी ॥९
 
हे अग्ने “त्वा त्वां "नरः नेतारो यजमानाः "विप्रासः विप्रा मेधाविनः “धीतिभिः कर्मभिः “सातये धनाय कामानां लाभाय वा “उप "यन्ति उपगच्छन्ति । "सहस्रिणी सहस्रसंख्याका “अक्षरा क्षयरहिता स्तुतिरूपा अस्मदीया वाक् त्वाम् “उप याति च ॥
पङ्क्तिः १९०:
अ॒ग्निः । रक्षां॑सि । से॒ध॒ति॒ । शु॒क्रऽशो॑चिः । अम॑र्त्यः ।
 
शुचिः॑ । पा॒व॒कः । ईड्यः॑ ॥१०
 
अग्निः । रक्षांसि । सेधति । शुक्रऽशोचिः । अमर्त्यः ।
 
शुचिः । पावकः । ईड्यः ॥१०
 
“शुक्रशोचिः शुभ्रज्वालः “अमर्त्यः मरणरहितो देवतात्मा “शुचिः स्वयं शुद्धः "पावकः अन्येषामपि शोधकः "ईड्यः स्तुत्यः "अग्निः "रक्षांसि राक्षसान् "सेधति बाधताम् ॥ ॥ १९ ॥
पङ्क्तिः २०५:
सः । नः॒ । राधां॑सि । आ । भ॒र॒ । ईशा॑नः । स॒ह॒सः॒ । य॒हो॒ इति॑ ।
 
भगः॑ । च॒ । दा॒तु॒ । वार्य॑म् ॥११
 
सः । नः । राधांसि । आ । भर । ईशानः । सहसः । यहो इति ।
 
भगः । च । दातु । वार्यम् ॥११
 
हे "सहसो “यहो बलस्य पुत्राग्ने “सः प्रसिद्धस्त्वम् "ईशानः सर्वस्य जगतः। ईश्वरः सन् "नः अस्मभ्यं "राधांसि धनानि । ‘रायो राधः' इति धननामसु पाठात् । “आ “भर आहर । "भगश्च भगो देवोऽपि “वार्यं धनं “दातु अस्मभ्यं ददातु । अभ्यासलोपश्छान्दसः। भगोऽत्र सूक्ते निपातभागिनी देवता ॥
पङ्क्तिः २२०:
त्वम् । अ॒ग्ने॒ । वी॒रऽव॑त् । यशः॑ । दे॒वः । च॒ । स॒वि॒ता । भगः॑ ।
 
दितिः॑ । च॒ । दा॒ति॒ । वार्य॑म् ॥१२
 
त्वम् । अग्ने । वीरऽवत् । यशः । देवः । च । सविता । भगः ।
 
दितिः । च । दाति । वार्यम् ॥१२
 
हे “अग्ने “त्वं “वीरवत् पुत्रपौत्रोपेतं “यशः अन्नं देहीति शेषः । “देवश्च “सविता सविता देवोऽपि “वार्यं वरणीयं धनं “दाति ददातु । “भगः च देवोऽपि ददातु । “दितिश्च दितिरपि देवी ददातु। सवित्रादिः सूक्ते निपातभागिनी देवता ॥
पङ्क्तिः २३५:
अग्ने॑ । रक्ष॑ । नः॒ । अंह॑सः । प्रति॑ । स्म॒ । दे॒व॒ । रिष॑तः ।
 
तपि॑ष्ठैः । अ॒जरः॑ । द॒ह॒ ॥१३
 
अग्ने । रक्ष । नः । अंहसः । प्रति । स्म । देव । रिषतः ।
 
तपिष्ठैः । अजरः । दह ॥१३
 
हे “अग्ने त्वं “नः अस्मान् “अंहसः पापात् "रक्ष पाहि । संहितायां दीर्घश्छान्दसः । अपि च हे "देव द्योतमानाग्ने “अजरः जरारहितस्त्वं “रिषतः हिंसतः शत्रून् "तपिष्ठैः अतिशयेन तापकैस्तेजोभिः "दह भस्मीकुरु ॥
पङ्क्तिः २५०:
अग्ने॑ । म॒ही । नः॒ । आय॑सी । अना॑धृष्टः । नृऽपी॑तये ।
 
पूः । भ॒व॒ । श॒तऽभु॑जिः ॥१४
 
अग्ने । मही । नः । आयसी । अनाधृष्टः । नृऽपीतये ।
 
पूः । भव । शतऽभुजिः ॥१४
 
“अध अधुना हे अग्ने “अनाधृष्टः अप्रतिधर्षणीयस्त्वं “नः अस्माकं “नृपीतये नृणां रक्षणार्थं “मही महती “आयसी अयसा निर्मिता “शतभुजिः अत्यन्तं विस्तृता शतगुणा “पूः पुरी । तद्रक्षासाधनभूतप्राकारादिर्वा पूरुच्यते। “भव । यथायसा निर्मिता पुरी तद्रक्षासाधनभूतप्राकारादिर्वा शत्रुभ्यो भीतान् रक्षति तद्वद्राक्षसेभ्यो भीतानस्मान् पाहीत्यर्थः ॥
पङ्क्तिः २६५:
त्वम् । नः॒ । पा॒हि॒ । अंह॑सः । दोषा॑ऽवस्तः । अ॒घ॒ऽय॒तः ।
 
दिवा॑ । नक्त॑म् । अ॒दा॒भ्य॒ ॥१५
 
त्वम् । नः । पाहि । अंहसः । दोषाऽवस्तः । अघऽयतः ।
 
दिवा । नक्तम् । अदाभ्य ॥१५
 
हे “अदाभ्य अहिंस्य "दोषावस्तः रात्रेराच्छादयितः । तमसो वारयितरित्यर्थः । अग्ने “त्वं “नः अस्मान् “अंहसः पापात् "अघायतः पापमिच्छतः शत्रोश्च “दिवा “नक्तम् अहनि रात्रौ च सर्वदा “पाहि रक्ष ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१५" इत्यस्माद् प्रतिप्राप्तम्