"आर्षेयकल्पः/अध्यायः ०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५७:
इति । गोर्वार्कजम्भस्य लोक ( आ० क० ३.१.२) इत्यादिना च आयुषो वार्कजम्भस्य लोक ( आ०क० ३.१. ३) इत्यादिना क्लृप्ते । तयोराहीनिकी रात्रिः ।। १ ।।
इति गोआयुषी अतिरात्रे ।। ६ ।।
 
301
अहीनः -- त्रिवृदतिरात्रः [अ. ६. ख. ८ ]
विश्वजिदभिजितौ
 
त्रिवृद्बहिष्पवमानम् । पञ्चदशं होतुराज्यम् (तां० ब्रा० २०. ८) इत्यष्टमेनानुवाकेन अभिजिदतिरात्र उक्तः। नवमेन विश्वजित् । तयोः कल्पः --
क्लृप्तौ विश्वजिदभिजितौ ॥१॥
इति । अभि प्र गोपतिं गिरा- इत्यभिजितः (आ० क० ३.१.४) इत्यादिना विश्वजितः पवस्वेन्द्रमच्छे-(आ० क० ३. १. ५)त्यादिना च क्लृप्तौ। तयोराहीनिकी रात्रिः ॥ १॥
इति विश्वजिदभिजितौ ।। ७ ।।
एकस्तोमाश्चत्वारः
अथैकस्तोमाश्चत्वारः । त्रिवृतातिरात्रेण ( तां० ब्रा० २०. १०) इत्यनुवाकेन प्रथमः उक्तः । पञ्चदशेनातिरात्रेणेति द्वितीयः । सप्तदशेनातिरात्रेणेति तृतीयः । एकविंशेनातिरात्रिणेति चतुर्थः ॥
इति एकस्तोमाश्चत्वारः ।।
- - - -- - -
त्रिवृदतिरात्रः
तत्र प्रथमस्य कल्पः ---
या बृहस्पतिसवस्य सैकस्तोमानां प्रथमस्य । तस्यैव ज्योतिष्टोमोऽतिरात्रः षोडशिमान् ॥ १॥
इति । अग्निष्टोमान्तं बृहस्पतिसववत् । साकमश्वप्रभृति ज्योतिष्टोमवत्। सर्वाणि स्तोत्राणि त्रिवृन्ति । षोडशी तु षोडशस्त्रिवृद्वा । तद्वक्ष्यति -- षोडशाः षोडशिनोऽनुब्राह्मणं वे - (आ० क० ६.२.३)ति ॥१॥
इति त्रिवृदतिरात्रः ॥ ८॥
--------
 
पञ्चदशोऽतिरात्रः
द्वितीयमेकस्तोममाह
गोराज्यबहिष्पवमानम् । इन्द्रस्तोमस्य माध्यंदिनः । पुनानः सोम धारय (सा० ६७५-६ ) इति बृहती। स्वासु श्यैतम् ( ऊ० २.१.३ ) ॥ १॥
समानमितरं प्रथमेन साहस्रेण ॥ २ ॥
तस्य ज्योतिष्टोमोऽतिरात्रः षोडशिमान् ॥३॥
इति । पवस्व वाचो अग्रियो-( सा० ७७५-७) दविद्युतत्या रुचा (सा० ६५४-६) पवस्वेन्दो वृषा सुतो (सा० ७७८-८०) वृषा सोम
द्युमाँ असि (सा० ७८१-३) पवमानस्य ते कवे ( सा० ६५७-९)
इति बहिष्पवमानम् ॥
अग्नि दूतम् वृणीमहे (सा० ६९०-८; ८००-२) इत्याज्यानि । उच्चा ते (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १.१.१) च । पुनानः सो (सा० ६७५-६) इति समन्तं (ऊ० ६. २. २)
 
303
अहीनः -- सप्तदशोऽतिरात्रः [अ. ६. ख. १०]
च यौधाजयं (ऊ० १.१. ३) च। वृषा शोण (सा० ८०६-८) इति पार्थमन्त्यम् (ऊ० ७. १. ६)। बृहच्च (र० १.१.५) वामदेव्यं (ऊ० १.१. ५) च श्यैतं (ऊ० ३. १. ३) च कालेयं (ऊ० १.१.७) चेति पृष्ठानि । स्वादिष्ठये - (सा० ६८९-९१)ति गायत्र-संहिते (ऊ० १. १. ८)। पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-(ऊ० १.१.९)श्रुध्ये (ऊ० ९.१.२०)। पुरोजिती वो (सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १.१.११-२)। सूर्यवतीषु कावमन्त्यम् (ऊ० ९. २.११)। सफश्रुध्यश्यावाश्वान्येकर्चेषु । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) । साकमश्वप्रभृति ज्योतिष्टोमवत् । आहीनिकी रात्रिः । सर्वः पञ्चदशी। षोडशी षोडशः पञ्चदशो वा । संधेस्तु पञ्चदशपूरणार्थमावापोऽभ्यासो वा कार्यः। तदुक्तम् -– अथोक्तिस्संधावावापोऽभ्यासो वे-(ला० श्रौ० ९. ७. ११-२)ति। तत्राभ्यासपक्षे पञ्चभ्यो हिंकरोतीति विष्टुतिः ॥ १-३॥
इति पञ्चदशोऽतिरात्रः ॥ ९ ॥
___
 
सप्तदशोऽतिरात्रः
तृतीयमेकस्तोममाह
तीव्रसुत आज्यबहिष्पवमानम् । माध्यंदिनश्च ॥१॥
समानमितरं प्रथमेनैकस्तोमेन ॥ २ ॥
इति । उपास्मै-दविद्युतत्या रुचा (सा० ६५१-६) एते असृग्रमिन्दवस् (सा० ८३०-२ ) तं त्वा नृम्णानि बिभ्रतम् (सा० ८३६-४० ) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् ।
अग्न-आ नो-मित्रायाहीन्द्राग्नी-(सा० ६६०-७१) त्याज्यानि । उच्चा ते (सा० ६७२-४) इति गायत्रं चामहीयवं ( ऊ० १.१.१) च। अभि सोमास आयव (सा० ८५६-८) इति द्विहिंकारमाद्यायाम् (ऊ० ४.२.७)। मैधातिथं (ऊ० ९.३.६) तिसृषु । यौधाजयमध्यास्यायाम् (ऊ० १.१.३) । औशन-(ऊ० १.१.४)मन्त्यम् ।
पृष्ठादिसंधिस्तोत्रान्तं ज्योतिष्टोमवत् । सर्वं सप्तदशस्तोममिति विशेषः । षोडशो वा। षोडशी आहीनिकी रात्रिः ॥ १.२ ॥
इति सप्तदशोऽतिरात्रः ॥ १० ॥
-------
एकविंशोऽतिरात्रः
 
चतुर्थमेकस्तोममाह --
प्रतीचीनस्तोमस्य बहिष्पवमानम् । अभितो गायत्री । ज्योतिष उत्तरस्य बृहती ॥१॥
समानमितरं द्वितीयेनैकस्तोमेन ॥२॥
इति । ज्योतिष उत्तरस्येति पक्षिण उत्तरस्येत्यर्थः । अत्रोत्तरस्येति विशेषणेन साहस्राणां प्रथमस्य व्यावृत्तिः । पवस्व वाचो
 
305
अहीनः —एकविंशोऽतिरात्र: [अ. ६. ख. ११]
पवस्वेन्दो (सा० ७७५-८०) दविद्युतत्या रुचा ( सा० ६५४-६) एते असृग्रमिन्दवो (सा० ८३०-२) वृषा सोम द्युमाँ असि-वृषा ह्यसि भानुना (सा० ७८१-६) पवमानस्य ते कवे (सा०६५७-९) इति बहिष्पवमानम् । अग्निं दूतम्-मित्रं वयम्-इन्द्रमिद्गा (सा० ७९०-९) चतुर्ऋचम् । इन्द्रे अग्ने-(सा० ८००-२)त्याज्यानि । उच्चा ते (सा० ६७२-४ ) गायत्रं चामहीयवं (ऊ० १.१.१) सत्रासाहीयम् (ऊ० ८.२.१२) । पुनानः सोम धारये-(सा० ६७५-६)ति समन्तं (ऊ० ६. २. २) च यौधाजयं (ऊ० १.१.३) चौशन-( ऊ० १.१.४ )मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १.१. ५) च श्यैतं (ऊ० ३. १. ३) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि । स्वादिष्ठये-(सा० ६८९-९१)ति गायत्र-संहिते (ऊ० १.१. ८) । पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-(ऊ० १. १. ९)श्रुध्ये (ऊ० ९. १. २०)। पुरोजिती वो (सा० ६९७-९) श्यावाश्वान्धीगवे (ऊ० १.१.११-२)। सूर्यवतीषु काव-(ऊ० ९.२.११)मन्त्यम् । यज्ञायज्ञीयादि संधिस्तोत्रान्तं ज्योतिष्टोमवत् । आहीनिकी रात्रिः । सर्वमेकविंशम् । षोडशो वा षोडशी वेति विशेषः ॥ १-२ ॥ एकस्तोमेषु षोडशीनां स्तोमक्लृप्तिमाह --
षोडशः षोडशिनोऽनुब्राह्मणं वा ॥ ३ ॥
इति । अत्र सूत्रम् -– अनुब्राह्मणं वेति । प्रकृत्यन्वयादेकविंशाहस्तोमः । संधिकारादिप्रकृतिस्तोमान्वयादेकविंशः षोडशिन इति पूर्वः पक्षः । अहस्तोमस्त्विति सिद्धान्तः । ततश्चायं कल्पस्यार्थः एकस्तोमानां षोडशिनः षोडश स्तोमा वा स्युः ।
अपि वा तस्य तस्याह्नस्त्रिवृतातिरात्रेणेत्यादिना तेन ब्राह्मणेन यः स्तोमो विहितः स स्तोमः स्यादिति । तथा चैवोदाहृतम् इति त्रयोदशातिरात्र उक्तः ॥३॥
इति एकविंशोऽतिरात्रः ।। ११ ।।
एकस्तोमाः समाप्ताः ॥
------
द्विरात्रास्त्रयः
अङ्गिरसद्विरात्रः
अथ द्विरात्रास्त्रयः। ज्योतिष्टोमोऽग्निष्टोमः पूर्वमहर् (तां. ब्रा० २०. ११) इत्यनुवाकेनाङ्गिरासद्विरात्र उक्तः। तस्य कल्पः --
ये व्युष्टिद्विरात्रस्याहनी ते आङ्गिरसद्विरात्रस्योत्तरादह्न ऋषभजराबोधीये उद्धरति । समन्तदैर्घश्रवसे अन्तराथर्वणम् (र० १. २. १२)। संहितादुत्तरं जराबोधीयम् (ऊ० १०.१. १८) । विशोविशीयस्य लोके श्रुध्यम् (ऊ० ९. १. २०) ॥ १ ॥
इति । प्रथमस्याह्नः उप-दवि-पवे-(सा० ६५१-९)ति बहिष्पवमानम् ।
अग्न-आ नो-मित्रायाहीन्द्राग्नी-(सा० ६६०-७१)त्याज्यानि । उच्चा ते ( सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १. १. १) च । पुनानः सो ( सा० ६७५-६ ) रौरवयौधाजये (ऊ० १.१. २-३)। औशन-(ऊ० १.१.४)मन्त्यम् । रथन्तरं (र० १.१.१) च वामदेव्यं ( ऊ० १. १. ५) च नौधसं (ऊ० १.१.६) च कालेयं (ऊ० १.१. ७) चेति पृष्ठानि । स्वादिष्ठये - (सा० ६८९-९१)ति गायत्रं च हाविष्कृतं (ऊ० ११.२.७) च । अया पवस्व देवयुः - पवते हर्यतो हरिर् (सा० ७७२-३) इत्येकर्चयोः
 
307
अहीनः - आङ्गिरसद्विरात्रः [अ. ६. ख. १२]
 
सफ-( ऊ० १. २. १५ )पौष्कले ( ऊ० ९. २. २)। पुरोजिती -(सा० ६९७-९ )त्यौदला-( ऊ० १०.१.३ )न्धीगवे ( ऊ० १. १.१२)। काव (ऊ० १.१.१३)मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४)। ज्योतिष्टोमस्तोमाः । दधिभक्षणान्तमहः ॥
द्वितीयस्याह्नः -- पवस्व वाचो अग्रियः (सा० ७७५-७) एष देवो अमर्त्यः (ऊ० १२५६-६५) एष धिया यात्यण्व्या (सा० १२६६-७३) आ ते दक्षं मयोभुवम् (सा० ११३७-९) इति बहिष्पवमानम् । तेन सदसि स्तवनम् । अहीनबहिष्पवमानैः सदसि स्तुवीरन् प्रथमादह्रोऽन्यत्रे-(ला० श्रौ० २. २. १)ति वचनात् । प्राक् धिष्ण्यविहरणान्निष्क्रम्य तृणप्रासनप्रभृति समापयेयुः। अग्निं दूतं वृणीमहे (सा० ७९०-२) इत्याज्यानि । अस्य प्रत्ने-(सा० ७५५-७)ति गायत्रं च हाविष्मतं (ऊ० ११.२.८) च । परीतो षि (सा० १३१३-५) इति समन्तमाद्यायाम् (ऊ० ९.१.३)। आथर्वण-(र० २.१.३ दैर्घश्रवसे (ऊ० ५.२.४) तृचयोः । उत्सेधोऽध्यास्यायाम् (ऊ० १२.२.२०)। अयं सोम (सा० १४७१-३) इति पार्थ- (ऊ० ९. २. ५) मन्त्यम् ।
बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १. १. ५) च त्रैशोकं (ऊ० २. २. १३) च वैखानसं (ऊ० ४.१.९) चेति पृष्ठानि । परिस्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्र-संहित-(ऊ० ९.२.६) जराबोधीयानि (ऊ० १०.१.१८) । पवस्वेन्द्रमच्छे-( सा० ६९२-६ )ति सत्रासाहीय-(ऊ० ९.२.७)श्रुध्ये (ऊ० ९.१.२०)। अयं पूषे-(सा० ८१८- २०)ति निषेधः (ऊ० १३.१.२) श्यावाश्वं (उ० १२.२.१०) क्रौञ्चम् (ऊ० १५.१.१७)। धर्ता दिव (सा० १२२८-३०) इति दीर्घतमसोऽर्को - (र० ३.१.१०)ऽन्त्यः। यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४)। साकमश्वं (ऊ० १.१.१५) सौभरं (ऊ० १.१.१६) नार्मेध-(ऊ० १.१.१७) मित्युक्थानि । गौरीवितं (ऊ० १.२.१७) षोडशिसाम । आहीनिकी रात्रिः संधिः ॥
अथ स्तोमाः -– चतुर्विशं बहिष्पवमानम् । पञ्चदशन्याज्यानि । सप्तदशो माध्यंदिनः पवमानः । एकविंशानि पृष्ठानि । त्रिणव आर्भवः । त्रयस्त्रिंशोऽग्निष्टोमः । प्रत्यवरोहीण्युक्थानि । त्रिणवं प्रथमम् । अथैकविंशम् । अथ सप्तदशम् । एकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत् संधिरिति ॥ १ ॥
इति आङ्गिरसद्विरात्रः ।। १२ ।।
------
 
चैत्ररथः
अथ यस्य ज्योतिरुक्थ्यः (तां० ब्रा० २०. १२) इत्यनुवाकेन चैत्ररथ उक्तः । तस्य कल्पः --
याङ्गिरसस्य द्विरात्रस्य पूर्वा सा चैत्ररथस्य । तस्यायुष उक्थानि ॥ १ ॥
पूर्वेति पूर्वस्याह्नः क्लृप्तिरित्यर्थः । प्रमंहिष्ठीयं (ऊ० २.२.५) हारिवर्ण(ऊ० २. २. ६)मुद्वँशीय-(ऊ० ६.१.८)मित्युक्थान्येकविंशानि ॥१॥
[इति पूर्वमहः ]
 
द्वितीयमहराह --
पवस्त्र वाचो अग्रियः (सा० ७७५-७) पवस्वेन्दो वृषा सुतः (सा० ७७८-८०) आ ते दक्षं मयो भुवम् (सा० ११३७-९) ॥ २॥
इति बहिष्पवमानम् ॥
श्रुध्यस्य लोके जराबोधीयम् (ऊ० १४. २. ११) । नार्मेधाद्रात्रिमुपयन्ति। अथ यदेव द्विदिवसस्योत्तममहस्तदेतत् ॥ ३॥
 
309
अहीनः -- कापिवनद्विरात्रः [अ. ६. ख. १३]
 
इति । पवस्व वाचो अग्रियः ( सा० ७७५-७ ) पवस्वेन्दो वृषा सुतः (सा० ७७८-८० ) आ ते दक्षं मयो भुवम् ( सा० ११३७-९) इति बहिष्पवमानम् । अग्निं दूतं वृणीमहे (सा० ७९०-२) इत्याज्यानि । अस्य प्रत्नामनु द्युतम् (सा० ७५५-७) इति गायत्रं च हाविष्मतं (ऊ० ११.२.८) च। परीतो षि (सा० १३१३-५) समन्तं प्रथमायाम् (ऊ० ९.१.३) । दैर्घश्रवसं (ऊ० ५.२.४) तिसृषु । ऐडमायास्यं (ऊ० ७.१.४) तिसृषु । त्रिणिधनमायस्यमध्यास्यायाम् (ऊ० ७.१.५) । अयं सोम (सा० १४७१-३) इति पार्थ-(ऊ० ९.२.५)मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १.१. ५) च त्रैशोकं (ऊ० २.२.१३) च वैखानसं (ऊ० ४.१.९) चेति पृष्ठानि । यस्ते मद (सा० ८१५-७) इति गायत्र-संहिते ( ऊ० ११. २.९ )। पवस्वेन्द्रमच्छे( सा० ६९२-६ )ति सत्रासाहीय-( ऊ० ९. २. ७) जराबोधीये ( ऊ० १४. १. ११ )। अयं पूषे-( सा० ८१८-२० )ति श्यावाश्व-(ऊ० ११. २. १०)क्रौञ्चे (ऊ० १५. १. १७)। धर्ता दिव (सा० १२२८-३०) इति दीर्घतमसोऽर्कोऽन्त्यः (र० ४.३.१) । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४)। साकमश्वं (ऊ० १.१. १५) सौभरं (ऊ० १.१.१६) नार्मेध - (ऊ० १.१.१७)मित्युक्थानि । षोडशी नास्ति । नार्मेधाद्रात्रिमुपयन्तीति वचनात् । आहीनिकी रात्रिः संधिः । आयुरतिरात्र उत्तर-(तां० ब्रा० २०. १३. १)मिति ब्राह्मणादायूरात्रस्य स्तोमाः ॥३॥
 
इति चैत्ररथः ॥ १३ ॥
-------
कापिवनः
अथ यस्य पञ्चदशोऽग्निष्टोमः ( तां० ब्रा० २०. १३) इत्यनुवाकेन कापिवनद्विरात्र उक्तः। तस्य कल्पः –
ये चैत्ररथस्याहनी ते कापिवनस्य । त्रिवृत्पञ्चदशोऽग्निष्टोमः
पूर्वमहरायुरतिरात्र उत्तरम् ॥१॥
इति। प्रथमस्याह्नः सर्वं चैत्ररथवत् । व्यत्यासेन त्रिवृत्पञ्चदशौ
स्तोमौ। आर्भवेऽन्त्यवर्जमेकर्चाः । अग्निष्टोमसाम पञ्चदशमिति तस्माद्विशेषः । उत्तरस्याह्नः सर्वं चैत्ररथवदेव ॥ १ ॥
इति कापिवनः ।। १४ ।।
द्विरात्रास्त्रयः समाप्ताः ।।
------
त्रिरात्राः षट्
गर्गत्रिरात्रः - प्रथममहः
 
अथ त्रिरात्राः षट् । त्रिवृत्प्रातःसवनम् (तां० ब्रा० २०.१४) इत्यादिभिः पञ्चभिरनुवाकैः गर्गत्रिरात्र उक्तः । तस्य प्रथममहराह --
आभिप्लविकस्य प्रथमस्याह्नः आज्यबहिष्पवमानम् । माध्यंदिनश्च ॥१॥ इत्यादिना। उपास्मै गायता नरः (सा० ६५१-३) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९)
इति बहिष्पवमानम् । अग्न-आ नो-मित्रायाहीन्द्राग्नी-(सा० ६६०-७१)त्याज्यानि । प्र सोमासो विपश्चित ( सा० ७६४-६) इति गायत्रं चाश्वं (ऊ० ६.२.१२) च। प्र सोम देववीतय (सा० ७६७-८) इति पज्रं (ऊ० ६.२.१३) च यौधाजयं (ऊ० १.२.१३) चौशन-(ऊ० १. १. ४)मन्त्यम् । यौधाजयमेकाक्षरनिधनमहीनकाण्डे पठितम् ॥१॥
 
</poem>
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०६" इत्यस्माद् प्रतिप्राप्तम्