"आर्षेयकल्पः/अध्यायः ०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४६३:
 
331
अहीनः--छन्दोमपवमानत्रिरात्रः (३) [अ. ६. ख. २७]
 
तृतीयमहः
तृतीयस्याह्नः कल्पः --
अष्टर्चादु-( सा० १२६६-७३ )त्तरान्नवमादह्नश्चतुरः षडृचा-(सा० १२७४-९७ )नुपहरति । आ ते दक्षं मयोभुवम् ( सा० ११३७-९) इति पर्यासः । ऋषभात् पवमानादुत्तराणि सुरूपं (ऊ० १५. १. ३) चादारसृच्चे-( ऊ० १५. १. ४)डानां च संक्षारः (ऊ० १५. १. ५)। स्वारं च सैन्धुक्षितम् (ऊ. १२. २. ७)। पृश्निन उत्तराण्यर्कपुष्पम् (ऊ० ५. २. ३) कौल्मलबर्हिषम् (ऊ० ५. २. २) देवस्थानम् (र० ३. २. १२)। हाविष्मतादुत्तराणि शाम्मद-( ऊ० १५. १.९-१२ ) प्रभृतीनि चत्वारि । यज्ञायज्ञीयादुत्तरं यद्वाहिष्ठीयम् (ऊ० १५.१.१४) ॥१॥
समानमितरमुत्तमेनाह्ना गर्गत्रिरात्रस्य ॥२॥
इति । पवस्व वाचो अग्रियः (सा० ७७५-७) एष देवो अमर्त्यः (सा० १२५६-६५) एष धिया यात्यण्व्या (सा० १२६६-७३) एष उ स्य वृषा रथः (सा० १२७४-९ ) एष वाजी हितो नृभिः (सा० १२८०-५) एष कविरभिष्टुतः (सा० १२८६-९१) स सुतः पीतये वृषा (सा० १२९२-७) आ ते दक्षं मयोभुवम् (सा० ११३७-९) इति बहिष्पवमानम् ॥
होता देवो अमर्त्यो ( सा० १४७७-९) मित्रं वयं हवामहे ( सा० ७९३-५ ) महाँ इन्द्रो य ओजसा (सा० १३०७-९) इन्द्रे अग्ना नमो बृहदि-(सा० ८००-२)त्याज्यानि ॥
उच्चा ते जातमन्धस ( सा० ६७२-४) इति गायत्रं च गौषूक्तं (ऊ० १२. १. २) च जराबोधीयं (ऊ० ११.१.१४) च ऋषभश्च पवमानः (ऊ० १२. १. १) सुरूपं (ऊ० १५.१.३) चादारसृ-(ऊ० १५.१.४)च्चेडानां संक्षारं (ऊ० १५.१.५) च सैन्धुक्षितम् (ऊ० १२.२.७) । प्रत्नं पीयूष-( सा० १४९४-६) मित्युत्सेधः (ऊ० १३. २. ११) । परीतो षिञ्चता सुत-( सा० १३१३-५ )मिति आभीशवं ऊ० (५.२.६) चाथर्वणं (र० २.१.३) च पृश्नि (ऊ० १५.१.६)चार्कपुष्पं (ऊ० ५. २. ३) च कौल्मलबर्हिषं (ऊ० ५.२.२) च देवस्थानं (र० १. ३. ३) च । तिस्रो वाच ( सा० ८६९-७१) इति त्रिणिधनमाज्यदोह-(र० ४.१.३) मन्त्यम् ॥
बृहच्च (र० १.१. ५) सत्रासाहीयं (ऊ० २.२.१२) च श्यैतं (ऊ० २.१.३) च रौरवं (ऊ० १.१.२)चेति पृष्ठानि ॥ _
परि स्वानो गिरिष्ठा ( सा० १०९३-५ ) इति गायत्रं च हाविष्मतं (ऊ० १५.१.८) च शाम्मदं (ऊ० १५. १.९) च
दावसुनिधनं (ऊ० १५. १. १०) च प्रतीचीनेडं च काशीतं (ऊ० १५. १. ११) हाविष्कृतं (ऊ० १५. १. १२) च ।
स सुन्वे यो वसूनाम् ( सा० १०९६-७) प्राणा शिशुर्महीनाम् (सा० १०१३-५) इति दीर्घ-(ऊ० ३.२.१२)श्रुध्ये(ऊ० ९.१.१४)। अयं पूषा रयिर्भग (सा० ८१८-२०) इति निषेधश्च (ऊ० १३.१.२) श्यावाश्वं (ऊ० ११. २. १०) च क्रौञ्चं (ऊ० १५.१.१७) च यज्ञायज्ञीयं (ऊ० १५.१.१३) च । परि प्र धन्वे-(सा०१३६७-९)ति वाजदावर्यः (ऊ० १२.१.७) । अया रुचे-(सा० १५९०-२)ति नित्यवत्साः (र० ३.२. २)। धर्ता दिव (सा० १२२८-३०) इति दीर्घतमसोऽर्को-(र० ३.१.१०)न्त्यः ॥
वारवन्तीयमग्निष्टोमसाम (ऊ० ३.२.८)। ज्योतिष्टोमोऽतिरात्रः षोडशिमान् । अष्टाचत्वारिंशाः पवमानाः । एकविंशान्याज्यानि ।
 
333
अहीनः -- अन्तर्वसुत्रिरात्रः (२) [अ. ६. ख. २९]
 
त्रिणवानि पृष्ठानि । त्रयस्त्रिंशोऽग्निष्टोमः । एकविंशान्युक्थानि सषोडशिकानि । पञ्चदशी रात्रिः त्रिवृत्संधिः ॥ २॥
इति तृतीयमहः ॥ २७ ॥
छन्दोमपवमानत्रिरात्रः समाप्तः ॥
--------
अन्तर्वसुत्रिरात्रः
प्रथमोत्तमे अहनी
त्रिवृत्प्रातःसवनम् (तां० ब्रा० २१. ७) इत्यनुवाकेनान्तर्वसुत्रिरात्र उक्तः। तत्र कल्पः --
ये गर्गत्रिरात्रस्य प्रथमोत्तमे अहनी ते अन्तर्वसोः ॥ १ ॥
इति । उत्तमेऽहनि प्रथमं रात्रिषाम । पञ्चदशमेवेत्यहर्द्वयमुक्तम् ॥१॥
इति प्रथमोत्तमे अहनी ॥ २८॥
---------
द्वितीयमहः
मध्यममहराह--
उपोषु जातमप्तुरं ( सा० १३३५-७ ) दविद्युतत्या रुचा (सा० ६५४-६) पवस्वेन्दो वृषा सुतो (सा० ७७८-८० ) राजामेधाभिरीयते (सा० ८३३-५) एते असृग्रमिन्दवो (सा० ८३०-२) वृषा सोम द्युमाँ असि ( सा० ७८१-३) वृषा ह्यसि भानुना ( सा० ७८४-६ ) इषे पवस्व धारया (सा० ८४१-३) ॥ १॥
इति बहिष्पवमानम् ॥
अथ यदेव छन्दोमपवमानस्य मध्यममहस्तदेतत् । तस्य तृचक्लृप्त आर्भवः ॥२॥
इति । आर्भवे वाचःसाम (ऊ० २.२.१) शौक्तं (ऊ० २.२.२ ) च। तत्रैकर्चौ । इह तृचावित्यर्थः। उपोषु जातमप्तुरमित्यादि इषे पवस्व धारयेत्यन्तं बहिष्पवमानम् । कया ते अग्ने अङ्गिरः (सा० ५१४१-९) पुरूरुणा चिद्धयस्ति (सा० ९८५-७) तमिन्द्रं वाजयामसि (सा० १२२२-४) इयं वामस्य मन्मनः (सा० ९१६-८) इत्याज्यानि । अस्य प्रत्नामनुद्युत-( सा० ७५५-७ )मिति गायत्रं चामहीयवं (ऊ० ९. २. ३) चाशुभार्गवं (ऊ० १४.१.१९) मार्गीयवं (ऊ० १४.१.२०) च सौमित्रं (ऊ० १४.२.१) चैटतं (ऊ० १४.२.२) च साकमश्वं (ऊ० १४.२.३) च विलम्बसौपर्णं (ऊ० १४.२.४) च। अभि सोमास आयव (सा० ८५६-८) इति गौतमं (ऊ० २.१.१५) चान्तरिक्षं (र० १. १.६) च दैर्धश्रवसं (ऊ० १४. २. ५) च द्विहिंकारं (ऊ० ४. २. ७) चाच्छिद्रं (ऊ० ४. २. १२) च मैधातिथं (ऊ० ९. ३.६) च पौरुहन्मनं (ऊ० ४.२.६) च । अयं सोम (सा० १४७१-३) इति ईनिधनमाज्यदोह-(र० ४.१.२)मन्त्यम् । गौतममाद्यायाम् । पौरुहन्मनमध्यास्यायाम् । स्वासु (सा० ६८२-४) वामदेव्यम् (ऊ० १. १. ५) । मोषु त्वे-(सा० १६७५-६)ति गायत्रपार्श्वम् (ऊ० १४. २. ९) । अस्तावि मन्म पूर्व्यम् (सा० १६२७-८) इति संतनि (ऊ० १४. २. १०)। श्रयन्तीयस्यर्क्षु (सा० १३१९-२०) संकृती-(र० ४. १. ४)ति पृष्ठानि ॥
यस्ते मदो वरेण्य (सा० ७१५-७) इति गायत्रं चाग्नेश्चार्कः (र० १.३.१) सुरूपं (ऊ० १४.२.११) च भासं (ऊ० १४. १. १२) च काक्षीवतं (ऊ० १२.२.९) च गायत्री सामासितं (ऊ० १४.२.१३) च । अभि द्युम्नं बृहद्यशः (सा० १०११-२) सखाय आ निषीदते-(सा० ११५७-९)ति वाचःसाम (ऊ० १४.२.१४)
 
335
अहीनः -- पराकत्रिरात्रः (२) [अ. ६. ख. ३१]
 
शौक्तं (ऊ० १४. २. १५) च । पर्यूष्वि (सा० १३६४-६)त्यान्धीगवम् (ऊ० ६.१.१९)। इन्द्राय सोम पातवे ( सा० १६७९-८१) इत्यासितं (ऊ० १४.२.१६) च कौत्सं (ऊ० १४.२.१७) च शुद्धाशुद्धीयं (ऊ० १४.२.१८) च क्रौञ्चं (ऊ० १४.२.१७) च रयिष्ठं (ऊ० १४.१.२०) च यज्ञायज्ञीयं (ऊ० १४. २. २१) च। पवित्रं त (सा० ८५७-७) इत्यरिष्टमन्त्यम् ( र० १.१.८)॥
स्वासु विशोविशीय-( ऊ० १५. १. २ )मग्निष्टोमसाम । प्रमँहिष्ठीयं ( ऊ० २. २. ५) हारिवर्ण-(ऊ० २. २. ६)मुद्वंशीय(ऊ० ६.१.८)मित्युक्थानि । चतुर्विंशं प्रातःसवनम्। चतुश्चत्वारिंशं माध्यंदिनं सवनम्। अष्टाचत्वारिंशं तृतीयं सवनम् । सोक्थमिति स्तोमाः ॥ २॥
इति मध्यममहः ॥ २६ ॥
उक्तं तृतीयमहः ।
अन्तर्वसुत्रिरात्रः समाप्तः ।।
-------
पराकत्रिरात्रः
प्रथममहः
त्रिवृत्प्रातःसवनम् (तां० ब्रा० २१.८) इत्यनुवाकेन पराकत्रिरात्र उक्तः। तस्य प्रथमस्याह्नः क्लृप्तिमाह
यान्तर्वसोः प्रथमा सा पराकस्य ॥१॥
इति ॥१॥
इति प्रथममहः ॥ ३०॥
--------
द्वितीयमहः
अथ द्वितीयस्याह्नः --
वृषा सोम द्युमाँ असि ( सा० ७८१-३) वृषा ह्यसि भानुना ( सा० ७८४-६) इति पुरस्तात्पर्यासस्याहरति । आमहीयवादुत्तरे आशु च भार्गवं (ऊ० १४. १. १९) मार्गीयवं (ऊ० १४. १. २०) चाग्नेश्चार्कादुत्तरे सुरूप-(ऊ० १४. २. ११) भासे (ऊ० १४. २. १२)। यज्ञायज्ञीयात्पूर्वे आसित-(ऊ० १४. २. १६)कौत्से (ऊ० १४. २. १७) ॥ १॥
समानमितरं मध्यमेनाह्ना गर्गत्रिरात्रस्य ॥२॥
इति । उपोषु जातमप्तुरम् (सा० १३३५-७) दविद्युतत्या रुचा (सा० ६५४-६) पवस्वेन्दो वृषा सुतो (सा० ७७८-८०) राजामेधाभिरीयते (सा० ८३३-५) वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषा ह्यसि भानुना (सा० ७८४-६) इषे पवस्व धारये (सा० ८४१-३)ति बहिष्पवमानम् ॥
कया ते अग्ने (सा० ११४९-५१) पुरूरुणा चिद्धयस्ति( सा० ९८५-७) तमिन्द्रं वाजयामसि ( सा० १२२२-४) इयं वामस्य मन्मनः (सा० ८१६-८) इत्याज्यानि ॥
अस्य प्रत्नामनुद्युतम् (सा० ७५५-७) इति गायत्रं चामहीयवं (ऊ० ९. २.३) चाशुभार्गवं (ऊ० १४.१.१९) च मार्गीयवं (ऊ० १४.१.२०) च। अभि सोमास आयव ( सा० ८५६-८ ) इति गौतमं (ऊ० २. १. १५) चान्तरिक्षं (र० १.१.६) च दैर्घश्रवसं (ऊ० १४. २. ५) च द्विहिंकारं (ऊ० १४. २.६) च । अयं सोम (सा. १४७१-३) इति ईनिधनमाज्यदोह- (र० ४.१. २)मन्त्यम् ॥
स्वासु ( सा० ६८२-४) वामदेव्यम् (ऊ० १.१.५) । मोषु वाघतश्चने-(सा० १६७५-६)ति गायत्रपार्श्वम् (ऊ० १४. २. ९)। अस्तावि मन्म पूर्व्यम् (सा० १६७७-८) इति सन्तनि (ऊ० १४. २. १०) । श्रायन्तीयस्यर्क्षु (सा० १३१९-२०)
 
337
अहीनः -- पराकत्रिरात्रः (३) [अ. ६. ख. ३२]
 
संकृती-(र० ४. १. ४)ति पृष्ठानि । यस्ते मदो वरेण्यः (सा० ८१६-७) इति गायत्रं चाग्नेश्चार्कः (र० १.३.१) सुरूपं (ऊ० १४.२.११) च। अभि द्युम्नं (सा० १०११-२) सखाय आ निषीदते-(सा० ११५७-९)ति वाचश्चसाम (ऊ. १४.२.१४) शौक्तं (ऊ० १४. २. १५) च । पर्यूष्वि- (सा० १३६४-६) त्यान्धीगवम् (ऊ० ६.१.१९)। इन्द्राय सोम पातवे (सा० १६७९-८) इति आसितं च कौत्सं (ऊ० १४.२.१६-७) च यज्ञायज्ञीयं (ऊ० १४. २. २१) च । पवित्रं त ( सा. ८७५-७) इत्यरिष्ट(र० १. १. ८)मन्त्यम् ॥२॥
विशोविशीय-(१५. १. २)मग्निष्टोमसाम । स्वासु प्रमँहिष्ठीयं (ऊ० २. २. ५) हारिवर्ण-(ऊ० २. २.६)मुद्वंशीय-(ऊ० ६. १. ८) मित्युक्थानि ॥२॥
इति द्वितीयमहः ॥ ३१॥
------
तृतीयमहः
तृतीयस्याह्नः --
व्युष्टेरुत्तरस्याह्नो बहिष्पवमानम् । अथ यदेव छन्दोमपवमानस्योत्तममहस्तदेतत् । तस्य शशकर्णक्लृप्ता बृहती ॥ १ ॥
इति । साध्यास्यायां चेदेकोऽध्यास्यायामेवान्ततो द्वौ तस्यां चैवादितश्च सा शशकर्णक्लृप्तेति शशकर्णक्लृप्तिर्व्याख्याता ॥
पवस्व वाचो अग्रियः ( सा० ७७५-७) एष देवो अमर्त्यः (सा० १२५६-६५) एष धिया यात्यण्व्या (सा० १२६६-७३) आ ते दक्षं मयोभुवम् ( सा० ११३७-९ ) इति बहिष्पवमानम् ॥
अन्यत्सर्वं छन्दोमपवमानस्योत्तमेनाह्ना समम् । आभीशवं प्रथमायाम् । श्रीणन्त इति अध्यास्यायां देवस्थान-(र ० ४.२.२ ) मिति विशेषः ॥१॥
इति तृतीयमहः ॥ ३२॥
पराकत्रिरात्र: समाप्तः ॥
 
 
इति श्रीवामनार्यसुतवरदराजविरचितायां आर्षेयकल्पव्याख्यायामहीनेषु प्रथमोऽध्याय आदितः षष्ठः ॥६॥
------
 
 
</poem>
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०६" इत्यस्माद् प्रतिप्राप्तम्