"ऋग्वेदः सूक्तं १०.१७२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २०:
 
{{सायणभाष्यम्|
* आ याहि' इति चतुर्ऋचमेकविंशं सूक्तमाङ्गिरसस्य संवर्तस्यार्षमुषोदेवताकम् । चतस्रोऽपि विंशतिका द्विपदा विराजः । तथा चानुकान्तम्---* आ याहि संवर्त उषस्यं द्वैपदम्' इति । प्रथमे छन्दोमे वैश्वदेवसूक्तात्पूर्वमिदं सूक्तम् । सूत्रित च--* आ याहि वनसेमा नु कं बभ्रुरेक इति द्विपदासूक्तानि (आश्व. श्रौ. ८. ७) इति । महाव्रतेऽपि निष्केवल्य एतत् । तथैव पञ्चमारण्यके सूत्रितम्-- आ याहि वनसा सहेति नव समाम्नाताः' (ऐ. आ. ५. २. २) इति ।।
 
 
आ या॑हि॒ वन॑सा स॒ह गावः॑ सचन्त वर्त॒निं यदूध॑भिः ॥१
 
आ । या॒हि॒ । वन॑सा । स॒ह । गावः॑ । स॒च॒न्त॒ । व॒र्त॒निम् । यत् । ऊध॑ऽभिः ॥१
 
आ। याहि । वनसा । सह । गावः । सचन्त । वर्तनिम् । यत् । ऊधऽभिः ।। १ ।।
Line ३० ⟶ ३२:
 
 
आ या॑हि॒ वस्व्या॑ धि॒या मंहि॑ष्ठो जार॒यन्म॑खः सु॒दानु॑भिः ॥२
 
आ । या॒हि॒ । वस्व्या॑ । धि॒या । मंहि॑ष्ठः । जा॒र॒यत्ऽम॑खः । सु॒दानु॑ऽभिः ॥२
 
आ। याहि । वस्व्या । धिया । मंहिष्ठः । जारयत्ऽमखः । सुदानुऽभिः ।। २ ।।
Line ३७ ⟶ ४१:
 
 
पि॒तु॒भृतो॒ न तन्तु॒मित्सु॒दान॑व॒ः प्रति॑ दध्मो॒ यजा॑मसि ॥३
 
पि॒तु॒ऽभृतः॑ । न । तन्तु॑म् । इत् । सु॒ऽदान॑वः । प्रति॑ । द॒ध्मः॒ । यजा॑मसि ॥३
 
पितुऽभृतः । न । तन्तुम् । इत् । सुऽदानवः । प्रति । दध्मः । यजामसि ।। ३ ।।
Line ४६ ⟶ ५२:
दशमेऽहनि प्रातरनुवाक उषस्ये क्रतौ * उषो भद्रेभिः' इत्यस्याः स्थाने ' उषा अप स्वसुः । इत्येषा। सूत्रितं च-* उषा अप स्वसुस्तम इति पच्छो द्विपदां त्रिरुषस्ये ' ( आश्व. श्रौ. ८. १२) इति ॥
 
उ॒षा अप॒ स्वसु॒स्तम॒ः सं व॑र्तयति वर्त॒निं सु॑जा॒तता॑ ॥४
 
उ॒षाः । अप॑ । स्वसुः॑ । तमः॑ । सम् । व॒र्त॒य॒ति॒ । व॒र्त॒निम् । सु॒ऽजा॒तता॑ ॥४
 
उषाः । अप । स्वसुः । तमः । सम् । वर्तयति । वर्तनिम्। सुऽजातता ।। ४ ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७२" इत्यस्माद् प्रतिप्राप्तम्