"ऋग्वेदः सूक्तं १०.१३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३२:
यु॒जे । वा॒म् । ब्रह्म॑ । पू॒र्व्यम् । नमः॑ऽभिः । वि । श्लोकः॑ । ए॒तु॒ । प॒थ्या॑ऽइव । सू॒रेः ।
 
शृ॒ण्वन्तु॑ । विश्वे॑ । अ॒मृत॑स्य । पु॒त्राः । आ । ये । धामा॑नि । दि॒व्यानि॑ । त॒स्थुः ॥१
 
युजे । वाम् । ब्रह्म । पूर्व्यम् । नमःऽभिः । वि । श्लोकः । एतु । पथ्याऽइव । सूरेः ।
 
शृण्वन्तु । विश्वे । अमृतस्य । पुत्राः । आ । ये । धामानि । दिव्यानि । तस्थुः ॥१
 
हे हविर्धानशकटे “वां युवामहं “पूर्व्यं पूर्वस्मिन् काले भवम् । अनादिकालप्रवृत्तमित्यर्थः । एवंभूतं “ब्रह्म मन्त्रम् । उच्चार्येति शेषः । “नमोभिः सोमादिहविर्लक्षणैरन्नैः “युजे युनज्मि । युवयोरुपरि सोमादिकमारोप्य पत्नीशालातो हविर्धानं प्रति युवां नयामीत्यर्थः । एवंभूतयोर्युवयोः “श्लोकः शब्दः “वि “एतु विश्वान् देवान् प्रति विविधं गच्छतु । तत्र दृष्टान्तः । “पथ्येव “सूरेः । यथा स्तोतुः स्वभूता पथ्या परिणामसुखावहा आहुतिः विश्वान् देवान् प्रति विविधं गच्छति तद्वत् । “अमृतस्य अमरणधर्मणः प्रजापतेः “पुत्राः “विश्वे देवाः एवंभूतं शब्दं “शृण्वन्तु “ये देवाः "दिव्यानि दिवि भवानि “धामानि स्थानानि “आ “तस्थुः अधिष्ठितवन्तः । ते शृण्वन्त्वित्यर्थः ॥
पङ्क्तिः ४९:
य॒मे इ॒वेति॑ य॒मेऽइ॑व । यत॑माने॒ इति॑ । यत् । ऐत॑म् । प्र । वा॒म् । भ॒र॒न् । मानु॑षाः । दे॒व॒ऽयन्तः॑ ।
 
आ । सी॒द॒त॒म् । स्वम् । ऊं॒ इति॑ । लो॒कम् । विदा॑ने॒ इति॑ । स्वा॒स॒स्थे इति॑ सु॒ऽआ॒स॒स्थे । भ॒व॒त॒म् । इन्द॑वे । नः॒ ॥२
 
यमे इवेति यमेऽइव । यतमाने इति । यत् । ऐतम् । प्र । वाम् । भरन् । मानुषाः । देवऽयन्तः ।
 
आ । सीदतम् । स्वम् । ऊं इति । लोकम् । विदाने इति । स्वासस्थे इति सुऽआसस्थे । भवतम् । इन्दवे । नः ॥२
 
“यमेइव यथा सहोत्पन्ने अपत्ये संचरतः तथा “यतमाने गमनहविर्धारणादिस्वाधिकारकर्मणि प्रवर्तमाने हविर्धानशकटे युवां “यत् यदा “ऐतं हविर्धानस्थानं प्रतिगच्छथः तदा “देवयन्तः देवकामाः “मानुषाः यजमानाः “वां युवा “प्र “भरन् प्रभरन्ति । किंच युवां “स्वमु “लोकम् आत्मीयमेव हविर्धानाख्यं स्थानं “विदाने जानती “आ “सीदतम्। ततः “नः अस्माकम् “इन्दवे सोमार्थं “स्वासस्थे शोभननिवासस्थाने “भवतम् ॥
पङ्क्तिः ६४:
पञ्च॑ । प॒दानि॑ । रु॒पः । अनु॑ । अ॒रो॒ह॒म् । चतुः॑ऽपदीम् । अनु॑ । ए॒मि॒ । व्र॒तेन॑ ।
 
अ॒क्षरे॑ण । प्रति॑ । मि॒मे॒ । ए॒ताम् । ऋ॒तस्य॑ । नाभौ॑ । अधि॑ । सम् । पु॒ना॒मि॒ ॥३
 
पञ्च । पदानि । रुपः । अनु । अरोहम् । चतुःऽपदीम् । अनु । एमि । व्रतेन ।
 
अक्षरेण । प्रति । मिमे । एताम् । ऋतस्य । नाभौ । अधि । सम् । पुनामि ॥३
 
“रुपः यष्टॄणां स्वर्गमारोपयितुर्यज्ञस्याङ्गत्वेन संबन्धीनि पञ्चसंख्याकानि धानासोमपशुपुरोडाशाज्याख्यानि “पदानि पदितॄणि होतृत्वेन देवान् प्रति गन्तॄणि हवींषि “अन्वरोहम् अनुरोहामि । शकटे युवयोः स्थापनवहनानन्तरं करणं करोमीत्यर्थः । किंच “चतुष्पदीं चतुर्भिः पादैर्युक्तां त्रिष्टुबादिच्छन्दसं क्रियां “व्रतेन प्रयोगकर्मणा “अन्वेमि अनुगच्छामि। यथाकालं प्रयुनज्मीत्यर्थः । “अक्षरेण प्रणवाख्येन “एताम् उपस्थितां प्रतिगरक्रियां “प्रति “मिमे निर्ममे । अपि च “ऋतस्य यज्ञस्य । “अधि इति सप्तम्यर्थानुवादी। “नाभौ नाभिभूते वेद्याख्ये स्थाने “सं “पुनामि संशोधयामि ।। दशापवित्रेण सोमं संस्करोमीत्यर्थः ॥
पङ्क्तिः ७९:
दे॒वेभ्यः॑ । कम् । अ॒वृ॒णी॒त॒ । मृ॒त्युम् । प्र॒ऽजायै॑ । कम् । अ॒मृत॑म् । न । अ॒वृ॒णी॒त॒ ।
 
बृह॒स्पति॑म् । य॒ज्ञम् । अ॒कृ॒ण्व॒त॒ । ऋषि॑म् । प्रि॒याम् । य॒मः । त॒न्व॑म् । प्र । अ॒रि॒रे॒ची॒त् ॥४
 
देवेभ्यः । कम् । अवृणीत । मृत्युम् । प्रऽजायै । कम् । अमृतम् । न । अवृणीत ।
 
बृहस्पतिम् । यज्ञम् । अकृण्वत । ऋषिम् । प्रियाम् । यमः । तन्वम् । प्र । अरिरेचीत् ॥४
 
"देवेभ्यः देवानां “मृत्युं मारयितारं “कं स्वपुरुषम् “अवृणीत प्रार्थयते प्रयुङ्क्ते। किंच “प्रजायै देवव्यतिरिक्ताया मनुष्यादिकायाः प्रजायाः "अमृतम् अमारकमविनाशकं “कं वा स्वपुरुषं “नावृणीत न प्रयुङ्क्ते । हविर्धारणक्रियायां प्रवृत्तायां सत्यां पूर्वोक्तानां सर्वेषां स्थितेरवश्यंभावित्वान्न कंचिदपि विनाशकं स्वपुरुषं यमो निरूपयतीत्यर्थः। अपि च “बृहस्पतिं बृहतां देवानां हविर्धारणे पालकं बृहतां मन्त्राणां स्वामिनं वा “ऋषिं सर्वस्य दृष्टादृष्टफलस्य द्रष्टारं “यज्ञम् “अकृण्वत ऋत्विग्यजमानाः कुर्वन्ति । अपि च “यमः "प्रियां “तन्वम् अस्मदीयमिष्टं शरीरं “प्रारिरेचीत् । धातूनामनेकार्थत्वात् रिचिरत्र परिहारार्थे वर्तते । प्ररेचयति । मृत्योः सकाशात् परिहरति । कर्मवैगुण्यजनितदोषभावादस्माकं जीवितं नापहरतीत्यर्थः॥
पङ्क्तिः ९४:
स॒प्त । क्ष॒र॒न्ति॒ । शिश॑वे । म॒रुत्व॑ते । पि॒त्रे । पु॒त्रासः॑ । अपि॑ । अ॒वी॒व॒त॒न् । ऋ॒तम् ।
 
उ॒भे इति॑ । इत् । अ॒स्य॒ । उ॒भय॑स्य । रा॒ज॒तः॒ । उ॒भे इति॑ । य॒ते॒ते॒ इति॑ । उ॒भय॑स्य । पु॒ष्य॒तः॒ ॥५
 
सप्त । क्षरन्ति । शिशवे । मरुत्वते । पित्रे । पुत्रासः । अपि । अवीवतन् । ऋतम् ।
 
उभे इति । इत् । अस्य । उभयस्य । राजतः । उभे इति । यतेते इति । उभयस्य । पुष्यतः ॥५
 
“मरुत्वते । मरुतः स्तोतारः । स्तुतिद्वारेण तद्वते “पित्रे ऋत्विजां पितृभूताय “शिशवे शंसनीयाय हविर्धानशकटयोः सुखासीनभूताय सोमाय “सप्त च्छन्दांसि “क्षरन्ति स्तुतित्वेन गच्छन्ति । अपि च “पुत्रासः “अपि सोमस्य पुत्रभूता ऋत्विजोऽपि “ऋतं सत्यभूतं स्तोत्रम् “अवीवतन् संगमयन्ति । सद्गुणग्राहिणीं स्तुतिं कुर्वन्तीत्यर्थः । “उभे “इत् द्वे एव हविर्धानशकटे “अस्य “उभयस्य देवजातस्य मनुष्यजातस्य च “राजतः ईशाते । “उभे एव शकटे “यतेते कर्मानुष्ठाने प्रयत्नं कुरुतः । “उभयस्य देवजातस्य मनुष्यजातस्य च “पुष्यतः । हविर्धारणद्वारेण पुष्टिं कुरुत इत्यर्थः ॥ ॥ १३ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३" इत्यस्माद् प्रतिप्राप्तम्