"ऋग्वेदः सूक्तं १.१२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ८९:
तक्षत् । वज्रम् । निऽयुतम् । तस्तम्भत् । द्याम् । चतुःऽपदे । नर्याय । द्विऽपादे ॥३
 
“अरुणीः अरुणवर्णाः आरोचमानाः वा उषसः "राट् राजयन् प्रकाशयन् सूर्यात्मा इन्द्रः “पूर्व्यं पूर्वैर्ऋषिभिः प्रयुक्तं “हवम् इदानीमस्माभिः क्रियमाणमाह्वानं “नक्षत् नक्षतु शृणोतु । कीदृशः । “अनु “द्यून अनुदिवसं “विशां मनुष्याणाम् “अङ्गिरसाम् ऋषीणां स्तोतॄणां “तुरः धनस्य प्रेरयिता । अपि च स इन्द्रः “वज्रं स्वकीयमायुधं “नियुतं हन्तव्येन सह नितरां युक्तं “तक्षत् अकरोत् । तथा “द्यां द्युलोकं “तस्तम्भत् अस्तम्भयत् । यथा अधो न पतति तथा अकरोदित्यर्थः । किमर्थम् । “नर्याय नृभ्यो हिताय “चतुष्पदे गवाश्वादये “द्विपादे मनुष्याय च । एतदुभयार्थमित्यर्थः ॥ नक्षत् । नक्ष गतौ । लेटि अडागमः । पूर्व्यम् । पूर्वैः कृतमिनयौ च ' (पा. सू. ४. ४. १३३ ) इति यप्रत्ययः । राट् । ‘ राजृ दीप्तौ । अस्मादन्तर्भावितण्यर्थात् क्विप् । तुरः । ‘ तुर त्वरणे '। इगुपधलक्षणः कः । तक्षत् । ‘ तक्षू त्वक्षू तनूकरणे'। ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । तस्तम्भत् । ष्टभि स्कभि गतिप्रतिबन्धे'। अस्मात् ण्यन्तात् लुङि चङि रूपम् । ‘चङयन्यतरस्याम्' इति उपोत्तमस्य उदात्तत्वम् । पूर्वपदस्य असमानवाक्यस्थत्वात् निघाताभावः । चतुष्पदे । चत्वारः पादाः अस्य ।' संख्यासुपूर्वस्य । vइतिइति पादशब्दस्य अन्त्यलोपः समासान्तः । चतुर्थ्येकवचने भसंज्ञायां पादः पत्' इति पद्भावः । द्विपादे । पूर्ववत्प्रक्रिया । अयं तु विशेषः । अयस्मयादित्वेन पदत्वात् भसंज्ञाया अभावे पद्भावाभावः । ‘ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ' इत्युत्तरपदान्तोदात्तत्वम् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२१" इत्यस्माद् प्रतिप्राप्तम्