"ऋग्वेदः सूक्तं १.१५०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३१:
पु॒रु । त्वा॒ । दा॒श्वान् । वो॒चे॒ । अ॒रिः । अ॒ग्ने॒ । तव॑ । स्वि॒त् । आ ।
 
तो॒दस्य॑ऽइव । श॒र॒णे । आ । म॒हस्य॑ ॥१
 
पुरु । त्वा । दाश्वान् । वोचे । अरिः । अग्ने । तव । स्वित् । आ ।
 
तोदस्यऽइव । शरणे । आ । महस्य ॥१
 
हे अग्ने “त्वा त्वां “पुरु बहु “वोचे । यद्वा । बहु दाश्वानिति संबन्धः । पुत्रं देहि वित्तं देहि इत्याद्याशासनानि ब्रवीमीत्यर्थः । किं तृष्णीं नेत्याह । यतः “दाश्वान् अभिमतं हविः दत्तवानस्मि अतः वोचे । इतरसाधारण्येन ब्रुवतः कथं दातव्यमिति न मन्तव्यम् । यतोऽहं हे “अग्ने “तव “स्वित् तवैव
पङ्क्तिः ४७:
वि । अ॒नि॒नस्य॑ । ध॒निनः॑ । प्र॒ऽहो॒षे । चि॒त् । अर॑रुषः ।
 
क॒दा । च॒न । प्र॒ऽजिग॑तः । अदे॑वऽयोः ॥२
 
वि । अनिनस्य । धनिनः । प्रऽहोषे । चित् । अररुषः ।
 
कदा । चन । प्रऽजिगतः । अदेवऽयोः ॥२
 
पूर्वमन्त्रे स्वाभीष्टं बहु विज्ञापयामीत्युक्तम् । अन्न तु स्वविलक्षणेभ्यो दानादिरहितेभ्यो दानं न दातव्यमिति प्रार्थयते । हे अग्ने त्वां विशेषेण ब्रवीमि । उपसर्गश्रुतेः योग्यक्रियाध्याहारः । अथवा संनिहितत्वात् वोचे इत्यनुषज्यते । अस्मदर्थं यत् व्यजिज्ञपन्’ तद्विरुद्धं वोचे । वक्ष्यमाणस्वरूपस्य न दातव्यम् इति ब्रवीमि" इत्यर्थः । तेषां स्वरूपमाह । “अनिनस्य अस्वामिनः त्वाम् अस्वामिनं कुर्वाणस्य तथा “धनिनः समग्रधनवतः । पूर्वमेव धनवतो दानस्य निरर्थकत्वात् तन्निवार्यते । यद्वा । यागाद्यनुपयोगिधनवतः इत्यर्थः । किंच “प्रहोषे प्रकर्षेण होतुम् अररुषः अददतो दक्षिणारूपेण । यद्वा । प्रहोषेऽनिनस्येति संबन्धः । प्रकर्षेण होतुमसमर्थस्येत्यर्थः । अत्र इनशब्देन तत्स्थं सामर्थ्यं लक्ष्यते । चिच्छब्दः समुच्चयार्थः । किंच “कदा “चन “प्रजिगतः कदाचिदपि प्रकर्षेण देवान् अस्तुवतः । अत्र चन इति निपातद्वयसमुदायः । तत्र चशब्दः समुच्चये नशब्दो निषेधे । किंच “अदेवयोः देवानात्मनोऽनिच्छतः । एतेषां न दातव्यमिति विवोचे इत्यर्थः । निन्दितानां स्वरूपनिरूपणेन स्वस्य अतादृशत्वात् बहु वोचे इत्येतत् युक्तमेवेत्युक्तं भवति । यद्वा । चन इति चिच्छब्दपर्यायः । उक्तप्रकारेण दुष्टस्यापि कदाचित् प्रजिगतो यदाकदाचित् त्वां स्तुवतो विवोचे । तादृशस्य दातव्यमिति विशेषेण ब्रवीमि । किमु वक्तव्यमस्मदर्थमिति भावः ।।
पङ्क्तिः ६२:
सः । च॒न्द्रः । वि॒प्र॒ । मर्त्यः॑ । म॒हः । व्राध॑न्ऽतमः । दि॒वि ।
 
प्रऽप्र॑ । इत् । ते॒ । अ॒ग्ने॒ । व॒नुषः॑ । स्या॒म॒ ॥३
 
सः । चन्द्रः । विप्र । मर्त्यः । महः । व्राधन्ऽतमः । दिवि ।
 
प्रऽप्र । इत् । ते । अग्ने । वनुषः । स्याम ॥३
 
हे अग्ने “विप्र मेधाविन् यः “मर्त्यः त्वां यजते “सः मर्त्यो यजमानः “दिवि द्युलोके “चन्द्रः सर्वेषाम् आह्लादकश्चन्द्रसदृशो भवति । यद्वा । चन्द्र एव भवति । यजमानानां चन्द्रत्वप्राप्तिं छन्दोगा आमनन्ति- पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा' (छा. उ. ५. १०. ४) इति । ‘ सोमलोके विभूतिमनुभूय' (प्र. उ. ५.४) इति च । तथा मुण्डकेऽपि द्युलोकप्राप्तिराम्नायते–' एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । तं नयन्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः' इति, “ एष वः पुण्यः सुकृतो ब्रह्मलोकः' (मु. उ. १. २. ५-६ ) इति च । पुनः स एव विशेष्यते। “महः महतोऽपि “व्राधन्तमः प्रवृद्धतमः । इतरदेवानामपि श्रेष्ठ इत्यर्थः। अतः “अग्ने' "ते तव “प्रप्रेत् प्रकर्षेणैव “वनुषः संभक्तारः “स्याम । यद्वा । प्रीणयित्वा प्रप्रेत् स्याम । प्रकृष्टा एव भवेम ॥ ॥ १९ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५०" इत्यस्माद् प्रतिप्राप्तम्