"कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः ०२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
पत्नीं सन्नह्यति प्रत्यग्दक्षिणत उपविष्टां गार्हपत्यस्य मुञ्जयोक्त्रेण त्रिवृता परिहरत्यधीवासोऽदित्यै रास्नेति १ दक्षिणं पाशमुत्तरे प्रतिमुच्योर्ध्वमुद्गूहति विष्णोर्वेष्प इति २ न ग्रन्थिं करोति ३ ऊर्जे त्वेत्याज्यमुद्वास्य पत्नी-मवेक्षयति अदब्धेनेति ४ वेद्यां करोत्यपरं प्रोक्षणीभ्यः ५ आहवनीये वा कृत्वा तच्छ्रापिणः ६ सवितुस्त्वेत्याज्यमुत्पुनाति प्रोक्षणीश्च पूर्ववत् ७ आज्यमवेक्षते तेजोऽसीति यजमानो वा ८ स्रुवेणाऽज्यग्रहणं चतुर्जुह्वां धाम नामेति सकृन्मन्त्रः ९ अष्टावुपभृत्यल्पीयोऽनुयाजाश्चेत् १० चतुरन्यत्र प्रतिविभागात् ११ पश्वातिथ्याऽदर्शनाच्च १२ न कृत्स्नोपदेशात् १३ पश्वातिथ्ययोर्वचनात् १४ ध्रुवायां च जुहूवत् १५ इध्मं प्रोक्षति विस्रंस्य वेदिं च बर्हिः प्रतिगृह्य वेद्यां कृत्वा पुरस्तादग्रन्थिं कृष्णोऽसीति प्रतिमन्त्रम् १६ शेषं मुलेषूपसिञ्चत्यदित्यै व्युन्दनमिति १७ पवित्रे निधाय प्रणीतासु बर्हिर्विस्रंस्य पुरस्तात्प्रस्तरग्रहणं विष्णोरिति १८ ब्रह्मणे प्रदाय सन्नहनं विस्रंस्य दक्षिणस्यां वेदिश्रोणौ निधायाऽन्यैरवच्छाद्य वेदिं स्तृणात्यू-र्णम्रदसमिति त्रिवृत् १९ उपपत्या वा बहुलम् २० अधरमूलम् २१ पश्चादपवर्गम् २२ प्रबृहं वा २३ अत्रोद्वासनमाहवनीयश्रापिणः २४ इध्मात्समिधमादायाऽहवनीयं कल्पयत्युपर्युपरि प्रस्तरं धारयन् २५ उल्मुके उदूहत्यनुयाजाश्चेत् २५ ७ 2.7
 
परिधीन्परिदधात्याद्रा र्ने!कवृक्षीयान्परिधीन्परिदधात्यार्द्रार्नेकवृक्षीयान् बाहुमात्रान् पालाशवैकङ्कतकार्ष्म-र्यबैल्वान्पूर्वालाभपालाशवैकङ्कतकार्ष्मर्यबैल्वान्पूर्वालाभ उत्तरान् खादिरौदुम्बरान्वा मध्यमदक्षिणोत्तरान् गन्धर्व इति प्रतिमन्त्रम् १ प्रथमं परिधिं समिधोपस्पृश्य वीतिहोत्रमित्यादधाति २ अनुपस्पृश्य द्वितीयां समिदसीति ३ सूर्यस्वेति जपति आहवनीयमीक्षमाणस्तद्वचनत्वात् ४ आवृत्य वेदिं बर्हिषस्तृणे तिरश्ची निदधाति सवितुरिति ५ अन्ये वाऽयुक्तत्वात् ६ अन्यत्राऽपि गृणार्थे ७ यूपाञ्जने च सर्पिः ८ पुरोडाशपयस्याधानासु चेच्छन् ९ तयोः प्रस्तरं स्तृणात्यूर्णम्रदसमिति १० अभिनिदधात्या त्वा वसव इति ११ सव्याऽशून्ये जुहूं प्रतिगृह्य निदधाति घृताचीति १२ एवमितरे उत्तराभ्यां प्रतिमन्त्रं बर्हिष्युपभृतं ध्रुवां चाऽवकृष्टेऽनुपूर्वम् । पुरोडाशावभिघार्योद्वास्योपस्तीर्णे निधायाऽनक्ति यस्ते प्राणः पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मवान् सोम घृतवाह्नि भूत्वाऽग्निं गच्छ स्वर्यजमानाय विन्देति १४ यथादेवतमन्यत् १५ प्रत्यनक्ति कपालानि यानि घर्मे कपालान्युपछिन्वन्ति वेधसः । पूष्णस्तान्यपि व्रत इन्द्र वायू विमुञ्चतामिति १६ तूष्णीं वा १७ सङ्ख्ययोद्वासयति १८ प्रियेण धाम्नेति हवींषि वेद्यां कृत्वा ध्रुवा असदन्निति सर्वाण्यालभते १९ पाहि मामित्यात्मानम् २० अत्र वा व्रतोपायनम् अत्र वा व्रतोपायनम् २१ ८ 2.8
इति कातीये श्रौतसूत्रे द्वितीयोऽध्यायः