"ऋग्वेदः सूक्तं १.११२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७३:
ईळे॑ । द्यावा॑पृथि॒वी इति॑ । पू॒र्वऽचि॑त्तये । अ॒ग्निम् । घ॒र्मम् । सु॒ऽरुच॑म् । याम॑न् । इ॒ष्टये॑ ।
 
याभिः॑ । भरे॑ । का॒रम् । अंशा॑य । जिन्व॑थः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥१
 
ईळे । द्यावापृथिवी इति । पूर्वऽचित्तये । अग्निम् । घर्मम् । सुऽरुचम् । यामन् । इष्टये ।
 
याभिः । भरे । कारम् । अंशाय । जिन्वथः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥१
 
अहं “द्यावापृथिवी द्यावापृथिव्यौ “ईळे स्तौमि । किमर्थम् । “पूर्वचित्तये पूर्वमेवाश्विनोः प्रज्ञापनाय । ते ह्यश्विनोः प्रत्यासन्ने । यद्वा । द्यावापृथिवी अश्विनौ स्तौमि पूर्वचित्तये अन्यदीयात्स्तोत्रात्पूर्वमेवास्मदीयस्य स्तोत्रस्य प्रबोधनाय । तथा चोक्तं - ’तत्कावश्विनौ द्यावापृथिव्यावित्येके' ( निरु. १२. १) इति । अपि च “यामन् यामनि अश्विनोरागमने सति “इष्टये तदीययागार्थमाहवनीयरूपेण स्थापितम् “अग्निं स्तौमीति शेषः । कीदृशमग्निम् । “घर्मं प्रवृञ्जनेन दीप्तं “सुरुचम् अत एव शोभनकान्तियुक्तम् । हे अश्विनौ “भरे । संग्रामनामैतत् । संग्रामे “अंशाय युष्मदीयभागाय जयप्राप्त्यर्थं “याभिः ऊतिभिः पालनैः सहागत्य “कारम् । कारशब्दः शङ्खवाचीत्यभियुक्ताः संगिरन्ते । कारं शब्दकारिणं शङ्खं “जिन्वथः मुखेनापूरयथः “ताभिः तादृशैः “ऊतिभिः पालनैः सह। “उ इति समुच्चये । अस्मानपि सुष्ठु “आ “गतम् आगच्छतम् ॥ ईळे । ‘ईड स्तुतौ ' । उत्तमैकवचनम् इट् । अदादित्वात् शपो लुक् । अनुदात्तेत्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । द्यावापृथिवी । द्यौश्च पृथिवी च । ‘दिवो द्यावा' इति द्यावादेश आद्युदात्तो निपातितः । पृथिवीशब्दो ङीपन्तः अन्तोदात्तः । ‘देवताद्वन्द्वे च ' इति उभयपदप्रकृतिस्वरत्वम् । ‘°अपृथिवी ' इति पर्युदासात् ‘नोत्तरपदेऽनुदात्तादौ ' इति निषेधाभावः। ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । पूर्वचित्तये । ‘चिती संज्ञाने' । अस्मात् अन्तर्भावितण्यर्थात् भावे क्तिन् । मरुवृधादित्वात् पूर्वपदान्तोदात्तत्वम् । सुरुचम् । ‘रुच दीप्तावभिप्रीत्यां च' संपदादिलक्षणो भावे क्विप् । शोभना रुग्यस्य । ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । यामन् । ' या प्रापणे ' । आतो मनिन् ' इति ‘कृत्यल्युटो बहुलम्' इति बहुलवचनात् भावे मनिन् । कारम् । क्रियतेऽनेनेति कारः । करणे घञ् । 'कर्षात्वतः' इत्यन्तोदात्तत्वम् । जिन्वथः । ‘जिवि प्रीणनार्थः । अत्र प्रीणनहेतुभूतमापूरणं लक्ष्यते । धनेनापूरितो हि पुरुषः प्रीतो भवति । इदित्त्वात् नुम् । भौवादिकः । शपः पित्त्वादनुदात्तत्वम् । तिङः अदुपदेशात् लसार्वधातुकस्वरेण धातुस्वरः शिष्यते ।' यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः । तत्र हि व्यवहितेऽपि कार्यमिष्यते (का. ८. १. ६६ ) इत्युक्तम् । ऊ षु ।“ इकः सुञि' इति दीर्घत्वम् । सुञः' इति पत्वम् । ईषाअक्षादित्वात् सुञ उकारस्य प्रकृतिभावः । ऊतिभिः । अवतेर्भावे क्तिन् । ज्वरत्वर' इत्यादिना वकारस्य उपधायाश्च ऊठ् ।ऊतियूति' इत्यादिना निपातनात् क्तिन उदात्तत्वम् । गतम् । गमेर्लोटि ‘बहुलं छन्दसि' इति विकरणस्य लुक् । ' अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः ॥
पङ्क्तिः ८८:
यु॒वोः । दा॒नाय॑ । सु॒ऽभराः॑ । अ॒स॒श्चतः॑ । रथ॑म् । आ । त॒स्थुः॒ । व॒च॒सम् । न । मन्त॑वे ।
 
याभिः॑ । धियः॑ । अव॑थः । कर्म॑न् । इ॒ष्टये॑ । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥२
 
युवोः । दानाय । सुऽभराः । असश्चतः । रथम् । आ । तस्थुः । वचसम् । न । मन्तवे ।
 
याभिः । धियः । अवथः । कर्मन् । इष्टये । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥२
 
“सुभराः शोभनस्तोत्रभरणाः “असश्चतः अन्यत्रानासक्ताः स्तोतारो हे अश्विनौ “युवोः युवयोः “रथम् “आ “तस्थुः आतिष्ठन्ति प्राप्नुवन्ति । किमर्थम् । “दानाय युष्मत्कर्तृकदानार्थम् । धनलाभायेत्यर्थः । तत्र दृष्टान्तः । “वचसं “न यथा न्यायोपेतेन वचसा वाक्येन युक्तं विपश्चितं “मन्तवे बुभुत्सितार्थप्रतिपत्तये स्तोतारः प्राप्नुवन्ति तद्वत् । अपि च “कर्मन् कर्मणि “इष्टये यागार्थं प्रवृत्तान् “धियः ध्यातॄन विशिष्टज्ञानोपेतान् "याभिः “ऊतिभिः पालनैः “अवथः युवां रक्षथः । ताभिरित्यादि पूर्ववत् ॥ वचसम् । अर्शआदित्वात् मत्वर्थीयः अच् । मन्तवे । ‘मन ज्ञाने'। ‘कमिमनिजनि” ' इत्यादिना तुप्रत्ययः । धियः । ध्यायन्तीति धियः स्तोतारः । ‘ध्यै चिन्तायाम् । ‘क्विप् च ' इति क्विप् । चशब्देन दृशिग्रहणानुकर्षणात् संप्रसारणम् । कर्मन् । ‘सुपां सुलुक्' इति सप्तम्या लुक् । 'न ङिसंबुद्ध्योः' इति नलोपप्रतिषेधः ॥
पङ्क्तिः १०३:
यु॒वम् । तासा॑म् । दि॒व्यस्य॑ । प्र॒ऽशास॑ने । वि॒शाम् । क्ष॒य॒थः॒ । अ॒मृत॑स्य । म॒ज्मना॑ ।
 
याभिः॑ । धे॒नुम् । अ॒स्व॑म् । पिन्व॑थः । न॒रा॒ । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥३
 
युवम् । तासाम् । दिव्यस्य । प्रऽशासने । विशाम् । क्षयथः । अमृतस्य । मज्मना ।
 
याभिः । धेनुम् । अस्वम् । पिन्वथः । नरा । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥३
 
हे “नरा नेतारावश्विनौ “दिव्यस्य दिवि भवस्य स्वर्गसमुत्पन्नस्य “अमृतस्य सोमस्य पानेनोत्पन्नेन “मज्मना बलेन युक्तौ “युवं युवां “तासां यास्त्रिषु लोकेषु वर्तन्ते तासां सर्वासां “विशां प्रजानां प्रशासने प्रकृष्टानुशासने शिक्षणे “क्षयथः । ऐश्वर्यकर्मायम् । ईशाथे समर्थौ भवथः । यद्वा । मज्मना अन्येषामसाधारणेन बलेन विशां प्रजानां दिविभवस्यामृतस्य वृष्ट्युदकस्य “प्रशासने प्रदाने क्षयथः ईश्वरौ भवथः । अपि च “याभिः “ऊतिभिः रक्षाभिः "अस्वं प्रसवासमर्थां “धेनुं गां शयुनाम्ने ऋषये “पिन्वथः सिञ्चथः पयसा पूरितवन्तावित्यर्थः । ताभिरूतिभिरित्यादि पूर्ववत् ॥ अस्वम् ।' पूङ् प्राणिगर्भविमोचने '। सवनं सूः । संपदादिलक्षणो भावे क्विप् । नास्ति सूः यस्याम् इति असूः । ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । अमि ‘ओः सुपि ' इति यणादेशः । उदात्तस्वरितयोर्यण: ' इति परस्यानुदात्तस्य स्वरितत्वम् । पिन्वथः । पिवि सेचने '। इदित्त्वात् नुम् । भौवादिकः ॥
पङ्क्तिः ११८:
याभिः॑ । परि॑ऽज्मा । तन॑यस्य । म॒ज्मना॑ । द्वि॒ऽमा॒ता । तू॒र्षु । त॒रणिः॑ । वि॒ऽभूष॑ति ।
 
याभिः॑ । त्रि॒ऽमन्तुः॑ । अभ॑वत् । वि॒ऽच॒क्ष॒णः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥४
 
याभिः । परिऽज्मा । तनयस्य । मज्मना । द्विऽमाता । तूर्षु । तरणिः । विऽभूषति ।
 
याभिः । त्रिऽमन्तुः । अभवत् । विऽचक्षणः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥४
 
“परिज्मा परितो गन्ता वायुः “तनयस्य आत्मीयस्य पुत्रस्याग्नेः । अग्निर्हि व्यानवृत्त्यात्मना वर्तमानेन वायुना मथ्यमानः सन् जायते । तथा च श्रूयते-' अथ यः प्राणापानयोः संधिः स व्यानः। अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोति ' ( छा. उ. १. ३. ३; ५) इति । यद्वा । सृष्ट्यादौ वायुसकाशादुत्पन्नत्वादग्नेः पुत्रत्वम् । आम्नायते च-’वायोरग्निः' ( तै. आ. ८. १ ) इति । एवं स्वपुत्रस्याग्नेः “मज्मना बलेन युक्तः सन् “द्विमाता द्वयोर्लोकयोः निर्माता । अग्निः पृथिवीस्थानो वायुरन्तरिक्षस्थानः । उभयर्मिलितयोः उभयनिर्मातृत्वमुपपन्नम् । यद्वा । द्विमातेति तनयस्य विशेषणम् । ‘सुपां सुलुक् । इति षष्ठ्याः सुः । द्विमातृकस्य द्वाभ्यामरणिभ्यां जातस्य। एवंभूतो वायुर्हे अश्विनौ “याभिः ऊतिभिः हेतुभूतैः पालनैः “तूर्षु तरीतृषु धावत्सु मध्ये “तरणिः अतिशयेन तरीता शीघ्रगामी 'विभूषति विभवति व्याप्तो भवति । यद्वा । विशेषेण सर्वमलंकरोति । अपि च ”त्रिमन्तुः त्रयाणां मन्ता त्रिविधेषु पाकयज्ञहविर्यज्ञसोमयज्ञेष्वासादितज्ञानः कक्षीवान् “याभिः युष्मदीयाभिरूतिभिः “विचक्षणः विशिष्टज्ञानयुक्तः “अभवत् । “ताभिः सर्वाभिः “ऊतिभिः अस्मानागच्छतम् ॥ परिज्मा । परिपूर्वात् अज गतिक्षेपणयोः' इत्यस्मात् ‘श्वन्नुक्षन् ' इत्यादौ निपात्यते । तूर्षु । ‘तॄ प्लवनतरणयोः । ‘बहुलं छन्दसि ' इति उत्वम् । हलि च ' इति दीर्घः । यद्वा । त्वरतेः क्विप् । ज्वरत्वर' इत्यादिना वकारोपधयोः ऊठ् । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । विभूषति । भवतेर्लेटि अडागमः । ‘सिब्बहुलं लेटि' इति सिप् । यद्वा । ‘भूष अलंकारे'। भौवादिकः । विचक्षणः । ‘अनुदात्तेतश्च हलादेः' इति युच् ॥
पङ्क्तिः १३३:
याभिः॑ । रे॒भम् । निऽवृ॑तम् । सि॒तम् । अ॒त्ऽभ्यः । उत् । वन्द॑नम् । ऐर॑यतम् । स्वः॑ । दृ॒शे ।
 
याभिः॑ । कण्व॑म् । प्र । सिसा॑सन्तम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥५
 
याभिः । रेभम् । निऽवृतम् । सितम् । अत्ऽभ्यः । उत् । वन्दनम् । ऐरयतम् । स्वः । दृशे ।
 
याभिः । कण्वम् । प्र । सिसासन्तम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥५
 
हे अश्विनौ "याभिः “ऊतिभिः "रेभम् एतत्संज्ञम् ऋषिं “निवृतम् असुरैः कूपे अप्सु निवारितं "सितं तदीयैः पाशैर्बद्धमेवंभूतमृषिम् “अद्भ्यः सकाशात् "उत् "ऐरयतम् उदगमयतम् । तथा “वन्दनम् एतत्संज्ञमृषिं च तथाभूतमुदैरयतम् । किमर्थम् । “स्वः आदित्यं “दृशे द्रष्टुम् । अपि च "कण्वम् असुरैः अन्धकारे प्रक्षिप्तं “सिषासन्तम् आलोकं संभक्तुमिच्छन्तं “याभिः ऊतिभिः “प्र “आवतं प्रकर्षेण अरक्षतम् । ताभिरित्यादि समानम् ॥ रेभम् । ‘रेभृ शब्दे'। रेभते स्तौतीति रेभः । पचाद्यच् । निवृतम् । वृञ् वरणे'। अस्मात् अन्तर्भावितण्यर्थात् कर्मणि निष्ठा । ' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । सितम् । ‘षिञ् बन्धने '। अद्भ्यः । ‘ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । वन्दनम् ।' वदि अभिवादनस्तुत्योः'। वन्दते स्तौतीति वन्दनः । नन्द्यादिलक्षणो ल्युः । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । स्वरित्येतद्दिवश्चादित्यस्य च साधारणनामधेयम् । तदुक्तं यास्केन -- ’स्वरादित्यो भवति सु अरणः सु ईरणः' (निरु. २. १४) इति । स्वरादिनिपातम् ' ( पा. सू. १. १. ३७ ) इति अव्ययत्वात् सुपो लुक् । दृशे । 'दृशे विख्ये च' इति दृशेः तुमर्थे केप्रत्ययान्तो निपात्यते । सिषासन्तम् । ‘वन षण संभक्तौ ' । सनि सनीवन्तर्ध' इत्यादिना विकल्पनात् इडभावः । ‘जनसनखनां सञ्झलोः' इति आत्वम् । द्विर्भावे अभ्यासस्य ह्रस्वत्वम् ।' सन्यतः । इति इत्वम् ॥ ॥ ३३ ॥
पङ्क्तिः १४८:
याभिः॑ । अन्त॑कम् । जस॑मानम् । आ॒ऽअर॑णे । भु॒ज्युम् । याभिः॑ । अ॒व्य॒थिऽभिः॑ । जि॒जि॒न्वथुः॑ ।
 
याभिः॑ । क॒र्कन्धु॑म् । व॒य्य॑म् । च॒ । जिन्व॑थः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥६
 
याभिः । अन्तकम् । जसमानम् । आऽअरणे । भुज्युम् । याभिः । अव्यथिऽभिः । जिजिन्वथुः ।
 
याभिः । कर्कन्धुम् । वय्यम् । च । जिन्वथः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥६
 
आरणम् अगाधं कूपादि । तत्रासुरैः प्रक्षिप्तं “जसमानं तैर्हिंस्यमानम् “अन्तकं शत्रूणामन्तकरम् एतत्संज्ञं राजर्षिं हे अश्विनौ 'याभिः “ऊतिभिः अवथः रक्षथः । तथा “भुज्युं सर्वस्य पालकमेतत्संज्ञं समुद्रमध्ये निमग्नं तुग्र्यं तुग्रस्य पुत्रं राजर्षिं “याभिः ऊतिभिः रक्षणहेतुभूताभिः “अव्यथिभिः व्यथारहिताभिर्नौभिः "जिजिन्वथुः युवामतर्पयतम् । एतच्च मन्त्रान्तरे' ‘तुग्रो ह भुज्युमश्विनोदमेघे' (ऋ. सं. १. ११६. ३ ) इत्यादिके विस्पष्टयिष्यते । अपि च "कर्कन्धुं "वय्यं "च एतत्संज्ञकौ चासुरैः पीड्यमानौ "याभिः ऊतिभिः "जिन्वथः प्रीणयथः । गतमन्यत् ॥ जसमानम् । जसु हिंसायाम् । यकि प्राप्ते व्यत्ययेन शप् । आरणे । आङ्पूर्वात् अर्तेः ल्युट्। जिजिन्वथुः । जिविः प्रीणनार्थः । लिटि अथुसि रूपम् ॥
पङ्क्तिः १६३:
याभिः॑ । शु॒च॒न्ति । ध॒न॒ऽसाम् । सु॒ऽसं॒सद॑म् । त॒प्तम् । घ॒र्मम् । ओ॒म्याऽव॑न्तम् । अत्र॑ये ।
 
याभिः॑ । पृश्नि॑ऽगुम् । पु॒रु॒ऽकुत्स॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥७
 
याभिः । शुचन्ति । धनऽसाम् । सुऽसंसदम् । तप्तम् । घर्मम् । ओम्याऽवन्तम् । अत्रये ।
 
याभिः । पृश्निऽगुम् । पुरुऽकुत्सम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥७
 
हे अश्विनौ “धनसां धनस्य संभक्तारं "शुचन्तिम् एतन्नामानं "सुषंसदम् । संसीदन्त्यस्मिन्निति संसत् गृहम् । शोभनसंसदं "याभिः ऊतिभिरकुरुतम् । तथा “अत्रये याभिश्चोतिभिः “तप्तं प्रवृञ्जनेन संतप्तं “घर्मं महावीरम् “ओम्यावन्तं सुखयुक्तं सुखेन स्प्रष्टुं शक्यमकुरुतम् । यद्वा । शतद्वारे यन्त्रगृहे असुरैः पीड्यमानाय घर्मं दीप्तं पीडासाधनमग्निं तप्तं तापकारिणम् ओम्यावन्तं सुखवन्तम् अकुरुतम्। यथा अस्मै सुखं भवति तथा हिमेनोदकेन तमग्निमवारयेथाम् । यास्कपक्षे तु अत्रये हविषामत्त्रेऽग्नये हविरुत्पत्त्यर्थं सूर्यकिरणसंतप्तं घर्मं नैदाघम् अहः ओम्यावन्तं तृप्तिहेतुवृष्ट्युदकोपेतं कृतवन्तौ इति योज्यम् । अपि च "याभिः ऊतिभिः "पृश्निगुं "पुरुकुत्सं च "अवतम् अरक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः अस्मानागच्छतम् ॥ शुचन्तिम् । शुच दीप्तौ । औणादिको झिच् । धनसाम् ।' जनसनखनक्रमगमो विट्'। ‘विड्वनोरनुनासिकस्यात् ' इति आत्वम् । सुषंसदम् । शोभना संसद्यस्य । नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । ओम्यावन्तम् । अवतेः ‘ अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । ज्वरत्वर । इत्यादिना वकारस्य उपधायाश्च ऊठ् । गुणः । छन्दसि च ' इत्यर्हार्थे यप्रत्ययः । ‘नस्तद्धिते' इति टिलोपः । ये चाभावकर्मणोः' इति प्रकृतिभावस्तु व्यत्ययेन न प्रवर्तते । पृश्निगुम् । पृश्नयो नानावर्णा गावो यस्य स तथोक्तः । ‘गोस्त्रियोरुपसर्जनस्य ' (पा. सू. १. २. ४८) इति गोशब्दस्य ह्रस्वत्वम् ।।
पङ्क्तिः १७८:
याभिः॑ । शची॑भिः । वृ॒ष॒णा॒ । प॒रा॒ऽवृज॑म् । प्र । अ॒न्धम् । श्रो॒णम् । चक्ष॑से । एत॑वे । कृ॒थः ।
 
याभिः॑ । वर्ति॑काम् । ग्र॒सि॒ताम् । अमु॑ञ्चतम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥८
 
याभिः । शचीभिः । वृषणा । पराऽवृजम् । प्र । अन्धम् । श्रोणम् । चक्षसे । एतवे । कृथः ।
 
याभिः । वर्तिकाम् । ग्रसिताम् । अमुञ्चतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥८
 
हे "वृषणा कामानां वर्षितारावश्विनौ “याभिः "शचीभिः कर्मभिः प्रज्ञाभिर्वा “परावृजम् एतन्नामकमृषिं पङ्गुं सन्तमपङ्गुमकुरुतम् । तथा "अन्धं दृष्टिरहितं सन्तमृज्राश्वमृषिं "चक्षसे प्रकाशाय सम्यक् चक्षुषा दर्शनाय याभिरूतिभिः “प्र “कृथः प्रकर्षेण कुरुथः । याभिश्च “श्रोणं विगुणजानुकमेव सन्तमृषिम् “एतवे गन्तुं प्र कृथः प्रकर्षेण कृतवन्तौ । अपि च "याभिः ऊतिभिः "वर्तिकां चटकसदृशस्य पक्षिणः स्त्रियं “ग्रसितां वृकेण ग्रस्ताम् "अमुञ्चतं वृकास्यान्निर्मुक्तामकुरुतम् । यास्कपक्षे तु वृकेण विवृतज्योतिष्केण सूर्येण याभिर्ग्रस्तां वर्तिकां प्रत्यहमावर्तमानामुषसं तस्मादमोचयतम् इति योज्यम् । “ताभिः सर्वाभिः “ऊतिभिः अस्मानप्यागच्छतम् ॥ वृषणा । वृष सेचने '।' कनिन्युवृषि' ' इत्यादिना कनिन् । परावृजम् । ' वृजी वर्जने ' । परावृणक्ति तपसा पापं विनाशयतीति परावृक् । ‘क्विप् च ' इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । एतवे । “तुमर्थे सेसेन्' इत्येतेः तवेन्प्रत्ययः । कृथः । डुकृञ् करणे'।' बहुलं छन्दसि ' इति विकरणस्य लुक् ।।
पङ्क्तिः १९४:
याभिः॑ । सिन्धु॑म् । मधु॑ऽमन्तम् । अस॑श्चतम् । वसि॑ष्ठम् । याभिः॑ । अ॒ज॒रौ॒ । अजि॑न्वतम् ।
 
याभिः॑ । कुत्स॑म् । श्रु॒तर्य॑म् । नर्य॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥९
 
याभिः । सिन्धुम् । मधुऽमन्तम् । असश्चतम् । वसिष्ठम् । याभिः । अजरौ । अजिन्वतम् ।
 
याभिः । कुत्सम् । श्रुतर्यम् । नर्यम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥९
 
हे अश्विनौ "सिन्धुं स्यन्दनशीलां नदीं "मधुमन्तं मधुसदृशेनोदकेन पूर्णां "याभिः ऊतिभिः “असश्चतम् अगमयतं प्रावाहयतमित्यर्थः । हे "अजरौ जरारहितावश्विनौ "वसिष्ठम् ऋषिं "याभिः ऊतिभिः "अजिन्वतम् अप्रीणयतम् । “याभिः च कुत्सादीन् त्रीन् ऋषीन् "आवतम् अरक्षतम् । "ताभिः सर्वाभिः “ऊतिभिः अस्मानपि सुष्ठ्वागच्छतम् ॥ मधुमन्तम् । मधुशब्दात् भूम्नि मतुप् । लिङ्गव्यत्ययः । असश्चतम् । सश्चतिर्गतिकर्मा । अस्मात् अन्तर्भावितण्यर्थात् लुङ् ॥
पङ्क्तिः २०९:
याभिः॑ । वि॒श्पला॑म् । ध॒न॒ऽसाम् । अ॒थ॒र्व्य॑म् । स॒हस्र॑ऽमीळ्हे । आ॒जौ । अजि॑न्वतम् ।
 
याभिः॑ । वश॑म् । अ॒श्व्यम् । प्रे॒णिम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥१०
 
याभिः । विश्पलाम् । धनऽसाम् । अथर्व्यम् । सहस्रऽमीळ्हे । आजौ । अजिन्वतम् ।
 
याभिः । वशम् । अश्व्यम् । प्रेणिम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥१०
 
हे अश्विनौ “धनसां धनं संभजमानाम् "अथर्व्यम् अगच्छन्तीं छिन्नजङ्घात्वेन गन्तुमसमर्थाम् । थर्वतिर्गतिकर्मा । "विश्पलाम् एतत्संज्ञामगस्त्यपुरोहितस्य खेलस्य संबन्धिनीं "सहस्रमीळ्हे । मीळ्हमिति धननाम । बहुधनोपेते "आजौ संग्रामे "याभिः ऊतिभिः "अजिन्वतं गन्तुं समर्थामकुरुतम् । एतच्च ' चरित्रं हि वेरिवाच्छेदि पर्णम् ' ( ऋ. सं. १. ११६. १५ ) इत्यत्र विस्पष्टयिष्यते । "याभिः च "अश्व्यम् अश्वाख्यस्य पुत्रं "प्रेणिं स्तुतेः प्रेरयितारं "वशम् एतत्संज्ञम् ऋषिम् "आवतम् अरक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः सहास्मानप्यागच्छतम् ॥ प्रेणिम् । 'प्रेणृ गतिप्रेरणश्लेषणेषु' । औणादिक इप्रत्ययः ॥ ॥ ३४ ॥
पङ्क्तिः २२४:
याभिः॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । औ॒शि॒जाय॑ । व॒णिजे॑ । दी॒र्घऽश्र॑वसे । मधु॑ । कोशः॑ । अक्ष॑रत् ।
 
क॒क्षीव॑न्तम् । स्तो॒तार॑म् । याभिः॑ । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥११
 
याभिः । सुदानू इति सुऽदानू । औशिजाय । वणिजे । दीर्घऽश्रवसे । मधु । कोशः । अक्षरत् ।
 
कक्षीवन्तम् । स्तोतारम् । याभिः । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥११
 
उशिक्संज्ञा दीर्घतमसः पत्नी तस्याः पुत्रो दीर्घश्रवा नाम कश्चिदृषिरनावृष्टयां जीवनार्थमकरोत् `वाणिज्यम् । स च वर्षणार्थमश्विनौ तुष्टाव । तौ च अश्विनौ मेघं प्रेरितवन्तौ। अयमर्थः पूर्वार्धे प्रतिपाद्यते । हे सुदानू शोभनदानावश्विनौ "औशिजाय उशिक्पुत्राय "वणिजे वाणिज्यं कुर्वते दीर्घश्रवसे एतत्संज्ञाय ऋषये “याभिः युष्मदीयाभिः ऊतिभिः हेतुभूताभिः "कोशः मेघः "मधु माधुर्योपेतं वृष्टिजलम् "अक्षरत् असिञ्चत् युष्मत्प्रसादादपेक्षिता वृष्टिर्जातेत्यर्थः । अपि च उशिजः पुत्रं "स्तोतारं कक्षीवन्तम् एतत्संज्ञमृर्षि "याभिः ऊतिभिः "आवतम् अरक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः सहास्मानप्यागच्छतम् ॥ कक्षीवन्तम् । कक्ष्या रज्जुरश्वस्य । तया युक्तः कक्षीवान् । ‘आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवत्' इति निपातनात् मतुपो वत्वम् । संप्रसारणम् ॥
पङ्क्तिः २३९:
याभिः॑ । र॒साम् । क्षोद॑सा । उ॒द्नः । पि॒पि॒न्वथुः॑ । अ॒न॒श्वम् । याभिः॑ । रथ॑म् । आव॑तम् । जि॒षे ।
 
याभिः॑ । त्रि॒ऽशोकः॑ । उ॒स्रियाः॑ । उ॒त्ऽआज॑त । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥१२
 
याभिः । रसाम् । क्षोदसा । उद्नः । पिपिन्वथुः । अनश्वम् । याभिः । रथम् । आवतम् । जिषे ।
 
याभिः । त्रिऽशोकः । उस्रियाः । उत्ऽआजत । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥१२
 
‘रसा नदी भवति रसतेः शब्दकर्मणः ' ( निरु. ११. २५) इति यास्कः । हे अश्विनौ "याभिः ऊतिभिः हेतुभूताभिः "रसां नदीमनावृष्ट्या जलरहितां "क्षोदसा कूलानि संपिंषता "उद्नः उदकेन “पिपिन्वथुः युवां पूरितवन्तौ । तथा "अनश्वम् अश्वैर्वियुक्तमात्मीयं रथं "जिषे जेतुं "याभिः ऊतिभिः "अवतम् अगम्यतम् । अपि च “याभिः ऊतिभिः कण्वपुत्रः "त्रिशोकः ऋषिः "उस्रियाः अपहृता: गा: “उदाजत उदगमयत् असुरसकाशात् लेभे । '“ताभिः सर्वाभिः "ऊतिभिः सह अस्मानप्यागच्छतम् ।। क्षोदसा । 'क्षुदिर् संपेषणे'। औणादिकः असुन् । उद्नः । तृतीयैकवचनस्य ‘सुपां सुपो भवन्ति ' इति शसादेशः । ‘पद्दन' इत्यादिना उदकशब्दस्य उदन्भावः । भसंज्ञायाम् अल्लोपोऽनः' इति अकारलोपः । पिपिन्वथुः । ‘पिवि सेचने'। इदित्त्वात् नुम् । जिषे । 'जि जये। ‘तुमर्थे सेसेन् इति क्से प्रत्ययः । उदाजत । अज गतिक्षेपणयोः ॥
पङ्क्तिः २५४:
याभिः॑ । सूर्य॑म् । प॒रि॒ऽया॒थः । प॒रा॒ऽवति॑ । म॒न्धा॒तार॑म् । क्षैत्र॑ऽपत्येषु । आव॑तम् ।
 
याभिः॑ । विप्र॑म् । प्र । भ॒रत्ऽवा॑जम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥१३
 
याभिः । सूर्यम् । परिऽयाथः । पराऽवति । मन्धातारम् । क्षैत्रऽपत्येषु । आवतम् ।
 
याभिः । विप्रम् । प्र । भरत्ऽवाजम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥१३
 
हे अश्विनौ "परावति दूरदेशे स्थितं सूर्यं तमोरूपेण स्वर्भानुनावृतमादित्यं तस्मात्तमसो मोचयितुं "याभिः ऊतिभिः "परियाथः युवां परितो गच्छथः । तथा “मन्धातारम् ऋषि "क्षैत्रपत्येषु । क्षेत्राणां पतिरधिपतिः क्षेत्रपतिः । तत्संबन्धिषु कर्मसु "आवतम् अरक्षतम् । अपि च "याभिः ऊतिभिः “विप्रं मेधाविनं “भरद्वाजम् ऋषिमन्नप्रदानेन “प्र “आवतं प्रकर्षेणारक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः सह रक्षणार्थमस्मानप्यागच्छतम् । क्षैत्रपत्येषु । ब्राह्मणादेराकृतिगणत्वात् कर्मण्यर्थे प्यञ् ॥
पङ्क्तिः २६९:
याभिः॑ । म॒हाम् । अ॒ति॒थि॒ऽग्वम् । क॒शः॒ऽजुव॑म् । दिवः॑ऽदासम् । श॒म्ब॒र॒ऽहत्ये॑ । आव॑तम् ।
 
याभिः॑ । पूः॒ऽभिद्ये॑ । त्र॒सद॑स्युम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥१४
 
याभिः । महाम् । अतिथिऽग्वम् । कशःऽजुवम् । दिवःऽदासम् । शम्बरऽहत्ये । आवतम् ।
 
याभिः । पूःऽभिद्ये । त्रसदस्युम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥१४
 
हे अश्विनौ “महां महान्तम् “अतिथिग्वम् अतिथिभिर्गन्तव्यं "कशोजुवम् असुरभीत्या उदकं प्रवेष्टु गन्तारम् एवंभूतं “दिवोदासम् एतत्संज्ञकं राजर्षिं “शम्बरहत्ये । शम्ब आयुधम् । तद्युक्तः शम्बरोऽसुरः। तस्य हनने विषयभूते सति 'याभिः ऊतिभिः "अवतम् अरक्षतम्। अपि च "याभिः ऊतिभिः “पूर्भिद्ये पुराणि नगराणि भिद्यन्तेऽस्मिन्निति पूर्भिद्यः संग्रामः । तस्मिन् “त्रसदस्युम् एतत्संज्ञकम् ऋषिं पुरुकुत्सपुत्रम् "आवतम् अरक्षतम् । ताभिरित्यादि पूर्ववत् ॥ महाम् । महान्तमित्यस्य छान्दसो वर्णलोपः । कशोजुवम् । कशः इत्युदकनाम । ‘कश गतिशासनयोः'। असुन्। कशांस्युदकानि जवतीति कशोजूः ।। जु इति सौत्रो धातुर्गत्यर्थः । ‘क्विब्वचि° ' ( उ. सू. २. २१५) इत्यादिना क्विब्दीर्घौ। दिवोदासम् । ‘दिवश्व दासे षष्ठ्या अलुग्वक्तव्यः ' ( का. ६. ३. २१. ५) इति अलुक् । ‘दिवोदासादीनां छन्दस्युपसंख्यानम् ' ( पा. सू. ६. २. ९१. १) इति पूर्वपदाद्युदात्तत्वम् । शम्बरहत्ये । ‘हनस्त च ' इति हन्तेर्भावे क्यप् ; तसंनियोगेन तकारान्तादेशश्च । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
पङ्क्तिः २८५:
याभिः॑ । व॒म्रम् । वि॒ऽपि॒पा॒नम् । उ॒प॒ऽस्तु॒तम् । क॒लिम् । याभिः॑ । वि॒त्तऽजा॑निम् । दु॒व॒स्यथः॑ ।
 
याभिः॑ । विऽअ॑श्वम् । उ॒त । पृथि॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥१५
 
याभिः । वम्रम् । विऽपिपानम् । उपऽस्तुतम् । कलिम् । याभिः । वित्तऽजानिम् । दुवस्यथः ।
 
याभिः । विऽअश्वम् । उत । पृथिम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥१५
 
हे अश्विनौ “वम्रं विखनसः पुत्रमेतत्संज्ञमृषिं “विपिपानं विशेषेण पार्थिवं रसं पिबन्तं "याभिः ऊतिभिः अरक्षतम् । कीदृशम् । “उपस्तुतं समीपस्थैः सम्यक् स्तुतमिति स्तूयमानम् । तथा “वित्तजानिं लब्धभार्यं “कलिम् एतत्संज्ञमृषिं “याभिः ऊतिभिः “दुवस्यथः रक्षथः । "उत अपि च “व्यश्वं विगताश्वं “पृथिम् एतत्संज्ञं वैनं राजर्षिं 'याभिः ऊतिभिः “आवतम् अरक्षतम् । अन्यत् पूर्ववत् ॥ विपिपानम् । ‘पा पाने'। ताच्छीलिकः चानश् । बहुलं छन्दसि ' इति शपः श्लुः । 'बहुलं छन्दसि । इति अभ्यासस्य इत्वम्। उपस्तुतम्। स्तौतेः कर्मणि निष्ठा । प्रवृद्धादित्वादुत्तरपदान्तोदात्तत्वम् (पा. सू. ६. २. १४७ )। वित्तजानिम् । वित्ता लब्धा जाया येन स तथोक्तः । ‘जायाया निङ्' (पा.सू
पङ्क्तिः ३०१:
याभिः॑ । न॒रा॒ । श॒यवे॑ । याभिः॑ । अत्र॑ये । याभिः॑ । पु॒रा । मन॑वे । गा॒तुम् । ई॒षथुः॑ ।
 
याभिः॑ । शारीः॑ । आज॑तम् । स्यूम॑ऽरश्मये । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥१६
 
याभिः । नरा । शयवे । याभिः । अत्रये । याभिः । पुरा । मनवे । गातुम् । ईषथुः ।
 
याभिः । शारीः । आजतम् । स्यूमऽरश्मये । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥१६
 
हे “नरा नेतारावश्विनौ "पुरा पूर्वस्मिन्काले "शयवे एतत्संज्ञकाय ऋषये "गातुं दुःखान्निर्गमनलक्षणं मार्गं “याभिः ऊतिभिः “ईषथुः युवां वाञ्छितवन्तौ कृतवन्तावित्यर्थः । किं तत् । सामर्थ्यात् ‘शयवे चिन्नासत्या शचीभिः ' ( ऋ. सं. १. ११६. २२ ) इत्यस्यामृचि प्रतिपादितम् । तथा “अत्रये ऋषये शतद्वारे यन्त्रगृहेऽसुरैः पीड्यमानाय संतापकारिणः अग्नेः शीतेनोदकेन शीतकरणलक्षणं गातुं दुःखनिर्गमनहेतुभूतं मार्गं "याभिः ऊतिभिर्युवामिष्टवन्तौ । एतच्च हिमेनाग्निं घ्रंसमवारयेथाम्' (ऋ. सं. १. ११६. ८) इत्यादौ प्रसिद्धम् । तथा “मनवे एतन्नाम्ने राजर्षये "याभिः ऊतिभिः यवादिधान्यवापनादिरूपं गातुं दारिद्र्यनिर्गमनहेतुं मार्गं युवां कृतवन्तौ । तथा च मन्त्रान्तरं- यवं वृकेणाश्विना वपन्ता ' ( ऋ. सं. १. ११७. २१ ) इति । अपि च स्यूमरश्मये स्यूतः संबद्धः रश्मिर्दीप्तिर्यस्य तस्मै एतत्संज्ञकाय ऋषये "याभिः ऊतिभिः “शारीः । शरो नाम वेणुविशेषः । तद्विकारभूता इषूः "आजतं शत्रून्प्रति प्रैरयतम् । ताभिरूतिभिरित्यादि पूर्ववत् ॥ नरा। ‘नृ नये'। ‘ऋदोरप्'। ‘सुपां सुलुक् ' इति विभक्तेः आकारः । शयवे ।' शीङ् स्वप्ने । भृमृशीतॄचरि° ' ( उ. सू. १. ७. ) इत्यादिना उप्रत्ययः । ईषथुः । ‘इषु इच्छायाम्'। लिटि अथुसि ‘°असवर्णे' ( पा. सू. ६. ४. ७८) इति पर्युदासात् अभ्यासस्य इयङादेशाभावे सवर्णदीर्घः । शारीः । विकारार्थे शरशब्दात् “ अनुदात्तादेश्च' इति अञ् । ' टिड्ढाणञ्” ' इति ङीप् । स्यूमरश्मये । ‘षिबु तन्तुसंताने' । सिवेः औणादिको मन्प्रत्ययः ।' च्छ्वोः शूठ्' इति ऊठ् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
पङ्क्तिः ३१६:
याभिः॑ । पठ॑र्वा । जठ॑रस्य । म॒ज्मना॑ । अ॒ग्निः । न । अदी॑देत् । चि॒तः । इ॒द्धः । अज्म॑न् । आ ।
 
याभिः॑ । शर्या॑तम् । अव॑थः । म॒हा॒ऽध॒ने । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥१७
 
याभिः । पठर्वा । जठरस्य । मज्मना । अग्निः । न । अदीदेत् । चितः । इद्धः । अज्मन् । आ ।
 
याभिः । शर्यातम् । अवथः । महाऽधने । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥१७
 
हे अश्विनौ “जठरस्य । ‘ जठरमुदरं भवति जग्धमस्मिन्ध्रियते ' ( निरु. ४, ७ ) इति यास्कः । जठरोपलक्षितस्य शरीरस्य "मज्मना बलेन युक्तः सन् "पठर्वा एतत्संज्ञो राजर्षिः “अज्मन् । संग्रामनामैतत् । अज्मनि संग्रामे युष्मदीयाभिः “याभिः ऊतिभिः “आ समन्तात् “अदीदेत् अदीप्यत । तत्र दृष्टान्तः । “चितः काष्ठैरभिचितः “इद्धः यज्ञगृहे ऋत्विग्भिः प्रज्वालितः अग्निर्न । यथा अग्निः प्रकाशते तद्वदित्यर्थः । अपि च “शर्यातं मानवमिन्द्रेण सह स्पर्धमानं “महाधने । संग्रामनामैतत् । महता धनेनोपेते संग्रामे “याभिः ऊतिभिः "अवथः रक्षथः । ताभिरित्यादि गतम् ॥ अदीदेत् । दीदेतिश्छान्दसो दीप्तिकर्मा । अज्मन् ।' अज गतिक्षेपणयोः' । अजन्ति क्षिपन्त्यस्मिन्बाणानिति अधिकरणे औणादिको मनिन् । ‘वलादावार्धधातुके विकल्प इष्यते' (का. २. ४. ५६. २) इति वचनात् वीभावाभावः । ‘सुपां सुलुक् ' इति सप्तम्या लुक् । महाधने ।' आन्महतः' इति आत्वम् ॥
पङ्क्तिः ३३१:
याभिः॑ । अ॒ङ्गि॒रः॒ । मन॑सा । नि॒ऽर॒ण्यथः॑ । अग्र॑म् । गच्छ॑थः । वि॒ऽव॒रे । गोऽअ॑र्णसः ।
 
याभिः॑ । मनु॑म् । शूर॑म् । इ॒षा । स॒म्ऽआव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥१८
 
याभिः । अङ्गिरः । मनसा । निऽरण्यथः । अग्रम् । गच्छथः । विऽवरे । गोऽअर्णसः ।
 
याभिः । मनुम् । शूरम् । इषा । सम्ऽआवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥१८
 
अङ्गिरः इत्येतदामन्त्रितं वाक्यात् बहिर्भूतम् । तेन चात्मानं संबोध्य स्तुतावृषिं प्रेरयति। हे “अङ्गिरः अङ्गिरसां गोत्रज त्वमश्विनौ स्तुहि। हे अश्विनौ मनसा मननीयेन स्तोत्रेण प्रीतौ सन्तौ युवां “याभिः ऊतिभिः "निरण्यथः स्तोतॄन् नितरां रमयथः । यद्वा ! मनसैव करणभूतेन रमयथः । तथा “गोअर्णसः गोरूपस्यारणीयस्य धनस्य पणिभिर्गुहायां निहितस्य “विवरे विवरणे गुहाद्वारस्योद्घाटनेन प्रकाशने विषयभूते सति याभिः ऊतिभिः सह युवाम् “अग्रं सर्वेभ्यो देवेभ्यः पुरस्तात् “गच्छथः । अपि च “शूरं वीर्यवन्तं “मनुम् “इषा पृथिव्यामुप्तेन यवादिधान्यरूपेणान्नेन “याभिः ऊतिभिः “समावतं सम्यगरक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः सहास्मानप्यागच्छतम् ॥ निरण्यथः। निरमयथ इत्यस्य वर्णव्यापत्त्या एतद्रूपम् । विवरे । ' ग्रहवृद्दनिश्चिगमश्च ' इति भावे अप् । थाथादिना उत्तरपदान्तोदात्तत्वम् ॥
पङ्क्तिः ३४६:
याभिः॑ । पत्नीः॑ । वि॒ऽम॒दाय॑ । नि॒ऽऊ॒हथुः॑ । आ । घ॒ । वा॒ । याभिः॑ । अ॒रु॒णीः । अशि॑क्षतम् ।
 
याभिः॑ । सु॒ऽदासे॑ । ऊ॒हथुः॑ । सु॒ऽदे॒व्य॑म् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥१९
 
याभिः । पत्नीः । विऽमदाय । निऽऊहथुः । आ । घ । वा । याभिः । अरुणीः । अशिक्षतम् ।
 
याभिः । सुऽदासे । ऊहथुः । सुऽदेव्यम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥१९
 
हे अश्विनौ “विमदाय एतन्नाम्ने ऋषये “याभिः युष्मदीयाभिः ऊतिभिः “पत्नीः भार्याः पुरुमित्रस्य दुहितरं “न्यूहथुः नितरां युवां प्रापितवन्तौ । “ध इति पादपूरणः । तथा “याभिः ऊतिभिः “अरूणीः अरुणवर्णाः आरोचमाना गाः “आ आभिमुख्येन अशिक्षतम् अदत्तम् । तथा पिजवनपुत्राय “सुदासे कल्याणदानाय राज्ञे “सुदेव्यं प्रशस्तं धनं “याभिः ऊतिभिः “ऊहथुः प्रापितवन्तौ । ताभिरित्यादि गतम् ॥ पत्नीः । अमो व्यत्ययेन शसादेशः । न्यूहथुः । वह प्रापणे'। अथुसि यजादित्वात् संप्रसारणम् । द्विर्वचनादि । सुदासे । शोभनं ददातीति सुदाः । असुन् । सुदेव्यम् । दिगादित्वाद्यत् (पा. सू. ४. ३. ५४ )। तित्स्वरितम् ' इति स्वरितत्त्वम् ॥
पङ्क्तिः ३६१:
याभिः॑ । शन्ता॑ती॒ इति॒ शम्ऽता॑ती । भव॑थः । द॒दा॒शुषे॑ । भु॒ज्युम् । याभिः॑ । अव॑थः । याभिः॑ । अध्रि॑ऽगुम् ।
 
ओ॒म्याऽव॑तीम् । सु॒ऽभरा॑म् । ऋ॒त॒ऽस्तुभ॑म् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥२०
 
याभिः । शन्ताती इति शम्ऽताती । भवथः । ददाशुषे । भुज्युम् । याभिः । अवथः । याभिः । अध्रिऽगुम् ।
 
ओम्याऽवतीम् । सुऽभराम् । ऋतऽस्तुभम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥२०
 
हे अश्विनौ “ददाशुषे हवींषि दत्तवते यजमानाय "याभिः ऊतिभिः “शंताती सुखस्य कर्तारौ “भवथः । “याभिः च ऊतिभिः “भुज्युं तुग्रस्य पुत्रम् “अवथः । “याभिः च “अध्रिगुम् । अधिगुर्देवानां शमिता । ' अध्रिगुश्चापापश्च उभौ देवानां शमितारौ ' (तै. ब्रा. ३. ६. ६. ४ ) इति श्रुतेः । अपि च “ऋतस्तुभम्। ऋतं सत्यं स्तोभत्युच्चारयतीति ऋतस्तुप् । एतत्संज्ञमृषिम् “ओम्यावतीम् । ओम्या इति सुखनाम । तद्युक्तां “सुभरां सुखेन भरणीयाम् इषं याभिः ऊतिभिः प्रापयथः। “ताभिः सर्वाभिः “ऊतिभिः सहास्मानप्यागच्छतम् ॥ शंताती। ‘शिवशमरिष्टस्य करे' (पा. सू. ४. ४. १४३ ) इति तातिल्प्रत्ययः । ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । ददाशुषे । “दा दाने '। लिटः क्वसुः । ‘वसोः संप्रसारणम्' इति संप्रसारणम् । “शासिवसिघसीनां च ' इति षत्वम् ॥ ॥ ३६ ॥
पङ्क्तिः ३७६:
याभिः॑ । कृ॒शानु॑म् । अस॑ने । दु॒व॒स्यथः॑ । ज॒वे । याभिः॑ । यूनः॑ । अर्व॑न्तम् । आव॑तम् ।
 
मधु॑ । प्रि॒यम् । भ॒र॒थः॒ । यत् । स॒रट्ऽभ्यः॑ । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥२१
 
याभिः । कृशानुम् । असने । दुवस्यथः । जवे । याभिः । यूनः । अर्वन्तम् । आवतम् ।
 
मधु । प्रियम् । भरथः । यत् । सरट्ऽभ्यः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥२१
 
स्वानादिषु सोमपालेषु' मध्ये कृशानुरेकः सोमपालः । तथा च तैत्तिरीयकं- हस्त सुहस्त कृशानवेते वः सोमक्रयणः: ' (तै. सं. १. २.७) इति । तं “कृशानुम् “असने। इषवोऽस्यन्तेऽस्मिन्नित्यसनः संग्रामः । तस्मिन् संग्रामे हे अश्विनौ “याभिः ऊतिभिः दुवस्यथः रक्षथः । तथा “याभिः च “जवे वेगे प्रवृत्तं “यूनः तरुणस्य पुरुकुत्सस्य “अर्वन्तम् अश्वम् “आवतम् अरक्षतम् । अपि च “यत् “मधु क्षौद्रं “प्रियं सर्वेषामनुकूलवेद्यं तत् “सरड्भ्यः मधुमक्षिकाभ्यः याभिः च ऊतिभिः "भरथः संपादयथः । “ताभिः सर्वाभिः “ऊतिभिः सहास्मानप्यागच्छतम् ॥ असने । ‘असु क्षेपणे ' । ' करणाधिकरणयोश्च ' इति अधिकरणे ल्युट् । सरड्भ्यः । ‘सृ गतौ । सर्तेरटिः ।।
पङ्क्तिः ३९१:
याभिः॑ । नर॑म् । गो॒षु॒ऽयुध॑म् । नृ॒ऽसह्ये॑ । क्षेत्र॑स्य । सा॒ता । तन॑यस्य । जिन्व॑थः ।
 
याभिः॑ । रथा॑न् । अव॑थः । याभिः॑ । अर्व॑तः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥२२
 
याभिः । नरम् । गोषुऽयुधम् । नृऽसह्ये । क्षेत्रस्य । साता । तनयस्य । जिन्वथः ।
 
याभिः । रथान् । अवथः । याभिः । अर्वतः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥२२
 
हे अश्विनौ “गोषुयुधं गोविषयं युद्धं कुर्वन्तं “नरं यज्ञस्य नेतारं यजमानं “याभिः ऊतिभिः “नृषाह्ये नृभिः सोढव्ये संग्रामे “जिन्वथः प्रीणयथः रक्षथः इत्यर्थः । तथा “क्षेत्रस्य गृहादिरूपस्य । तनयशब्दो धनवाची । “तनयस्य धनस्य च “साता सातये संभजनार्थं "याभिः ऊतिभिः यजमानं रक्षथः,। 'याभिः च यजमानानां “रथान् रक्षथः । तदीयान् “अर्वतः अश्वांश्च याभिः “अवथः । “ताभिः सर्वाभिः “ऊतिभिः सहास्मानप्यागच्छतम् ॥ गोषयुधम् । 'युध संप्रहारे ' । गोषु युध्यते इति गोषुयुत् । तत्पुरुषे कृति बहुलम्' इति अलुक् । नृषाह्ये । ' षह मर्षणे '। ‘शकिसहोश्च' इति यत् । अन्येषामपि दृश्यते' इति सांहितिको दीर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । साता । ' वन षण संभक्तौ । भावे क्तिन् । ‘जनसनखनां सञ्झलोः ' इति आत्वम् । ‘ऊतियूति' इत्यादिना क्तिन उदात्तत्वं निपातितम् ।' सुपां सुलुक् ' इति चतुर्थ्यां डादेशः । जिन्वथः । जिविः प्रीणनार्थः । भौवादिकः । इदित्त्वात् नुम् । रथान् ।' दीर्घादटि समानपादे' इति नकारस्य रुत्वम् । ‘आतोऽटि नित्यम्' इति सानुनासिक आकारः ।।
पङ्क्तिः ४०६:
याभिः॑ । कुत्स॑म् । आ॒र्जु॒ने॒यम् । श॒त॒क्र॒तू॒ इति॑ शतऽक्रतू । प्र । तु॒र्वीति॑म् । प्र । च॒ । द॒भीति॑म् । आव॑तम् ।
 
याभिः॑ । ध्व॒सन्ति॑म् । पु॒रु॒ऽसन्ति॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥२३
 
याभिः । कुत्सम् । आर्जुनेयम् । शतक्रतू इति शतऽक्रतू । प्र । तुर्वीतिम् । प्र । च । दभीतिम् । आवतम् ।
 
याभिः । ध्वसन्तिम् । पुरुऽसन्तिम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥२३
 
हे “शतक्रतू बहुविधकर्माणावश्विनौ "आर्जुनेयम् । अर्जुन इतीन्द्रस्य नाम । तथा च वाजसनेयकम् - ’एतद्वा इन्द्रस्य गुह्यं नाम यदर्जुनः' इति । तस्य पुत्रं “कुत्सं "याभिः ऊतिभिः “प्र “आवतं प्रकर्षेणारक्षतम् । तथा “तुर्वीतिं “दभीतिं “च याभिः ऊतिभिः “प्र आवतम् । अपि च “याभिः “ध्वसन्तिम् एतत्संज्ञ “पुरुषन्तिम् एतन्नामानं च ऋषिम् “आवतम् अरक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः सहास्मानपि सुष्ठ्वागच्छतम् ॥ आर्जुनेयम् ।' शुभ्रादिभ्यश्च ' ( पा. सू. ४. १. १२३ ) इति चशब्दोऽनुक्तसमुच्चयार्थं इत्युक्तत्वात् ढक् । तुर्वीतिम् । ' तुर्वी हिंसार्थः । शत्रूंस्तुर्वतीति तुर्वीतिः । औणादिक ईतिप्रत्ययः । दभीतिम् । ‘दम्भु दम्भे'। औणादिकः कीतिप्रत्ययः । ध्वसन्तिम् । ‘ध्वंसु गतौ च ' । औणादिको झिङ्प्रत्ययः। ‘अनिदिताम्' इति नलोपः । ‘झोऽन्तः' । पुरुषन्तिम् । पुरु सनोति ददातीति पुरुषन्तिः । ‘क्तिच्क्तौ च संज्ञायाम् ' इति क्तिच् ।' न क्तिचि दीर्घश्च' इति अनुनासिकलोपोपधादीर्घयोर्निषेधः ॥
पङ्क्तिः ४२१:
अप्न॑स्वतीम् । अ॒श्वि॒ना॒ । वाच॑म् । अ॒स्मे इति॑ । कृ॒तम् । नः॒ । द॒स्रा॒ । वृ॒ष॒णा॒ । म॒नी॒षाम् ।
 
अ॒द्यू॒त्ये॑ । अव॑से । नि । ह्व॒ये॒ । वा॒म् । वृ॒धे । च॒ । नः॒ । भ॒व॒त॒म् । वाज॑ऽसातौ ॥२४
 
अप्नस्वतीम् । अश्विना । वाचम् । अस्मे इति । कृतम् । नः । दस्रा । वृषणा । मनीषाम् ।
 
अद्यूत्ये । अवसे । नि । ह्वये । वाम् । वृधे । च । नः । भवतम् । वाजऽसातौ ॥२४
 
हे अश्विनौ “अस्मे अस्माकं “वाचम् “अप्नस्वतीम् । अप्न इति कर्मनाम । विहितैः कर्मभिः संयुक्तां “कृतं कुरुतम् । तथा “नः अस्माकं “मनीषां बुद्धिं हे “वृषणा कामानां वर्षकौ “दस्रा शत्रूणामुपक्षपयितारावश्विनौ वेदार्थज्ञानसमर्थां कुरुतम् । अपि च यस्मात् युवामेवंगुणविशिष्टौ तस्मात् “वां युवाम् “अवसे रक्षणाय “नि “ह्वये नितरामाह्वये । कदा । “अद्यूत्ये द्योतनरहिते प्रकाशनरहिते रात्रेः पश्चिमे यामे । तस्मिन् काले हि प्रातरनुवाकाश्विनशस्त्रयोरिदं सूक्तं पठ्यते । आहूतौ “च युवां “वाजसातौ वाजस्यान्नस्य संभजने । यद्वा । संग्रामनामैतत् । संग्रामे “नः अस्माकं "वृधे वर्धनाय “भवतम् ॥ अप्नस्वतीम् । ‘आपः कर्माख्यायां ह्रस्वो नुट् च वा' इति असुन् नुडागमश्च । तदस्यास्ति' इति मतुप् । ‘मादुपधायाः' इति मतुपो वत्वम् । तसौ मत्वर्थे ' इति भत्वेन पदत्वाभावात् रुत्वाद्यभावः । अस्मे । 'सुपां सुलुक् ' इति षष्ठ्याः शेआदेशः । कृतम् । करोतेर्लोटि ‘बहुलं छन्दसि । इति विकरणस्य लुक् । अद्यूत्ये । ‘द्युत दीप्तौ' ।' ऋहलोर्ण्यत्' इति भावे ण्यत् । वर्णव्यापत्त्या ऊकारः । द्यूत्यं प्रकाशनमस्मिन्नास्तीति बहुव्रीहौ व्यत्ययेनान्तस्वरितत्वम् । नि ह्वये । निसमुपविभ्यो ह्वः' इति आत्मनेपदम् । वृधे । “वृधु वृद्धौ'। संपदादिलक्षणो भावे क्विप् । 'सावेकाच:० इति विभक्तेरुदात्तत्वम् ॥
पङ्क्तिः ४३६:
द्युऽभिः॑ । अ॒क्तुऽभिः॑ । परि॑ । पा॒त॒म् । अ॒स्मान् । अरि॑ष्टेभिः । अ॒श्वि॒ना॒ । सौभ॑गेभिः ।
 
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥२५
 
द्युऽभिः । अक्तुऽभिः । परि । पातम् । अस्मान् । अरिष्टेभिः । अश्विना । सौभगेभिः ।
 
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥२५
 
हे अश्विनौ “द्युभिः दिवसैः "अक्तुभिः रात्रिभिश्च "अस्मान् स्तोतॄन् “परि “पातं परितो रक्षतं सर्वदास्मान् रक्षतमित्यर्थः । तथा “अरिष्टेभिः अहिंसितैः “सौभगेभिः सुभगत्वैः सुभगत्वापादकैर्धनैः अस्मान् रक्षतम् । यस्माभिः प्रार्थितं “नः अस्मदीयं “तत् मित्रादयः षड्देवताः “ममहन्तां पूजयन्तु । उतशब्दः समुच्चये ॥ द्युभिः । ‘दिव उत्' इति उत्वम् । “ दिवो झल्' ( पा. सू. ६. १. १८३ ) इति ‘सावेकाचः° ' इति प्राप्तस्य विभक्त्युदात्तत्वस्य प्रतिषेधः । अरिष्टेभिः । ‘रिष हिंसायाम् । निष्ठा ' इति क्तः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। 'बहुलं छन्दसि इति भिसः ऐसभावः । अश्विना । ‘सुपां सुलुक्' इति विभक्तेः आकारः । ‘आमन्त्रितस्य च ' इति सर्वानुदात्तत्वम् । सौभगेभिः। शोभनो भगः श्रीर्यस्यासौ सुभगः । तस्य भावः सौभगम् । ‘सुभगान्मन्त्रे' इत्युद्गात्रादिषु पाठात् अञ्प्रत्ययः । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ' इति उभयपदवृद्धिर्न भवति, तस्याः ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति विकल्पितत्वात् । पूर्ववत् ऐसभावः । ‘ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वम् ॥ ॥ ३७ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११२" इत्यस्माद् प्रतिप्राप्तम्