"काठकसंहिता (विस्वरः)/स्थानकम् १९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
आग्नावैष्णवमेकादशकपालं निर्वपत्यग्निर्वै सर्वा देवता विष्णुर्यज्ञो देवताश्चैव यज्ञं चालभते मुखं वै देवानामग्निः परोऽन्तो विष्णुर्यज्ञस्यैवान्तौ समग्रहीदथादित्येभ्यो घृते चरुरादित्या वा इत उत्तमा अमुं लोकमायन्नादित्या इमाः प्रजा आदित्यानां नेदिष्ठिनीस्स्वामेव देवतामुपैति घृते भवति घृतभागा ह्यादित्या अथाग्नये वैश्वानराय द्वादशकपालस्संवत्सरो वा अग्निर्वैश्वानरो द्वादशमासस्संवत्सरस्संवत्सरस्याप्त्यै ।। योऽयोनिमग्निं चिनुते यजमानस्य योनिमनु प्रविशति स एनं निर्दहति संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरोऽग्नेर्योनिर्यदग्नये वैश्वानराय योनिमन्तमेवैनं चिनुत एषा वा अग्नेः प्रिया तनूर्या वैश्वानरी यदग्नये वैश्वानराय प्रियाया एवास्य तन्वे हविष्कृत्वा प्रियां तन्वमादत्ते कामो वा अग्निर्वैश्वानरो यदग्नये वैश्वानराय निर्वपत्यश्नुते तं कामं यस्मै कामाय दीयते यद् द्वादशकपालो द्वादशमासस्संवत्सरो या वै प्रजा भ्रँशन्ते संवत्सरात् ता भ्रँशन्ते याः प्रतितिष्ठन्ति संवत्सरे ताः प्रतितिष्ठन्ति संवत्सर एव प्रतिष्ठायाग्निं बिभर्ति ॥९॥
 
षडाधीतयजूँषि जुहोति षड्वा ऋतव ऋतुभिरेवैनं दीक्षयत्यृतुभिरस्या वीर्यमुद्यच्छते सप्तैतानि जुहोति सप्त प्राणाः प्राणैरेवैनं दीक्षयति नाना जुहोति तस्मान्नानावीर्याः प्राणाश्चक्षुश्श्रोत्रं वागनुष्टभोत्तमं जुहोति वाग्वा अनुष्टुब् वाचमेवोत्तमां दधाति तस्माद्वाक् प्राणानामुत्तमा विहितं वदत्यनुष्टुब् वै सर्वाणि च्छन्दाँसि पशवश्छन्दाँस्यन्नं पशवः पशूनेवान्नाद्यमवरुन्द्धे यज्ज्योतिषि प्रवृणक्ति भूतं तेनावरुन्द्धे यदङ्गारेषु भविष्यत् तेनाङ्गारेषु प्रवृज्या भविष्यद्धि भूयो भूतान्मा सु भित्था मा सु रिष इति दृँहत्येवैनामरिष्टा त्वमुदिहि यज्ञे अस्मिन्निति समष्ट्यै द्वाभ्यां प्रवृणक्ति द्विपाद्यजमानः प्रतिष्ठित्यै ॥ परीध्या बुभूषतो गर्भो दीक्षितोऽत इव वा एष भवत्यत एवैनं जनयति मथित्वा गतश्रेरवदध्याद्भूतो हि स स्वामेव देवतामुपैत्यन्यत आहृत्यावदध्याद्यं कामयेत भ्रातृव्यमस्मै जनयेयमिति भ्रातृव्यमेवास्मै जनयति भृज्जनादवदध्यादन्नकामस्य भृज्जने वा अन्नं क्रियते सयोन्येवान्नमवरुन्द्धे यो वृक्ष उपरि दीप्येत तस्यावदध्यात् स्वर्गकामस्यैष वा अग्नीनाँ स्वर्ग्यस्स्वर्गस्य लोकस्य समष्ट्यै द्र्वनस्सर्पिरासुतिरिति कृमुकं लिखितं घृतेनाक्त्वावदधात्यग्नेर्वै प्रिया तनूस्तया कृमुकं प्राविशत् तेजो घृतं प्रियामेवास्य तन्वं तेजसा समनक्ति मुञ्जानवदधात्यूर्ग्वै मुञ्जा ऊर्जमेवास्मा अपिदधाति परस्या अधि संवत इत्यौदुम्बरीमूर्ग्वा उदुम्बर ऊर्जमेवास्मा अपिदधाति परमस्याः परावत इति वैकङ्कतीमग्नेर्वै सृष्टस्य विकङ्कतं भा आर्छत् तदेवावरुन्द्धे यदग्ने कानि कानि चेति न ह स्म वै पुराग्निरपरशुवृक्णं दहति तदस्मा एताभिः प्रयोग ऋषिरस्वदयद्यदेताभिस्समिध आदधातीध्ममेवास्मै स्वदयति स्वदितमस्यान्नं भवति य एवं वेद च्छन्दाँसि वा अग्नेर्योनिर्यच्छन्दोभिरादधाति स्वेनैवैनं योनिनानुबिभर्ति रात्रीं रात्रीमप्रयावं भरन्त इत्याशिषमेवाशास्ते नाभा पृथिव्यास्समिधानो अग्निमिति पृतना एवैतया जयति । यास्सेना अभीत्वरीरित्यग्निं वै जातं रक्षाँस्यजिघाँसँस्ते देवा एता ऋचोऽपश्यँस्ताभिरस्माद्रक्षाँस्यपाघ्नन् यदेताभिस्समिध आदधाति रक्षसामपहत्या अथैतन्मालिम्लवं देवाश्च वा असुराश्चास्पर्धन्त ते देवा एतन्मालिम्लवमपश्यँस्तेनासुरानभ्यभवन् यदेतेन समिध आदधाति भ्रातृव्यस्याभिभूत्यै तस्माद्याँ समामग्निं चिन्वन्ति ग्राहुकास्स्तेनं भवन्ति यास्सेना अभीत्वरीरित्यौदुम्बरीं देवा वै यत्रोर्जं व्यभजन्त तत उदुम्बरोऽजायत जातायैवास्मा ऊर्जमपिदधाति दँष्ट्राभ्यां मलिम्लूनग्न इत्याश्वत्थीमेष वै वनस्पतीनाँ सपत्नसाहो विजित्यै यर्हि दँष्ट्राभ्यामिति ब्रूयाद्यं द्विष्यात् तं मनसा ध्यायेन्मनो वै वाचः क्षेपीय आहुतिमेवैनं भूतामग्नयेऽपिदधाति ये जनेषु मलिम्लव इति वैकङ्कतीमग्नेर्वै सृष्टस्य विकङ्कतं भा आर्छत् तदेवावरुन्द्धे यो अस्मभ्यमरातीयादिति शमीमयीँ शान्त्यै निन्दाद्यो अस्मान् दिप्साच्चेति तस्मादग्निचितो नाश्लीलं कीर्तयेत् सँशितं मे ब्रह्मेति ब्रह्मणैव क्षत्रँ सँश्यति क्षत्रेण ब्रह्म तस्माद्ब्रह्मपुरोहितं क्षत्रमत्यन्यानि क्षत्राणि तस्माद्ब्रह्म क्षत्रवदत्यन्यान् ब्राह्मणानुदेषां बाहू अतिरमुद्वर्चो अथो बलमित्याशिषमेवाशास्ते क्षिणोमि ब्रह्मणामित्रानुन्नयामि स्वाँ अहमिति यथायजुः ॥१०॥
 
दृशानो रुक्म उर्विया व्यद्यौदिति रुक्मं प्रतिमुञ्चेत मृत्युर्वा अग्निरमृतँ हिरण्यममृतेनैव मृत्योरन्तर्धत्त एकविँशतिनिर्बाधो भवति प्रतिष्ठित्या एकविँशतिर्देवलोकास्तेभ्य एव भ्रातृव्यं निर्बाधते बहिष्टान्निर्बाधं कुर्यादस्मादेवैनं लोकान्निर्बाधत उभयतः पर्यस्यति प्रतिमुञ्चमान उभाभ्यामेवैनं लोकाभ्यां निर्भजति नक्तोषासेत्यहोरात्राभ्यामेवैनं परिगृह्णाति देवा अग्निं धारयन् द्रविणोदा इति प्राणा वै देवा द्रविणोदाः प्राणैरेवैनं दाधार षडुद्यामँ शिक्यं भवति षड्वा ऋतव ऋतुभिरेवैनं परिगृह्णाति द्वादशोद्यामं भवति द्वादश मासास्संवत्सरस्संवत्सरेणैवैनं परिगृह्णाति मौञ्जं भवत्यूर्ग्वै मुञ्जा ऊर्जैनं परिगृह्णाति ।। नाधोनाभि बिभृयादग्निरस्य रेतो निर्दहेदूर्ध्वं नाभ्या बिभृयादूर्ध्वं नाभ्यास्सदेवमग्निस्सर्वा देवतास्सदेव एव देवता बिभर्ति विश्वा रूपाणीति सावित्र्या प्रतिमुञ्चते प्रसूत्या आसीनः प्रतिमुञ्चते तस्मादासीनाः प्रजाः प्रजायन्ते सुपर्णोऽसि गरुत्मानित्यग्नेर्वा एते संभारा अग्निमेवैतैस्संभरत्येतद्वा अग्नेः प्रियं धाम तदेवावरुन्द्धे दिवं गच्छ स्वः पतेति स्वर्गस्य लोकस्य समष्ट्या असुराणां वा इमे लोका आसँस्ते देवा विष्णुमब्रुवन् यावदयं कुमारो विक्रमते तावन्नो दत्तेति स सकृदेवेमां व्यक्रमत गायत्रीं छन्दस्सकृदन्तरिक्षं त्रिष्टुभं छन्दस्सकृद्दिवं जगतीं छन्दस्सकृद्दिशोऽनुष्टुभं छन्दस्ते देवा इमांल्लोकानसुराणामविन्दन्त ततो देवा अभवन् परासुरा अभवन् य एवं विद्वान् प्रक्रमान् प्रक्रामतीमानेव लोकान् भ्रातृव्यस्य विन्दते भवत्यात्मना परास्य भ्रातृव्यो भवत्यक्रन्ददग्निरित्येतया वै वत्सप्रीर्भालन्दनोऽग्नेः प्रियं धामावारुन्द्धाग्नेरेवैतया प्रियं धामावरुन्द्धेऽग्नेऽभ्यावर्तिन्नग्ने अङ्गिरः पुनरूर्जा सह रय्येति पुनरेति तस्माद्ग्राभ्याः पशवस्सायमरण्याद्ग्राममायान्ति चतसृभिश्चतुष्पादा हि पशवो दक्षिणा पर्यावर्तते तस्माद्दक्षिणोऽर्ध आत्मनो वीर्यावत्तर आ त्वाहार्षमित्या ह्येनं हरति विशस्त्वा सर्वा वाञ्छन्त्वस्मे राष्ट्रमधिश्रयेति यं कामयेत राष्ट्रँ स्यादिति तं मनसा ध्यायेद्राष्ट्रमेव भवत्युदुत्तमं वरुण पाशमस्मदिति शुनश्शेपो वा एतामाजीगर्तिर्वरुणगृहीतोऽपश्यत् तया वै स वरुणपाशादमुच्यत वरुणपाशमेवैतया प्रमुञ्चतेऽग्रे बृहन्नुषसामूर्ध्वो अस्थादिति । पाप्मा वै तमः पाप्मानमेवैतयापहते हँसश्शुचिषदिति साप्तान्येवैत्या प्रीणाति सदित्यभिपूर्वमेवैनँ सति प्रतिष्ठापयत्यासन्द्याँ सादयति सूयते वा एषोऽग्नीनां य उखायां भ्रियते तस्मादासन्द्याँ सादयति यदधस्सादयेत् प्रपादुका गर्भास्स्युरुपरि सादयति गर्भाणां धृत्या अप्रपादाय तिसृभिरुपतिष्ठते त्रयः प्राणाः प्राणो व्यानोऽपानस्तानेव यजमाने दधाति त्रय इमे लोका एष्वेव लोकेष्वृध्नोति ।।११।।
 
अथैतद्वात्सप्रमेतेन वै वत्सप्रीर्भालन्दनोऽग्नेः प्रियं धामावारुन्द्धाग्नेरेवैतेन प्रियं धामावरुन्द्ध एतेन वै स ऋषीणामधिवादमपाजयत् पाप्मानमेवैतेनाधिवादमपजयत्येतेन वै सोऽभिशस्तीरजयदभिशस्तीरेव जयति य एवं विद्वानेतेनोपतिष्ठते यत् प्रक्रमान् प्रक्रामति यामं तेन दाधार यदुपतिष्ठते क्षेमं तेन पूर्वेद्युः प्रक्रामत्यपरेद्युरुपतिष्ठते तस्माद्यामेऽन्यासां प्रजानां मनः क्षेमेऽन्यासां तस्माद्यायावरः क्षेमस्येशे तस्माद्यायावरः क्षेम्यमध्यवस्यत्येकादशं भवत्येकादशाक्षरा त्रिष्टुब् वीर्यं त्रिष्टुब् वीर्यमेवावरुन्द्धे । एकेषं वै पुरान आसीत् तत एतदृषयोऽग्नये द्वीपमाधानमपश्यँस्तस्माद् द्वीषमग्नय आधानं कुर्वन्ति तामिदमनुकृतिं द्वीषमनः क्रियत उदु त्वा विश्वे देवा इति प्राणा वै विश्वे देवाः प्राणैरेवैनमुद्यच्छते मनुष्या वै विश्वे देवा मनुष्यैरेवैनमुद्यच्छतेऽग्ने भरन्तु चित्तिभिरिति यस्मा एवैनं चित्तायोद्यच्छते तेनैनँ समर्धयति प्रेदग्ने ज्योतिष्मान् याहीत्यभि वा एष एतर्हि प्रजाश्शोचयति शान्त्या अक्रन्ददग्निरित्यनुमन्त्रयेत यदि क्ष्वेदेत्क्रन्दतव ह्यनसा वहन्ति तस्मादनस्वी च रथी चातिथीनामपचिततमा अन्नपते अन्नस्य नो देहीत्यन्नमेवास्मै स्वदयत्यनमीवस्य शुष्मिण इत्ययक्ष्मस्येत्येवैतदाह प्र प्रदातारं तारिष ऊर्जं नो देहि द्विपदे चतुष्पद इत्याशिषमेवाशास्ते समिधाग्निं दुवस्यतेति घृतेनाक्त्वा समिधमादधाति यथा ब्राह्मणायातिथये सर्पिष्वन्तं पचत्येवमेव तद्गायत्र्या ब्राह्मणस्यादध्याद्गायत्रो हि ब्राह्मणस्त्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यो जगत्या वैश्यस्य जागतो हि वैश्यो यथाछन्दसमेवापो देवीः प्रतिगृह्णीत भस्मैतदित्यप्सु भस्म प्रवपत्यापो वा अग्नेर्योनिस्स्वमेवैनं योनिं गमयति तिसृभिस्त्रिवृद्वा अग्निर्यावानेवाग्निस्तं प्रतिष्ठां गमयति परा वा एषोऽग्निं वपति योऽप्सु भस्म प्रवपति सँसृज्य मातृभिष्ट्वं ज्योतिष्मान् पुनरासद इति ज्योतिरेवास्मिन् दधात्यूर्जा वा एष पशुभिर्व्यृध्यते योऽप्सु भस्म प्रवपति पुनरूर्जा सह रय्येति पुनरेवोर्जं पशूनवरुन्द्धे बोधा मे अस्य वचसो यविष्ठेति तस्मात् प्रजास्सुषुपुषीः प्रबुध्यन्ते स बोधि सूरिर्मघवेति तस्मात् पशवः प्रेत्वानश्चरित्वा पुनरेत्य यथालोकं निषीदन्ति द्वाभ्यां द्विपाद्यजमानः प्रतिष्ठित्यै ॥१२॥
 
देवं बर्हिस्सुदेवं देवैस्स्यात् सुवीरं वीरैर्वस्तोर्वृज्येताक्तोः प्रभ्रियेतात्यन्यान् राया बर्हिष्मतो मदेम वसुवने वसुधेयस्य वेतु यज देवीर्द्वारस्संघाते वीड्वीयमञ्छिथिरा ध्रुवा देवहूतौ वत्स ईमेनास्तरुण आमिमीयात् कुमारो वा नवजातो मैना अर्वा रेणुककाटः प्रणग्वसुवने वसुधेयस्य व्यन्तु यज देवी उषासानक्ताद्यास्मिन् यज्ञे प्रयत्यह्वेतामपि नूनं दैवीर्विशः प्रायासिष्टाँ सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज देवी जोष्ट्री वसुधिती ययोरन्याघा द्वेषाँसि यूयवदान्या वक्षद्वसु वार्याणि यजमानाय वसुवने वसुधेयस्य वीतां यज देवी ऊर्जाहुती इषमूर्जमन्या वक्षत् सग्धिँ सपीतिमन्या नवेन पूर्वं दयमानास्स्याम पुराणेन नवं तामूर्जमूर्जाहुती ऊर्जयमाने अधातां वसुवने वसुधेयस्य वीतां यज - देवा दैव्या होतारा पोतारा नेष्टारा हताघशँसा आभरद्वसू वसुवने वसुधेयस्य वीतां यज देवीस्तिस्रस्तिस्रो देवरिडा सरस्वती भारती द्यां भारत्यादित्यैरस्पृक्षत् सरस्वतीमं रुद्रैर्यज्ञमावीदिहैवेडया वसुमत्या सधमादं मदेम वसुवने वसुधेयस्य व्यन्तु यज देवो नराशँसस्त्रिशीर्षा षडक्षश्शतमिदेनँ शितिपृष्ठा आदधति सहस्रमीं प्रवहन्ति मित्रावरुणेदस्य होत्रमर्हतो बृहस्पतिस्स्तोत्रमश्विनाध्वर्यवं वसुवने वसुधेयस्य वेतु यज देवो वनस्पतिर्वर्षप्रावा घृतनिर्णिग्द्यामग्रेणास्पृक्षदान्तरिक्षं मध्येनाप्राः पृथिवीमुपरेणादृँहीद्वसुवने वसुधेयस्य वेतु यज देवं बर्हिर्वारितीनां निधेधासि प्रच्युतीनामप्रच्युतं निकामधरणं पुरुस्पार्हं यशस्वदेना बर्हिषान्या बर्हीँष्यभिष्याम वसुवने वसुधेयस्य वेतु यज देवो अग्निस्विष्टकृत्सुद्रविणा मन्द्रः कविस्सत्ययजी होता होतुर्होतुरायजीयानग्ने यान् देवानयाड्याँ अपप्रेर्ये ते होत्रे अमत्सत तान् समनैषीर्होत्रां देवंगमां दिवि देवेषु यज्ञमेरयेमँ स्विष्टकृच्चाग्ने होताभूर्वसुवने वसुधेयस्य नमोवाके वीहि यजाग्निमद्य होतारमवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशान् बध्नन् बृहस्पतये छागं सूपस्था अद्य देवो वनस्पतिरभवद्बृहस्पतये छागेन बध्नन्नश्विभ्यां छागँ सूपस्था अद्य देवो वनस्पतिरभवत् सरस्वत्यै मेष्या बध्नन्निन्द्राय मेषँ सूपस्था अद्य देवो वनस्पतिरभवदिन्द्राय मेषेणाक्षँस्तान्मेदस्तः प्रतिपचताग्रभीषतावीवृधन्त पुरोडाशैस्त्वामद्यर्ष आर्षेयर्षीणां नपादवृणीतायं यजमानो बहुभ्य आ संगतेभ्य एष मे देवेषु वसु वार्यायक्ष्यत इति ता या देवा देवदानान्यदुस्तान्यस्मा आ च शास्वा च गुरस्वेषितश्च होतरसि भद्रवाच्याय प्रेषितो मानुषस्सूक्तवाकाय सूक्तं ब्रूहि ॥१३॥
 
अग्न आयूँष्यग्ने पवस्वाग्ने पावक रोचिषा ॥
स नः पावक दीदिवोऽग्ने देवाँ इहावह । उप यज्ञँ हविश्च नः ॥
अग्निश्शुचिव्रततम उदग्ने शुचयस्तव सुत्रामाणं महीमू षु ।।
तं हि शश्वन्त ईडते स्रुचा देवं घृतश्च्युता । अग्निँ हव्याय वोढवे ।।
अग्नि दूतं पुरो दधे ।।
स हव्यवाडमर्त्य उशिग् दूतश्चनोहितः । अग्निर्धिया समृण्वति ॥
अग्निँ स्तोमेन बोधय समिधानो अमर्त्यम् । हव्या देवेषु नो दधत् ॥
प्रेद्धो अग्न इमो अग्ने ।
पीपिवाँसँ सरस्वतस्स्तनं यो विश्वदर्शतः । धुक्षीमहि प्रजामिषम् ॥
ये ते सरस्वन्नूर्मयो मधुमन्तो घृतश्च्युतः । तेभिर्नोऽविता भव ॥
दिव्यँ सुपर्णं वायसं बृहन्तमपां पतिं वृषभमोषधीनाम् ।
अभीपतो वृष्ण्या तर्पयन्तँ सरस्वन्तमवसे जोहवीमि ॥
यस्य व्रतमुपतिष्ठन्त आपो यस्य व्रते पशवो यन्ति सर्वे ।
यस्य व्रते पुष्टिपतिर्निविष्टस्तँ सरस्वन्तमवसे जोहवीमि ॥१४॥ {१५८०] ॥
 
 
इति श्रीयजुषि काठके चरकशाखायां मध्यमिकायां सावित्रा नामैकोनविंशं स्थानकं संपूर्णम् ॥१९॥