"आर्षेयकल्पः/अध्यायः ०३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">कॢप्तो ज्योतिष्टोमो ३-१-१ 3.1
 
गोर्वर्कजम्भस्य लोके दैर्घश्रवसं दैर्घश्रवसस्य बार्हदुक्थँ स्वासु श्यैतं गौरीवितस्य श्यावाश्वमुद्वंशीयस्य नार्मेधं यदि रात्रिः समानमितरँ सांवत्सरिकेण ३-१-२ 3.2
 
आयुषो वार्कजम्भस्य लोके मैधातिथं मैधातिथस्य रौरवँ स्वासु नौधसं गौरीवितस्य श्यावाश्वम् उद्वँशीयस्य नार्मेधं यदि रात्रिः समानमितरँ सांवत्सरिकेण ३-१-३ 3.3
 
अभि प्र गोपतिं गिरेत्यभिजितो ब्रह्मण आज्यं यद्यतिरात्रः सामतृचस्य लोके श्यावाश्वं प्रमँहिष्ठीयँ हारिवर्णं नार्मेधं प्रत्यस्मै पिपीषत इति नानदँ षोडशिसाम रात्रिः संधिः समानमितरँ सांवत्सरिकेण ३-१-४ 3.4
 
विश्वजितः पवस्वेन्द्रमच्छेति सत्रासाहीयश्रुध्ये सफश्रुध्ये यद्यतिरात्रः सामतृचस्य लोक आन्धीगवं ज्योतिष्टोमोऽतिरात्रः षोडशिमान्त्समानमितरँ सांवत्सरिकेण ३-१-५ 3.5
 
व्रतस्या नो विश्वासु हव्यमिति श्यैतं ब्रह्मसाम गौरीवितस्य लोक औदलँ समानमितरँ सांवत्सरिकेण ३-१-६ 3.6
 
पवस्व वाचो अग्रियो दविद्युतत्या रुचा पवमानस्य ते कवे अग्न आ याहि वीतय इति राथंतरं त्रीणि बार्हतान्यस्य प्रत्नामनु द्युतमिति गायत्रं चामहीयवं च परीतो षिञ्चता सुतमिति समन्तं च रथंतरं च दैर्घश्रवसं च यौधाजयं चायँ सोम इति पार्थमन्त्यं बृहच्च वामदेव्यं च स्वादोरित्था विषूवत इति श्यैतँ स्वासु कालेयँ स्वादिष्ठया मदिष्ठयेति गायत्रसँहिते पवस्वेन्द्रमच्छेति सफश्रुध्ये पुरोजिती वो अन्धस इति श्यावाश्वान्धीगवे सूर्यवतीषु कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम त्रिवृद्बहिष्पवमानं पञ्चदशत्रिवृन्त्याज्यानि सप्तदशो माध्यंदिनः पवमानो होतुश्च पृष्ठं पञ्चदशं मैत्रावरुणस्य पञ्चविँशं ब्राह्मणाच्छँसिनः सप्तदशमच्छावाकस्यैकविँश आर्भव एकविँशोऽग्निष्टोमः ३-२ 3.7
 
एषैवोत्तरस्य कॢप्तिस्तस्य त्रिवृद्बहिष्पवमानं पञ्चदशान्याज्यानि सप्तदशो माध्यंदिनः पवमानस्त्रीणि च पृष्ठानि पञ्चविँशं ब्राह्मणाच्छँसिनः सप्तदश आर्भव एकविँशोऽग्निष्टोमो ३-३-१ 3.8
 
अग्निं दूतं वृणीमह इत्युभयान्याज्यानि श्रायन्तीयं ब्रह्मसाम यस्ते मदो वरेण्य इति गायत्रमौक्षे आन्धीगवादुत्तरमाथर्वनँ साकमश्वँ सौभरं त्रैककुभं वोद्वँशीयमित्युक्थानि चतुर्विँश आर्भव एकविंशोऽग्निष्टोमः सोक्थ्यः समानमितरं पूर्वेण सस्तोमम् ३-३-२ 3.9
 
उपास्मै गायता नर उपो षु जातमप्तुरं पवस्व वाचो अग्रियो दविद्युतत्या रुचा पवमानस्य ते कवे अग्न आ याहि वीतये पुरूरुणा चिध्यस्तीन्द्रमिद्गाथिनो बृहदिन्द्रे अग्ना नमो बृहदुच्चा ते जतमन्धस इति गायत्रं चामहीयवं च पवस्व मधुमत्तम इतीडानाँ संक्षार एकस्यां प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यमिति यौधाजयं तिसृषु पुनानः सोम धारयेति रौरवमेकस्याँ रथंतरं तिसृषु शिशुं जज्ञानँ हर्यतं मृजन्तीति वामदेव्यमन्त्यं बृहत्पृष्ठं वामदेव्यस्यर्क्षु स्वारँ सौपर्णँ श्रायन्तियं च कालेयं च स्वादिष्ठया मदिष्ठयेति गयत्रसँहिते परि प्र धन्वेन्द्रमच्छेति सफश्रुध्ये पुरोजिती वो अन्धस इति श्यावाश्वान्धीगवे सूर्यवतीषु कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम त्रिवृद्बहिष्पवमानं पञ्चदशानि त्रीण्याज्यानि त्रिवृन्मैत्रावरुणस्य सप्तदशो माध्यंदिनः पवमानो होतुश्च पृष्ठं पञ्चदशं मैत्रावरुणस्य पञ्चविँशं ब्राह्मणाच्छँसिनः सप्तदशमच्छावाकस्य सप्तदश आर्भव एकविँशोऽग्निष्टोमः ३-४ 3.10
 
उपास्मै गायता नरः पवमानो अजीजनत् पवमानस्य ते कव इतीममू षु त्वमस्माकं मित्रं वयं हवामहे अहमिद्धि पितुष्परीयं वामस्य मन्मन उच्चा ते जातमन्धस इति गायत्रमेकस्याम् आमहीयवमेकस्याँ शाक्वरवर्णमेकस्यां पुनानः सोम धारयेति वैष्टंभमेकस्यां कालेयं एकस्यां यौधाजयमेकस्याम् औशनमन्त्यँ रथंतरं वामदेव्यं च श्रायन्तीयस्यर्क्षु सौभरं कालेयस्यर्क्षु वारवन्तीयँ स्वादिष्ठया मदिष्ठयेति गायत्रं च स्वाशिरां चार्कः पवस्वेन्द्रमच्छेति सफायास्ये पुरोजिती वो अन्धस इति श्यावाश्वान्धीगवे कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम ३-५ 3.11
 
एषैवोत्तरस्य कॢप्तिस्तस्यैकविँशमग्निष्टोमसामोभौ त्रिवृतौ ३-६-१ 3.12
 
शाक्वरवर्णात्पूर्वँ स्वारँ सौपर्णमायास्यस्य लोके पौष्कलँ श्यावा-श्वात्पूर्वमैडमायास्यं चतुर्विंशावुत्तरौ पवमानौ तृचकॢप्तौ समानमितरं पूर्वेण सस्तोमँ ३-६-२ 3.13
 
रथंतरदैर्घश्रवसे अन्तरैडमायास्यमेकस्याँ सँहितादुत्तरं जराबोधीयँ समानमितरं विश्वजितैकाहिकेनाग्निष्टोमेनाष्टादशावुत्तरौ पवमानावेकविँशँ होतुः पृष्ठमेकविंशो ऽग्निष्टोमस्त्रिवृदितरँ सर्वम् ३-६-३ 3.14
 
पवमानस्य जिघ्नतः पुनानो अक्रमीदभि पवमानस्य ते कवे अग्निर्वृत्राणि जङ्घनन्मित्रँ हुवे पूतदक्षमु त्वा मन्दन्तु सोमास्ता हुवे ययोरिदमर्षा सोम द्युमत्तम इति गायत्रमेकस्यां वार्षाहरं एकस्याँ शाक्वरवर्णमेकस्यां पुनानः सोम धारयेति वषट्कारणिधनमेकस्याँ रौरवमेकस्यां यौधाजयमेकस्यामौशनमन्त्यँ रथँतरं च वामदेव्यं च बृहच्च कालेयं च यस्ते मदो वरेण्य इति गायत्र वार्षाहरे पवस्वेन्द्रमच्छेति सफौपगवे पुरोजिती वो अन्धस इति नानदान्धीगवे कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम त्रिवृतः पवमाना अग्निष्टोमसाम च तिसृभिराज्यपृष्ठानि ३-७ 3.15
 
उपास्मै गायता नर इत्येकया बहिष्पवमानँ साद्यःक्राण्याज्यानीन्द्रायेन्दो मरुत्वत इति गायत्रं पुनानः सोम धारयेति उत्सेध औशनमन्त्यँ रथंतरं च वामदेव्यं च श्रायन्तीयस्यर्क्षि निषेधः स्वासु कालेयमया रुचा हरिण्या पुनान इति गायत्रपार्श्वं यज्ञायज्ञीयमग्निष्टोमसामैकत्रिक स्तोम एकयाथ तिसृभिः ३-८ 3.16
 
ज्योतिष्टोमं बहिष्पवमानमग्ने विश्वेभिरग्निभिरा नो मित्रावरुणा त्वेता निषीदतेन्द्राग्नी आगतँ सुतमुच्चा ते जातमन्धस इति गायत्रं चामहीयवं च पवस्व मधुमत्तम इति कालेयं त्वे सोम प्रथमा वृक्तबर्हिष इति यौधाजयं पुनानः सोम धारयेति रौरवमौशनमन्त्यँ रथंतरं च वामदेव्यं चाधा हीन्द्र गिर्वण एन्दुमिन्द्राय सिञ्चतेति द्यौतानमारुते स्वादिष्ठया मदिष्ठयेति गायत्रसँहिते परि प्र धन्व नदँ वा ओदतीनामिति सफश्रुध्ये प्रयू ष्विति मरुताँ सँस्तोभः पुरोजिती वो अन्धस इति श्यावाश्वान्धीगवे कावमन्त्यं देवो वो द्रविणोदा इति यज्ञायज्ञीयमग्निष्टोमसाम त्रिवृद्बहिष्पवमानं पञ्चदशानि त्रीण्याज्यानि षोडशमच्छावाकस्य षोडशो माध्यंदिनः पवमानः सप्तदशानि त्रीणि पृष्ठानि षोडशमच्छावाकस्य षोडश आर्भव एकविँशोऽग्निष्टोमः ३-९ 3.17
 
एते असृग्रमिन्दवो यवंयवं नो अन्धसेति पुरस्तात्पर्यासस्य तृचचतुरृचे आयुष उक्थानि षोडशाः पवमाना अच्छावाकसामानि चैकविँशोऽग्निष्टोमो द्वे चोक्थे समानमितरं पूर्वेण सस्तोमम् ३-१०-१ 3.18
 
इन्द्रायेन्दो मरुत्वत इति गायत्रं चामहीयवं च पवस्व मधुमत्तम इति कालेयं त्वे सोम प्रथमा वृक्तबर्हिष इति दैर्घश्रवसं पुनानः सोम धारयेति रौरव यौधाजये श्रुध्यस्य लोके मरुआँ! सँस्तोभो मरुताँ सँस्तोभस्य श्यावाश्वं पुरोजिती वो अन्धस इत्यान्धीगवं त्रिवृतावुत्तरौ पवमानौ समानमितरं प्रथमेन व्रात्यस्तोमेन सस्तोमम् ३-१०-२ 3.19
 
अग्रियवती प्रतिपत् पूर्वस्य प्रातःसवनम् उच्चा ते जातमन्धस इति गयत्रं चामहीयवं च पवस्व मधुमत्तम इति कालेयं त्वे सोम प्रथमा वृक्तबर्हिष इति दैर्घश्रवसं पुनानः सोम धारयेति रथंतरँ रौरवयौधाजये वृषा शोण इति पार्थमन्त्यं बृहच्च वामदेव्यं चाधा हीन्द्र गीर्वण एन्दुमिन्द्राय शिञ्चतेति द्यौतानमारुते स्वादिष्ठया मदिष्ठयेति गायत्रसँहिते जराबोधीयं च स्वाशिरां चार्कः परि प्र धन्व नदं व ओदतीनामिति सफश्रुध्ये पर्यू ष्विति मरुताँ सँस्तोभः पुरोजिती वो अन्धस इति श्यावाश्वान्धीगवे आथर्वणं च बृहच्चाग्नेयं कावमन्त्यं देवो वो द्रविणोदा इति यज्ञायज्ञीयमग्निष्टोमसाम द्वे त्रिवृती स्तोत्रे द्वे पञ्चदशसप्तदशे द्वे एकविँशचतुर्विंशे द्वे चतुश्चत्वारिँशाष्टाचत्वारिँशे द्वे त्रिणवत्रयस्त्रिँशे द्वे द्वात्रिँशे ३-११ 3.20
 
अग्न आयूँषि पवसे अग्ने पावक रोचिषाग्निर्मुर्धा दिवः ककुदग्न आ याहि वीतये कस्ते जामिर्जनानामीडेन्यो नमस्यो ऽग्निर्वृत्राणि जङ्घनदुत्ते बृहन्तो अर्चय इति गायत्रमेकस्यामामहीयवमेकस्यां जराबोधीयमेकस्यां पाहि नो अग्न एकयेति यौधाजयं तिसृष्विनो राजन्नरतिः समिद्ध इत्यौशनमन्त्यमेना वो अग्निं नमसा कया ते अग्ने अङ्गिर इति रथंतरं च वामदेव्यं चाग्न आ याह्यग्निभिरच्छा नः शीरशोचिषमिति नौधसकालेये अदाभ्यः पुर०एतेति गायत्रसँहिते भद्रो नो अग्निराहुतो ऽग्ने वाजस्य गोमत इति सफ पौष्कले विशोविशो वो अतिथिमिति श्यावाश्वान्धीगवे समिद्धमग्निँ समिधा गिरा गृण इति यज्ञायज्ञीयमन्त्यमुप त्वा जामयो गिर इति वायव्यासु वारवन्तीयमग्निष्टोमसाम ३-१२ 3.21
 
एषैवोत्तरस्य कॢप्तिस्तस्य रेवतीषु वारवन्तीयमग्निष्टोमसामो उभौ त्रिवृताव् ३-१३ -१ 3.22
 
उद्धरति जराबोधीयं यौधाजयात्पूर्वँ रौरवं पौष्कलस्य लोके श्रुध्यँ श्यावाश्वस्य यज्ञायज्ञीयं यज्ञायज्ञीयस्य कावँ समानमितरं पूर्वेण ज्योतिष्टोम स्तोमो ३-१३ -२ 3.23
 
अवा नो अग्न ऊतिभिरग्निँ हिन्वन्तु नो धिय इति पुरस्तात्पर्यासस्य तृचपञ्चर्चे पाहि नो अग्न एकयेति रौरवं तिसृषु दैर्घश्रवसमेकस्याँ समन्तं विष्टारपङ्क्तौ यौध्जयं तिसृषु १९
समानमितरं पूर्वेण सर्वः सप्तदशः ३-१३-३ 3.24
 
पवस्वेन्दो वृषा सुत एते असृग्रजिन्दवः पवमानस्य ते कवे व्रात्यान्याज्यान्युच्चा ते जातमन्धस इति गायत्रमेकस्यामामहीयवमेकस्यां जराबोधीयमेकस्यां पुनानः सोम धारयेति यौधाजयं तिसृषु स्वासु नौधसस्यर्क्ष्वभीवर्तो ब्रह्मसाम समानमितरं ज्योतिष्टोमेन ३-१३-४ 3.25
 
एष एवोत्तरस्य मध्यंदिनो ज्योतिष्टोममितरँ सर्वँ ३-१३-५ 3.26
 
शाक्वरवर्णस्य लोके जरबोधीयं वषट्कारणिधनस्य सप्तहं बृहतो वषट्कारणिधनँ समानमितरच्छ्येनेन ३-१३-६ 3.27
 
प्र सोमास अधन्विषुः क्प्र स्वानासो रथा इवा सृग्रमिन्दवः पथो पप्रयन्तो अध्वरं प्र वो मित्राय गायत प्र व इन्द्राय मादनं प्र वामर्चन्त्युक्थिनः प्र सोमासो विपश्चित इति गायत्रं प्र सोम देववीतय इति गौङ्गवं प्र तु द्रवेत्यौशनमन्त्यं वामदेव्यं च मैधातिथं च हारायणं च कौल्मलबर्हिषं च प्र सोमासो मदच्युत इति गायत्रं चाशु भार्गवम् अभि द्युम्नं बृहद्यशः प्र धन्व सोम जागृविरिति सफ सत्रासाहीये प्र सुन्वानायान्धस इति श्यावाश्वौदले प्रो अयासीदिति कावमन्त्यं प्र दैवोदासो अग्निरिति यज्ञायज्ञीयमग्निष्टोमसाम दैर्घश्रवसँ स्वासु यदि जीवेत् सर्वः स्वारः सर्वे त्रिवृतः शान्तिर्वामदेव्यँ शान्तिर्वामदेव्यम् ३-१४ 3.28
</span></poem>
 
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०३" इत्यस्माद् प्रतिप्राप्तम्