"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४३९:
 
ऋग्वेद [[ऋग्वेदः सूक्तं १.१६४|१.१६४.४३]] ऋचा अस्ति - शकमयं धूममारादपश्यं विषूवता पर एनावरेण । उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् ॥४३॥ अत्र कथनमस्ति - उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमानि आसन्। अयं अर्धर्चः यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् इति अर्धर्चस्य तुल्यं अस्ति। सायणभाष्यानुसारेण उक्षा - फलसेचनसमर्थः। जगद्व्यवहारे बहवः कार्याः, अनुष्ठानाः भवन्ति ये त्वरितफलदायकाः सन्ति। धारणा अस्ति यत् शक्तिपूजा त्वरितफलदायी अस्ति, न शिवपूजा। डा. [https://commons.wikimedia.org/wiki/File:Dr._Fatah_Singh.jpg फतहसिंहानुसारेण] पृश्निशब्दः चित्र-विचित्रस्य, जगद्व्यवहारस्य बोधकः अस्ति। नायं सात्त्विकव्यवहारः। किन्तु या संसारव्यवहारस्य प्रथमानुभूतिः अस्ति, तत् मिथ्या नास्ति, तस्याः पाचनं, परिपाकं एव यज्ञमस्ति। एते धर्माः प्रथमानि सन्ति। काशिकानुसारेण धर्मशब्दः पुंल्लिंगः अस्ति, धर्माणि नपुंसकः।
 
१०.९०.१६ब
 
ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः।।
 
[http://puranastudy.freevar.com/pur_index16/naaka.htm नाकोपरि संदर्भाः]
 
ये स्वसंकल्पानां सिद्धिहेतु यज्ञेन यज्ञं कुर्वन्ति, ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः।। संकल्पसिद्धियज्ञस्य आरम्भः लघुत्तमाकारतः भविष्यति एवं क्रमिकरूपेण बृहत्तररूपं धारयिष्यति। अयं एकः विकल्पः अस्ति। द्वितीयः विकल्पः साध्यानां देवानां अस्ति। यदा संकल्पः अतिप्रबलः अस्ति, तदा क्रमस्य आवश्यकता नास्ति।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्