"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९९:
 
 
१०.९०.२अ
 
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम्। उतामृतत्वस्येशानो यदन्नेनातिरोहति
 
यथा सर्वविदितमस्ति, पशवः भूत-भव्यस्य अनुमानं कर्तुं अशक्ताः सन्ति।
 
[https://sites.google.com/site/vedastudy/sarita-sahaja/sarva-sarva सर्व उपरि वैदिकसंदर्भाः]
 
१०.९०.२ब
 
उतामृतत्वस्येशानो यदन्नेनातिरोहति
 
[http://puranastudy.freeoda.com/pur_index3/pva8.htm ईशानोपरि पौराणिकसंदर्भाः]
 
[http://puranastudy.freeoda.com/pur_index3/eeshan1.htm ईशानः उपरि टिप्पणी]
 
पुराणेषु सार्वत्रिकरूपेण शिवस्यार्चनं पञ्चभिर्नामभिः - ईशानः, तत्पुरुष, अघोर, वामदेव, सद्योजात इति करणीयस्य निर्देशाः सन्ति। नारदपुराण [[नारदपुराणम्- पूर्वार्धः/अध्यायः ९१|१.९१.६३]] अनुसारेण ईशानपुरुषयोः भेदः अयमस्ति यत् ईशानशिवः पञ्चशीर्षात्मकः अस्ति, पुरुषः चतुश्शीर्षः। ईशानशिवस्य चत्वारि मुखानि चतुर्दिक्षु सन्ति, एकः मध्ये। अन्यत्र कथनमस्ति(लिङ्गपुराणम् [[लिङ्गपुराणम् - उत्तरभागः/अध्यायः १४|२.१४.२१]] ) यत् ईशानशिवः आकाशतत्त्वेन सह सम्बद्धः अस्ति, पुरुषः वायुतत्त्वेन। ईशानशिवः शान्त्यातीतकलया सम्बद्धः अस्ति, पुरुषः शान्तिकलया। शिवपुराणे [[शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ४२|४.४२.२३]] कथनमस्ति - ईशानः सर्वविद्यानां इति। अस्यां स्थित्यां प्रकृत्याः रूपं सरस्वत्यात्मकं अस्ति। ईशानस्य पत्नी सम्पत्तिः अस्ति( ब्रह्मवैवर्त्त [[ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ०१|२.१.१०७]]) या दारिद्र्यस्य नाशं करोति। सायणभाष्ये सार्वत्रिकरूपेण ईशानशब्दस्य अर्थं समर्थः, ईश्वरः इति कृतमस्ति। यदन्नेनातिरोहति। पुरुषेण अन्नभक्षणान्तरं अन्नतः अमृतस्य प्राप्तिः ईशानरूपेणैव संभवमस्ति।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्