"ऋग्वेदः सूक्तं १०.१७७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
 
{{सायणभाष्यम्|
‘ पतङ्गम् ' इति तृचं षड्विंशं सूक्तं प्रजापतिपुत्रस्य पतङ्गस्यार्षम् । आद्या जगती ततस्त्रिष्टुभौ । मायाभेदस्य प्रतिपाद्यत्वात्तद्देवत्यमिदं सूक्तम् । अनुक्रान्तं च-- ‘ पतङ्गं तृचं पतङ्गः प्राजापत्यो मायाभेदं जगत्यादि ' इति । प्रवर्ग्येऽभिष्टव आद्ये ऋचौ । सूत्रितं च - पतङ्गमक्तमसुरस्य मायया यो नः सनुत्यः' (आश्व. श्रौ. [[आश्वलायन श्रौतसूत्रम्/अध्यायः ४|४. ६]]) इति ।।
 
 
पङ्क्तिः ५१:
ताम् । द्योतमानाम् । स्वर्यम् । मनीषाम् । ऋतस्य । पदे । कवयः । नि । पान्ति ॥२
 
“पतङ्गः सूर्यः “वाचं त्रयीरूपां “मनसा प्रज्ञया “बिभर्ति धारयति । श्रूयते हि--- ऋग्भिः पूर्वाह्णे दिवि देव ईयते यजुर्वेदे तिष्ठति मध्ये अह्नः सामवेदेनास्तमये महीयते वेदैरशून्यस्त्रिभिरेति सूर्यः' (तै. ब्रा.३.१२.९.१ ) इति । “ताम् एव वाचं “गर्भे शरीरस्य मध्ये वर्तमानः “गन्धर्वः । गाः शब्दान् धारयतीति गन्धर्वः प्राणवायुः । “अन्तः मध्ये “अवदत् वदति प्रेरयति । ‘ मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ' ( पा. शि. ७) इति स्मरणात् । “द्योतमानां स्वर्यं स्वर्गमयित्रीं स्वर्गाय हितां वा “मनीषां मनस ईशित्रीं “तां त्रयीरूपां वाचम् “ऋतस्य यज्ञस्य सत्यभूतस्य सूर्यस्य वा “पदे स्थाने “कवयः मेधाविन ऋषयः “नि “पान्ति । अध्यापनेन नितरां रक्षन्ति । यद्वा । पतङ्गः सर्वोपाधिशून्यो व्याप्तः परमात्मा। स सृष्ट्यादौ वाचं मनसा बिभर्ति । कानि कानि स्रष्टव्यानीति पर्यालोचनेन मनसा सकलार्थप्रतिपादकं वेदं परामृष्टवानित्यर्थः । स्मर्यते हि -- वेदशब्देश्यवेदशब्देभ्य एवादौ निर्ममे स महेश्वरः' इति । गर्भे हिरण्मये ब्रह्माण्डेऽन्तर्वर्तमानो गन्धर्वो हिरण्यगर्भस्तां वाचमवदत् प्रथममुच्चारितवान् । द्योतमानत्वादिगुणविशिष्टां तां वाचं कवयः क्रान्तदर्शिनो देवा ऋतस्य सत्यस्य ब्रह्मणः पदे स्थाने नि पान्ति निभृतं रक्षन्ति ।
 
 
पङ्क्तिः ६८:
सः । सध्रीचीः । सः । विषूचीः । वसानः । आ । वरीवर्ति । भुवनेषु । अन्तरिति ॥३
 
व्याख्यातेयमस्यवामीयसूक्ते ( ऋ. सं. १. १६४. ३१ ) । “गोप गोपयितारमादित्यम् “अपश्यम् अज्ञासिषम् । एष हि सर्वाणि भूतजातान्युदयास्तमयादिकर्मणा गोपायति । कीदृशम् । “अनिपद्यमानम् उच्चैर्गच्छन्तम् । न ह्यसौ कदाचिन्नीचैः पद्यते । पथिभिः आकाशमार्गैः पूर्वाह्न “आ “चरन्तम् अस्मानभिलक्ष्य गच्छन्तं सार्थसमये “परा चरन्तं पराङ्मुख गच्छन्तम् । प्रकारद्वयमुच्चयार्थी शब्दौ । सः सूर्यः सध्रीचीः सहञ्चन्तीःसहाञ्चन्तीः “विषूचीः विविधं पृथक्पृथगञ्जन्तीःपृथक्पृथगञ्चन्ती- स्वस्वव्यापाराय गच्छन्तीः । प्राच्याद्या महादिशः सधीच्यासध्रीच्यो विधूच्यःविषूच्यः कोणदिशः। “वसानः स्वभासाच्छादयन् प्रकाशयन् “भुवनेषु लोकेषु अन्तः मध्ये “ “वरीवति“वरीवर्ति । पुनःपुनरुद्यन् अस्तं गच्छंश्चावर्तते । यद्वा । गोपां शरीरस्य गोपायितारमनिपद्यमानमविनाशिनमविपन्नमा च परा चाभिमुखेन च पराङ्मुखेन च पथिभिर्नाडीलक्षणैर्मागैश्चरन्तं शरीरे वर्तमानं प्राणमपश्यम् अहमदर्शम् ॥ ॥३५॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७७" इत्यस्माद् प्रतिप्राप्तम्